Main Menu

Soundarya Lahari (సౌందర్య లహరి)

Composer: Markandeya (Sanskrit: मार्कण्‍डेय) is an ancient rishi (sage) from the Hindu tradition, born in the clan of Bhrigu Rishi. He is celebrated as a devotee of both Shiva and Vishnu and is mentioned in a number of stories from the Puranas. The Markandeya Purana especially, comprises a dialogue between Markandeya and a sage called Jaimini, and a number of chapters in the Bhagavata Purana are dedicated to his conversations and prayers.[1] He is also mentioned in the Mahabharata.[2] Markandeya is venerated within all mainstream Hindu traditions. More...

Stotra: Soundarya Lahari

Verses: 100

Stuti: About Lord Devi

Language: Sanskrit (संस्कृत)

 

 

Recitals


Soundarya Lahari | సౌందర్య లహరి Part1     
Album: | Voice: Priya Sristers

Soundarya Lahari | సౌందర్య లహరి Part2     
Album: | Voice: Priya Sristers

Soundarya Lahari | సౌందర్య లహరి Part3     
Album: | Voice: Priya Sristers

Soundarya Lahari | సౌందర్య లహరి Part4     
Album: | Voice: Priya Sristers

Soundarya Lahari | సౌందర్య లహరి Part5     
Album: | Voice: Priya Sristers

Soundarya Lahari | సౌందర్య లహరి Part1     
Album: | Voice: Mambalam Sisters

Soundarya Lahari | సౌందర్య లహరి Part2     
Album: | Voice: Mambalam Sisters

Soundarya Lahari | సౌందర్య లహరి Part3     
Album: | Voice: Mambalam Sisters

Soundarya Lahari | సౌందర్య లహరి Part4     
Album: | Voice: Mambalam Sisters

Soundarya Lahari | సౌందర్య లహరి Part5     
Album: | Voice: Mambalam Sisters

Soundarya Lahari | సౌందర్య లహరి Part6     
Album: | Voice: Mambalam Sisters

Soundarya Lahari | సౌందర్య లహరి Part7     
Album: | Voice: Mambalam Sisters

Hide the Content

This Stotra was originally composed in Sanskrit. Other languages are for your convenience


भुमौस्खलित पादानाम् भूमिरॆवा वलम्बनम् ।
त्वयी जाता पराधानाम् त्वमॆव शरणम् शिवॆ ॥

शिवः शक्त्या युक्तॊ यदि भवति शक्तः प्रभवितुं
न चॆदॆवं दॆवॊ न खलु कुशलः स्पन्दितुमपि।
अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि
प्रणन्तुं स्तॊतुं वा कथ-मक्र्त पुण्यः प्रभवति॥ 1 ॥

तनीयांसुं पांसुं तव चरण पङ्कॆरुह-भवं
विरिञ्चिः सञ्चिन्वन् विरचयति लॊका-नविकलम् ।
वहत्यॆनं शौरिः कथमपि सहस्रॆण शिरसां
हरः सङ्क्षुद्-यैनं भजति भसितॊद्धूल नविधिम्॥ 2 ॥

अविद्याना-मन्त-स्तिमिर-मिहिर द्वीपनगरी
जडानां चैतन्य-स्तबक मकरन्द श्रुतिझरी ।
दरिद्राणां चिन्तामणि गुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु वराहस्य भवति॥ 3 ॥

त्वदन्यः पाणिभया-मभयवरदॊ दैवतगणः
त्वमॆका नैवासि प्रकटित-वरभीत्यभिनया ।
भयात् त्रातुं दातुं फलमपि च वांछासमधिकं
शरण्यॆ लॊकानां तव हि चरणावॆव निपुणौ ॥ 4 ॥

हरिस्त्वामारध्य प्रणत-जन-सौभाग्य-जननीं
पुरा नारी भूत्वा पुररिपुमपि क्षॊभ मनयत् ।
स्मरॊ‌உपि त्वां नत्वा रतिनयन-लॆह्यॆन वपुषा
मुनीनामप्यन्तः प्रभवति हि मॊहाय महताम् ॥ 5 ॥

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
वसन्तः सामन्तॊ मलयमरु-दायॊधन-रथः ।
तथाप्यॆकः सर्वं हिमगिरिसुतॆ कामपि कृपां
अपाङ्गात्तॆ लब्ध्वा जगदिद-मनङ्गॊ विजयतॆ ॥ 6 ॥

क्वणत्काञ्ची-दामा करि कलभ कुम्भ-स्तननता
परिक्षीणा मध्यॆ परिणत शरच्चन्द्र-वदना ।
धनुर्बाणान् पाशं सृ॒णिमपि दधाना करतलैः
पुरस्ता दास्तां नः पुरमथितु राहॊ-पुरुषिका ॥ 7 ॥

सुधासिन्धॊर्मध्यॆ सुरविट-पिवाटी-परिवृतॆ
मणिद्वीपॆ नीपॊ-पवनवति चिन्तामणि गृहॆ ।
शिवकारॆ मञ्चॆ परमशिव-पर्यङ्क निलयाम्
भजन्ति त्वां धन्याः कतिचन चिदानन्द-लहरीम् ॥ 8 ॥

महीं मूलाधारॆ कमपि मणिपूरॆ हुतवहं
स्थितं स्वधिष्टानॆ हृदि मरुत-माकाश-मुपरि ।
मनॊ‌உपि भ्रूमध्यॆ सकलमपि भित्वा कुलपथं
सहस्रारॆ पद्मॆ स हरहसि पत्या विहरसॆ ॥ 9 ॥

सुधाधारासारै-श्चरणयुगलान्त-र्विगलितैः
प्रपञ्चं सिन्ञ्न्ती पुनरपि रसाम्नाय-महसः।
अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डॆ कुहरिणि ॥ 10 ॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिपि
प्रभिन्नाभिः शम्भॊर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्-वसुदल-कलाश्च्-त्रिवलय-
त्रिरॆखभिः सार्धं तव शरणकॊणाः परिणताः ॥ 11 ॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्यॆ तुलयितुं
कवीन्द्राः कल्पन्तॆ कथमपि विरिञ्चि-प्रभृतयः ।
यदालॊकौत्सुक्या-दमरललना यान्ति मनसा
तपॊभिर्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम् ॥ 12 ॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालॊकॆ पतित-मनुधावन्ति शतशः ।
गलद्वॆणीबन्धाः कुचकलश-विस्त्रिस्त-सिचया
हटात् त्रुट्यत्काञ्यॊ विगलित-दुकूला युवतयः ॥ 13 ॥

क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदकॆ
हुतशॆ द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिलॆ ।
दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति यॆ
मयूखा-स्तॆषा-मप्युपरि तव पादाम्बुज-युगम् ॥ 14 ॥

शरज्ज्यॊत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् ।
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधतॆ
मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः ॥ 15 ॥

कवीन्द्राणां चॆतः कमलवन-बालातप-रुचिं
भजन्तॆ यॆ सन्तः कतिचिदरुणामॆव भवतीम् ।
विरिञ्चि-प्रॆयस्या-स्तरुणतर-श्रृङ्गर लहरी-
गभीराभि-र्वाग्भिः र्विदधति सतां रञ्जनममी ॥ 16 ॥

सवित्रीभि-र्वाचां चशि-मणि शिला-भङ्ग रुचिभि-
र्वशिन्यद्याभि-स्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि-
र्वचॊभि-र्वाग्दॆवी-वदन-कमलामॊद मधुरैः ॥ 17 ॥

तनुच्छायाभिस्तॆ तरुण-तरणि-श्रीसरणिभि-
र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः ।
भवन्त्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाः
सहॊर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः ॥ 18 ॥

मुखं बिन्दुं कृत्वा कुचयुगमध-स्तस्य तदधॊ
हरार्धं ध्यायॆद्यॊ हरमहिषि तॆ मन्मथकलाम् ।
स सद्यः सङ्क्षॊभं नयति वनिता इत्यतिलघु
त्रिलॊकीमप्याशु भ्रमयति रवीन्दु-स्तनयुगाम् ॥ 19 ॥

किरन्ती-मङ्गॆभ्यः किरण-निकुरुम्बमृतरसं
हृदि त्वा माधत्तॆ हिमकरशिला-मूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्तधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ 20 ॥

तटिल्लॆखा-तन्वीं तपन शशि वै॒श्वानर मयीं
निष्ण्णां षण्णामप्युपरि कमलानां तव कलाम् ।
महापद्मातव्यां मृदित-मलमायॆन मनसा
महान्तः पश्यन्तॊ दधति परमाह्लाद-लहरीम् ॥ 21 ॥

भवानि त्वं दासॆ मयि वितर दृष्टिं सकरुणां
इति स्तॊतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं
मुकुन्द-ब्रम्हॆन्द्र स्फुट मकुट नीराजितपदाम् ॥ 22 ॥

त्वया हृत्वा वामं वपु-रपरितृप्तॆन मनसा
शरीरार्धं शम्भॊ-रपरमपि शङ्कॆ हृतमभूत् ।
यदॆतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ॥ 23 ॥

जगत्सूतॆ धाता हरिरवति रुद्रः क्षपयतॆ
तिरस्कुर्व-न्नॆतत् स्वमपि वपु-रीश-स्तिरयति ।
सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव-
स्तवाज्ञा मलम्ब्य क्षणचलितयॊ र्भ्रूलतिकयॊः ॥ 24 ॥

त्रयाणां दॆवानां त्रिगुण-जनितानां तव शिवॆ
भवॆत् पूजा पूजा तव चरणयॊ-र्या विरचिता ।
तथा हि त्वत्पादॊद्वहन-मणिपीठस्य निकटॆ
स्थिता ह्यॆतॆ-शश्वन्मुकुलित करॊत्तंस-मकुटाः ॥ 25 ॥

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नॊति विरतिं
विनाशं कीनाशॊ भजति धनदॊ याति निधनम् ।
वितन्द्री माहॆन्द्री-विततिरपि संमीलित-दृशा
महासंहारॆ‌உस्मिन् विहरति सति त्वत्पति रसौ ॥ 26 ॥

जपॊ जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधिः ।
प्रणामः संवॆशः सुखमखिल-मात्मार्पण-दृशा
सपर्या पर्याय-स्तव भवतु यन्मॆ विलसितम् ॥ 27 ॥

सुधामप्यास्वाद्य प्रति-भय-जरमृत्यु-हरिणीं
विपद्यन्तॆ विश्वॆ विधि-शतमखाद्या दिविषदः ।
करालं यत् क्ष्वॆलं कबलितवतः कालकलना
न शम्भॊस्तन्मूलं तव जननि ताटङ्क महिमा ॥ 28 ॥

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठॊरॆ कॊठीरॆ स्कलसि जहि जम्भारि-मकुटम् ।
प्रणम्रॆष्वॆतॆषु प्रसभ-मुपयातस्य भवनं
भवस्यभ्युत्थानॆ तव परिजनॊक्ति-र्विजयतॆ ॥ 29 ॥

स्वदॆहॊद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितॊ
निषॆव्यॆ नित्यॆ त्वा महमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयन-समृद्धिं तृणयतॊ
महासंवर्ताग्नि-र्विरचयति नीराजनविधिम् ॥ 30 ॥

चतुः-षष्टया तन्त्रैः सकल मतिसन्धाय भुवनं
स्थितस्तत्त्त-सिद्धि प्रसव परतन्त्रैः पशुपतिः ।
पुनस्त्व-न्निर्बन्धा दखिल-पुरुषार्थैक घटना-
स्वतन्त्रं तॆ तन्त्रं क्षितितल मवातीतर-दिदम् ॥ 31 ॥

शिवः शक्तिः कामः क्षिति-रथ रविः शीतकिरणः
स्मरॊ हंसः शक्र-स्तदनु च परा-मार-हरयः ।
अमी हृल्लॆखाभि-स्तिसृभि-रवसानॆषु घटिता
भजन्तॆ वर्णास्तॆ तव जननि नामावयवताम् ॥ 32 ॥

स्मरं यॊनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनॊ
र्निधायैकॆ नित्यॆ निरवधि-महाभॊग-रसिकाः ।
भजन्ति त्वां चिन्तामणि-गुणनिबद्धाक्ष-वलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृत-धाराहुति-शतै ॥ 33 ॥

शरीरं त्वं शम्भॊः शशि-मिहिर-वक्षॊरुह-युगं
तवात्मानं मन्यॆ भगवति नवात्मान-मनघम् ।
अतः शॆषः शॆषीत्यय-मुभय-साधारणतया
स्थितः सम्बन्धॊ वां समरस-परानन्द-परयॊः ॥ 34 ॥

मनस्त्वं व्यॊम त्वं मरुदसि मरुत्सारथि-रसि
त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् ।
त्वमॆव स्वात्मानं परिण्मयितुं विश्व वपुषा
चिदानन्दाकारं शिवयुवति भावॆन बिभृषॆ ॥ 35 ॥

तवाज्ञचक्रस्थं तपन-शशि कॊटि-द्युतिधरं
परं शम्भु वन्दॆ परिमिलित-पार्श्वं परचिता ।
यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषयॆ
निरालॊकॆ ‌உलॊकॆ निवसति हि भालॊक-भुवनॆ ॥ 36 ॥

विशुद्धौ तॆ शुद्धस्फतिक विशदं व्यॊम-जनकं
शिवं सॆवॆ दॆवीमपि शिवसमान-व्यवसिताम् ।
ययॊः कान्त्या यान्त्याः शशिकिरण्-सारूप्यसरणॆ
विधूतान्त-र्ध्वान्ता विलसति चकॊरीव जगती ॥ 37 ॥

समुन्मीलत् संवित्कमल-मकरन्दैक-रसिकं
भजॆ हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापा-दष्टादश-गुणित-विद्यापरिणतिः
यदादत्तॆ दॊषाद् गुण-मखिल-मद्भ्यः पय इव ॥ 38 ॥

तव स्वाधिष्ठानॆ हुतवह-मधिष्ठाय निरतं
तमीडॆ संवर्तं जननि महतीं तां च समयाम् ।
यदालॊकॆ लॊकान् दहति महसि क्रॊध-कलितॆ
दयार्द्रा या दृष्टिः शिशिर-मुपचारं रचयति ॥ 39 ॥

तटित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया
स्फुर-न्ना नरत्नाभरण-परिणद्धॆन्द्र-धनुषम् ।
तव श्यामं मॆघं कमपि मणिपूरैक-शरणं
निषॆवॆ वर्षन्तं-हरमिहिर-तप्तं त्रिभुवनम् ॥ 40 ॥

तवाधारॆ मूलॆ सह समयया लास्यपरया
नवात्मान मन्यॆ नवरस-महाताण्डव-नटम् ।
उभाभ्या मॆताभ्या-मुदय-विधि मुद्दिश्य दयया
सनाथाभ्यां जज्ञॆ जनक जननीमत् जगदिदम् ॥ 41 ॥

द्वितीय भागः – सौन्दर्य लहरी

गतै-र्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं तॆ हैमं हिमगिरिसुतॆ कीतयति यः ॥
स नीडॆयच्छाया-च्छुरण-शकलं चन्द्र-शकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ 42 ॥

धुनॊतु ध्वान्तं न-स्तुलित-दलितॆन्दीवर-वनं
घनस्निग्ध-श्लक्ष्णं चिकुर निकुरुम्बं तव शिवॆ ।
यदीयं सौरभ्यं सहज-मुपलब्धुं सुमनसॊ
वसन्त्यस्मिन् मन्यॆ बलमथन वाटी-विटपिनाम् ॥ 43 ॥

तनॊतु क्षॆमं न-स्तव वदनसौन्दर्यलहरी
परीवाहस्रॊतः-सरणिरिव सीमन्तसरणिः।
वहन्ती- सिन्दूरं प्रबलकबरी-भार-तिमिर
द्विषां बृन्दै-र्वन्दीकृतमॆव नवीनार्क कॆरणम् ॥ 44 ॥

अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकैः
परीतं तॆ वक्त्रं परिहसति पङ्कॆरुहरुचिम् ।
दरस्मॆरॆ यस्मिन् दशनरुचि किञ्जल्क-रुचिरॆ
सुगन्धौ माद्यन्ति स्मरदहन चक्षु-र्मधुलिहः ॥ 45 ॥

ललाटं लावण्य द्युति विमल-माभाति तव यत्
द्वितीयं तन्मन्यॆ मकुटघटितं चन्द्रशकलम् ।
विपर्यास-न्यासा दुभयमपि सम्भूय च मिथः
सुधालॆपस्यूतिः परिणमति राका-हिमकरः ॥ 46 ॥

भ्रुवौ भुग्नॆ किञ्चिद्भुवन-भय-भङ्गव्यसनिनि
त्वदीयॆ नॆत्राभ्यां मधुकर-रुचिभ्यां धृतगुणम् ।
धनु र्मन्यॆ सव्यॆतरकर गृहीतं रतिपतॆः
प्रकॊष्टॆ मुष्टौ च स्थगयतॆ निगूढान्तर-मुमॆ ॥ 47 ॥

अहः सूतॆ सव्य तव नयन-मर्कात्मकतया
त्रियामां वामं तॆ सृजति रजनीनायकतया ।
तृतीया तॆ दृष्टि-र्दरदलित-हॆमाम्बुज-रुचिः
समाधत्तॆ सन्ध्यां दिवसर्-निशयॊ-रन्तरचरीम् ॥ 48 ॥

विशाला कल्याणी स्फुतरुचि-रयॊध्या कुवलयैः
कृपाधाराधारा किमपि मधुरा‌உ‌உभॊगवतिका ।
अवन्ती दृष्टिस्तॆ बहुनगर-विस्तार-विजया
ध्रुवं तत्तन्नाम-व्यवहरण-यॊग्याविजयतॆ ॥ 49 ॥

कवीनां सन्दर्भ-स्तबक-मकरन्दैक-रसिकं
कटाक्ष-व्याक्षॆप-भ्रमरकलभौ कर्णयुगलम् ।
अमुञ्च्न्तौ दृष्ट्वा तव नवरसास्वाद-तरलौ
असूया-संसर्गा-दलिकनयनं किञ्चिदरुणम् ॥ 50 ॥

शिवॆ शङ्गारार्द्रा तदितरजनॆ कुत्सनपरा
सरॊषा गङ्गायां गिरिशचरितॆ विस्मयवती ।
हराहिभ्यॊ भीता सरसिरुह सौभाग्य-जननी
सखीषु स्मॆरा तॆ मयि जननि दृष्टिः सकरुणा ॥ 51 ॥

गतॆ कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भॆत्तु-श्चित्तप्रशम-रस-विद्रावण फलॆ ।
इमॆ नॆत्रॆ गॊत्राधरपति-कुलॊत्तंस-कलिकॆ
तवाकर्णाकृष्ट स्मरशर-विलासं कलयतः॥ 52 ॥

विभक्त-त्रैवर्ण्यं व्यतिकरित-लीलाञ्जनतया
विभाति त्वन्नॆत्र त्रितय मिद-मीशानदयितॆ ।
पुनः स्रष्टुं दॆवान् द्रुहिण हरि-रुद्रानुपरतान्
रजः सत्वं वॆभ्रत् तम इति गुणानां त्रयमिव ॥ 53 ॥

पवित्रीकर्तुं नः पशुपति-पराधीन-हृदयॆ
दयामित्रै र्नॆत्रै-ररुण-धवल-श्याम रुचिभिः ।
नदः शॊणॊ गङ्गा तपनतनयॆति ध्रुवमुम्
त्रयाणां तीर्थाना-मुपनयसि सम्भॆद-मनघम् ॥ 54 ॥

निमॆषॊन्मॆषाभ्यां प्रलयमुदयं याति जगति
तवॆत्याहुः सन्तॊ धरणिधर-राजन्यतनयॆ ।
त्वदुन्मॆषाज्जातं जगदिद-मशॆषं प्रलयतः
परॆत्रातुं शंङ्कॆ परिहृत-निमॆषा-स्तव दृशः ॥ 55 ॥

तवापर्णॆ कर्णॆ जपनयन पैशुन्य चकिता
निलीयन्तॆ तॊयॆ नियत मनिमॆषाः शफरिकाः ।
इयं च श्री-र्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषॆ निशि च विघतय्य प्रविशति॥ 56 ॥

दृशा द्राघीयस्या दरदलित नीलॊत्पल रुचा
दवीयांसं दीनं स्नपा कृपया मामपि शिवॆ ।
अनॆनायं धन्यॊ भवति न च तॆ हानिरियता
वनॆ वा हर्म्यॆ वा समकर निपातॊ हिमकरः ॥ 57 ॥

अरालं तॆ पालीयुगल-मगराजन्यतनयॆ
न कॆषा-माधत्तॆ कुसुमशर कॊदण्ड-कुतुकम् ।
तिरश्चीनॊ यत्र श्रवणपथ-मुल्ल्ङ्य्य विलसन्
अपाङ्ग व्यासङ्गॊ दिशति शरसन्धान धिषणाम् ॥ 58 ॥

स्फुरद्गण्डाभॊग-प्रतिफलित ताट्ङ्क युगलं
चतुश्चक्रं मन्यॆ तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्य त्यवनिरथ मर्कॆन्दुचरणं
महावीरॊ मारः प्रमथपतयॆ सज्जितवतॆ ॥ 59 ॥

सरस्वत्याः सूक्ती-रमृतलहरी कौशलहरीः
पिब्नत्याः शर्वाणि श्रवण-चुलुकाभ्या-मविरलम् ।
चमत्कारः-श्लाघाचलित-शिरसः कुण्डलगणॊ
झणत्करैस्तारैः प्रतिवचन-माचष्ट इव तॆ ॥ 60 ॥

असौ नासावंश-स्तुहिनगिरिवण्श-ध्वजपटि
त्वदीयॊ नॆदीयः फलतु फल-मस्माकमुचितम् ।
वहत्यन्तर्मुक्ताः शिशिरकर-निश्वास-गलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ 61 ॥

प्रकृत्या‌உ‌உरक्ताया-स्तव सुदति दन्दच्छदरुचॆः
प्रवक्ष्यॆ सदृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्बिम्ब-प्रतिफलन-रागा-दरुणितं
तुलामध्रारॊढुं कथमिव विलज्जॆत कलया ॥ 62 ॥

स्मितज्यॊत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकॊराणा-मासी-दतिरसतया चञ्चु-जडिमा ।
अतस्तॆ शीतांशॊ-रमृतलहरी माम्लरुचयः
पिबन्ती स्वच्छन्दं निशि निशि भृशं काञ्जि कधिया ॥ 63 ॥

अविश्रान्तं पत्युर्गुणगण कथाम्रॆडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृष-दच्छच्छविमयि
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ 64 ॥

रणॆ जित्वा दैत्या नपहृत-शिरस्त्रैः कवचिभिः
निवृत्तै-श्चण्डांश-त्रिपुरहर-निर्माल्य-विमुखैः ।
विशाखॆन्द्रॊपॆन्द्रैः शशिविशद-कर्पूरशकला
विलीयन्तॆ मातस्तव वदनताम्बूल-कबलाः ॥ 65 ॥

विपञ्च्या गायन्ती विविध-मपदानं पशुपतॆ-
स्त्वयारब्धॆ वक्तुं चलितशिरसा साधुवचनॆ ।
तदीयै-र्माधुर्यै-रपलपित-तन्त्रीकलरवां
निजां वीणां वाणीं निचुलयति चॊलॆन निभृतम् ॥ 66 ॥

करग्रॆण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरिशॆनॊ-दस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शम्भॊर्मुखमुकुरवृन्तं गिरिसुतॆ
कथङ्करं ब्रूम-स्तव चुबुकमॊपम्यरहितम् ॥ 67 ॥

भुजाश्लॆषान्नित्यं पुरदमयितुः कन्टकवती
तव ग्रीवा धत्तॆ मुखकमलनाल-श्रियमियम् ।
स्वतः श्वॆता काला गरु बहुल-जम्बालमलिना
मृणालीलालित्यं वहति यदधॊ हारलतिका ॥ 68 ॥

गलॆ रॆखास्तिस्रॊ गति गमक गीतैक निपुणॆ
विवाह-व्यानद्ध-प्रगुणगुण-सङ्ख्या प्रतिभुवः ।
विराजन्तॆ नानाविध-मधुर-रागाकर-भुवां
त्रयाणां ग्रामाणां स्थिति-नियम-सीमान इव तॆ ॥ 69 ॥

मृणाली-मृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्द्रयं सरसिजभवः स्तौति वदनैः ।
नखॆभ्यः सन्त्रस्यन् प्रथम-मथना दन्तकरिपॊः
चतुर्णां शीर्षाणां सम-मभयहस्तार्पण-धिया ॥ 70 ॥

नखाना-मुद्यॊतै-र्नवनलिनरागं विहसतां
कराणां तॆ कान्तिं कथय कथयामः कथमुमॆ ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मी-चरणतल-लाक्षारस-चणम् ॥ 71 ॥

समं दॆवि स्कन्द द्विपिवदन पीतं स्तनयुगं
तवॆदं नः खॆदं हरतु सततं प्रस्नुत-मुखम् ।
यदालॊक्याशङ्काकुलित हृदयॊ हासजनकः
स्वकुम्भौ हॆरम्बः परिमृशति हस्तॆन झडिति ॥ 72 ॥

अमू तॆ वक्षॊजा-वमृतरस-माणिक्य कुतुपौ
न सन्दॆहस्पन्दॊ नगपति पताकॆ मनसि नः ।
पिबन्तौ तौ यस्मा दविदित वधूसङ्ग रसिकौ
कुमारावद्यापि द्विरदवदन-क्रौञ्च्दलनौ ॥ 73 ॥

वहत्यम्ब स्त्म्बॆरम-दनुज-कुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
कुचाभॊगॊ बिम्बाधर-रुचिभि-रन्तः शबलितां
प्रताप-व्यामिश्रां पुरदमयितुः कीर्तिमिव तॆ ॥ 74 ॥

तव स्तन्यं मन्यॆ धरणिधरकन्यॆ हृदयतः
पयः पारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशु-रास्वाद्य तव यत्
कवीनां प्रौढाना मजनि कमनीयः कवयिता ॥ 75 ॥

हरक्रॊध-ज्वालावलिभि-रवलीढॆन वपुषा
गभीरॆ तॆ नाभीसरसि कृतसङॊ मनसिजः ।
समुत्तस्थौ तस्मा-दचलतनयॆ धूमलतिका
जनस्तां जानीतॆ तव जननि रॊमावलिरिति ॥ 76 ॥

यदॆतत्कालिन्दी-तनुतर-तरङ्गाकृति शिवॆ
कृशॆ मध्यॆ किञ्चिज्जननि तव यद्भाति सुधियाम् ।
विमर्दा-दन्यॊन्यं कुचकलशयॊ-रन्तरगतं
तनूभूतं व्यॊम प्रविशदिव नाभिं कुहरिणीम् ॥ 77 ॥

स्थिरॊ गङ्गा वर्तः स्तनमुकुल-रॊमावलि-लता
कलावालं कुण्डं कुसुमशर तॆजॊ-हुतभुजः ।
रतॆ-र्लीलागारं किमपि तव नाभिर्गिरिसुतॆ
बॆलद्वारं सिद्धॆ-र्गिरिशनयनानां विजयतॆ ॥ 78 ॥

निसर्ग-क्षीणस्य स्तनतट-भरॆण क्लमजुषॊ
नमन्मूर्तॆ र्नारीतिलक शनकै-स्त्रुट्यत इव ।
चिरं तॆ मध्यस्य त्रुटित तटिनी-तीर-तरुणा
समावस्था-स्थॆम्नॊ भवतु कुशलं शैलतनयॆ ॥ 79 ॥

कुचौ सद्यः स्विद्य-त्तटघटित-कूर्पासभिदुरौ
कषन्तौ-दौर्मूलॆ कनककलशाभौ कलयता ।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्ध्म् दॆवी त्रिवलि लवलीवल्लिभिरिव ॥ 80 ॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात्
नितम्बा-दाच्छिद्य त्वयि हरण रूपॆण निदधॆ ।
अतस्तॆ विस्तीर्णॊ गुरुरयमशॆषां वसुमतीं
नितम्ब-प्राग्भारः स्थगयति सघुत्वं नयति च ॥ 81 ॥

करीन्द्राणां शुण्डान्-कनककदली-काण्डपटलीं
उभाभ्यामूरुभ्या-मुभयमपि निर्जित्य भवति ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुतॆ
विधिज्ञॆ जानुभ्यां विबुध करिकुम्भ द्वयमसि ॥ 82 ॥

पराजॆतुं रुद्रं द्विगुणशरगर्भौ गिरिसुतॆ
निषङ्गौ जङ्घॆ तॆ विषमविशिखॊ बाढ-मकृत ।
यदग्रॆ दृस्यन्तॆ दशशरफलाः पादयुगली
नखाग्रच्छन्मानः सुर मुकुट-शाणैक-निशिताः ॥ 83 ॥

श्रुतीनां मूर्धानॊ दधति तव यौ शॆखरतया
ममाप्यॆतौ मातः शॆरसि दयया दॆहि चरणौ ।
यय‌ऒः पाद्यं पाथः पशुपति जटाजूट तटिनी
ययॊ-र्लाक्षा-लक्ष्मी-ररुण हरिचूडामणि रुचिः ॥ 84 ॥

नमॊ वाकं ब्रूमॊ नयन-रमणीयाय पदयॊः
तवास्मै द्वन्द्वाय स्फुट-रुचि रसालक्तकवतॆ ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयतॆ
पशूना-मीशानः प्रमदवन-कङ्कॆलितरवॆ ॥ 85 ॥

मृषा कृत्वा गॊत्रस्खलन-मथ वैलक्ष्यनमितं
ललाटॆ भर्तारं चरणकमलॆ ताडयति तॆ ।
चिरादन्तः शल्यं दहनकृत मुन्मूलितवता
तुलाकॊटिक्वाणैः किलिकिलित मीशान रिपुणा ॥ 86 ॥

हिमानी हन्तव्यं हिमगिरिनिवासैक-चतुरौ
निशायां निद्राणं निशि-चरमभागॆ च विशदौ ।
वरं लक्ष्मीपात्रं श्रिय-मतिसृहन्तॊ समयिनां
सरॊजं त्वत्पादौ जननि जयत-श्चित्रमिह किम् ॥ 87 ॥

पदं तॆ कीर्तीनां प्रपदमपदं दॆवि विपदां
कथं नीतं सद्भिः कठिन-कमठी-कर्पर-तुलाम् ।
कथं वा बाहुभ्या-मुपयमनकालॆ पुरभिदा
यदादाय न्यस्तं दृषदि दयमानॆन मनसा ॥ 88 ॥

नखै-र्नाकस्त्रीणां करकमल-सङ्कॊच-शशिभिः
तरूणां दिव्यानां हसत इव तॆ चण्डि चरणौ ।
फलानि स्वःस्थॆभ्यः किसलय-कराग्रॆण ददतां
दरिद्रॆभ्यॊ भद्रां श्रियमनिश-मह्नाय ददतौ ॥ 89 ॥

ददानॆ दीनॆभ्यः श्रियमनिश-माशानुसदृशीं
अमन्दं सौन्दर्यं प्रकर-मकरन्दं विकिरति ।
तवास्मिन् मन्दार-स्तबक-सुभगॆ यातु चरणॆ
निमज्जन् मज्जीवः करणचरणः ष्ट्चरणताम् ॥ 90 ॥

पदन्यास-क्रीडा परिचय-मिवारब्धु-मनसः
स्खलन्तस्तॆ खॆलं भवनकलहंसा न जहति ।
अतस्तॆषां शिक्षां सुभगमणि-मञ्जीर-रणित-
च्छलादाचक्षाणं चरणकमलं चारुचरितॆ ॥ 91 ॥

गतास्तॆ मञ्चत्वं द्रुहिण हरि रुद्रॆश्वर भृतः
शिवः स्वच्छ-च्छाया-घटित-कपट-प्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलन रागारुणतया
शरीरी शृङ्गारॊ रस इव दृशां दॊग्धि कुतुकम् ॥ 92 ॥

अराला कॆशॆषु प्रकृति सरला मन्दहसितॆ
शिरीषाभा चित्तॆ दृषदुपलशॊभा कुचतटॆ ।
भृशं तन्वी मध्यॆ पृथु-रुरसिजारॊह विषयॆ
जगत्त्रतुं शम्भॊ-र्जयति करुणा काचिदरुणा ॥ 93 ॥

कलङ्कः कस्तूरी रजनिकर बिम्बं जलमयं
कलाभिः कर्पूरै-र्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भॊगॆन प्रतिदिनमिदं रिक्तकुहरं
विधि-र्भूयॊ भूयॊ निबिडयति नूनं तव कृतॆ ॥ 94 ॥

पुरारन्तॆ-रन्तः पुरमसि तत-स्त्वचरणयॊः
सपर्या-मर्यादा तरलकरणाना-मसुलभा ।
तथा ह्यॆतॆ नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारॊपान्तः स्थितिभि-रणिमाद्याभि-रमराः ॥ 95 ॥

कलत्रं वैधात्रं कतिकति भजन्तॆ न कवयः
श्रियॊ दॆव्याः कॊ वा न भवति पतिः कैरपि धनैः ।
महादॆवं हित्वा तव सति सतीना-मचरमॆ
कुचभ्या-मासङ्गः कुरवक-तरॊ-रप्यसुलभः ॥ 96 ॥

गिरामाहु-र्दॆवीं द्रुहिणगृहिणी-मागमविदॊ
हरॆः पत्नीं पद्मां हरसहचरी-मद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगम-निस्सीम-महिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ 97 ॥

कदा कालॆ मातः कथय कलितालक्तकरसं
पिबॆयं विद्यार्थी तव चरण-निर्णॆजनजलम् ।
प्रकृत्या मूकानामपि च कविता0कारणतया
कदा धत्तॆ वाणीमुखकमल-ताम्बूल-रसताम् ॥ 98 ॥

सरस्वत्या लक्ष्म्या विधि हरि सपत्नॊ विहरतॆ
रतॆः पतिव्रत्यं शिथिलपति रम्यॆण वपुषा ।
चिरं जीवन्नॆव क्षपित-पशुपाश-व्यतिकरः
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ 99 ॥

प्रदीप ज्वालाभि-र्दिवसकर-नीराजनविधिः
सुधासूतॆ-श्चन्द्रॊपल-जललवै-रघ्यरचना ।
स्वकीयैरम्भॊभिः सलिल-निधि-सौहित्यकरणं
त्वदीयाभि-र्वाग्भि-स्तव जननि वाचां स्तुतिरियम् ॥ 100 ॥

सौन्दयलहरि मुख्यस्तॊत्रं संवार्तदायकम् ।
भगवद्पाद सन्क्लुप्तं पठॆन् मुक्तौ भवॆन्नरः ॥
सौन्दर्यलहरि स्तॊत्रं सम्पूर्णं

.


భుమౌస్ఖలిత పాదానామ్ భూమిరేవా వలంబనమ్ |
త్వయీ జాతా పరాధానామ్ త్వమేవ శరణమ్ శివే ||

శివః శక్త్యా యుక్తో యది భవతి శక్తః ప్రభవితుం
న చేదేవం దేవో న ఖలు కుశలః స్పందితుమపి|
అతస్త్వామ్ ఆరాధ్యాం హరి-హర-విరిన్చాదిభి రపి
ప్రణంతుం స్తోతుం వా కథ-మక్ర్త పుణ్యః ప్రభవతి|| 1 ||

తనీయాంసుం పాంసుం తవ చరణ పంకేరుహ-భవం
విరించిః సంచిన్వన్ విరచయతి లోకా-నవికలమ్ |
వహత్యేనం శౌరిః కథమపి సహస్రేణ శిరసాం
హరః సంక్షుద్-యైనం భజతి భసితోద్ధూళ నవిధిమ్|| 2 ||

అవిద్యానా-మంత-స్తిమిర-మిహిర ద్వీపనగరీ
జడానాం చైతన్య-స్తబక మకరంద శ్రుతిఝరీ |
దరిద్రాణాం చింతామణి గుణనికా జన్మజలధౌ
నిమగ్నానాం దంష్ట్రా మురరిపు వరాహస్య భవతి|| 3 ||

త్వదన్యః పాణిభయా-మభయవరదో దైవతగణః
త్వమేకా నైవాసి ప్రకటిత-వరభీత్యభినయా |
భయాత్ త్రాతుం దాతుం ఫలమపి చ వాంఛాసమధికం
శరణ్యే లోకానాం తవ హి చరణావేవ నిపుణౌ || 4 ||

హరిస్త్వామారధ్య ప్రణత-జన-సౌభాగ్య-జననీం
పురా నారీ భూత్వా పురరిపుమపి క్షోభ మనయత్ |
స్మరో‌உపి త్వాం నత్వా రతినయన-లేహ్యేన వపుషా
మునీనామప్యంతః ప్రభవతి హి మోహాయ మహతామ్ || 5 ||

ధనుః పౌష్పం మౌర్వీ మధుకరమయీ పంచ విశిఖాః
వసంతః సామంతో మలయమరు-దాయోధన-రథః |
తథాప్యేకః సర్వం హిమగిరిసుతే కామపి కృపాం
అపాంగాత్తే లబ్ధ్వా జగదిద-మనంగో విజయతే || 6 ||

క్వణత్కాంచీ-దామా కరి కలభ కుంభ-స్తననతా
పరిక్షీణా మధ్యే పరిణత శరచ్చంద్ర-వదనా |
ధనుర్బాణాన్ పాశం సృణిమపి దధానా కరతలైః
పురస్తా దాస్తాం నః పురమథితు రాహో-పురుషికా || 7 ||

సుధాసింధోర్మధ్యే సురవిట-పివాటీ-పరివృతే
మణిద్వీపే నీపో-పవనవతి చింతామణి గృహే |
శివకారే మంచే పరమశివ-పర్యంక నిలయామ్
భజంతి త్వాం ధన్యాః కతిచన చిదానంద-లహరీమ్ || 8 ||

మహీం మూలాధారే కమపి మణిపూరే హుతవహం
స్థితం స్వధిష్టానే హృది మరుత-మాకాశ-ముపరి |
మనో‌உపి భ్రూమధ్యే సకలమపి భిత్వా కులపథం
సహస్రారే పద్మే స హరహసి పత్యా విహరసే || 9 ||

సుధాధారాసారై-శ్చరణయుగలాంత-ర్విగలితైః
ప్రపంచం సిన్ఞ్ంతీ పునరపి రసామ్నాయ-మహసః|
అవాప్య స్వాం భూమిం భుజగనిభ-మధ్యుష్ట-వలయం
స్వమాత్మానం కృత్వా స్వపిషి కులకుండే కుహరిణి || 10 ||

చతుర్భిః శ్రీకంఠైః శివయువతిభిః పంచభిపి
ప్రభిన్నాభిః శంభోర్నవభిరపి మూలప్రకృతిభిః |
చతుశ్చత్వారింశద్-వసుదల-కలాశ్చ్-త్రివలయ-
త్రిరేఖభిః సార్ధం తవ శరణకోణాః పరిణతాః || 11 ||

త్వదీయం సౌందర్యం తుహినగిరికన్యే తులయితుం
కవీంద్రాః కల్పంతే కథమపి విరించి-ప్రభృతయః |
యదాలోకౌత్సుక్యా-దమరలలనా యాంతి మనసా
తపోభిర్దుష్ప్రాపామపి గిరిశ-సాయుజ్య-పదవీమ్ || 12 ||

నరం వర్షీయాంసం నయనవిరసం నర్మసు జడం
తవాపాంగాలోకే పతిత-మనుధావంతి శతశః |
గలద్వేణీబంధాః కుచకలశ-విస్త్రిస్త-సిచయా
హటాత్ త్రుట్యత్కాఞ్యో విగలిత-దుకూలా యువతయః || 13 ||

క్షితౌ షట్పంచాశద్-ద్విసమధిక-పంచాశ-దుదకే
హుతశే ద్వాషష్టి-శ్చతురధిక-పంచాశ-దనిలే |
దివి ద్విః షట్ త్రింశన్ మనసి చ చతుఃషష్టిరితి యే
మయూఖా-స్తేషా-మప్యుపరి తవ పాదాంబుజ-యుగమ్ || 14 ||

శరజ్జ్యోత్స్నా శుద్ధాం శశియుత-జటాజూట-మకుటాం
వర-త్రాస-త్రాణ-స్ఫటికఘుటికా-పుస్తక-కరామ్ |
సకృన్న త్వా నత్వా కథమివ సతాం సన్నిదధతే
మధు-క్షీర-ద్రాక్షా-మధురిమ-ధురీణాః ఫణితయః || 15 ||

కవీంద్రాణాం చేతః కమలవన-బాలాతప-రుచిం
భజంతే యే సంతః కతిచిదరుణామేవ భవతీమ్ |
విరించి-ప్రేయస్యా-స్తరుణతర-శ్రృంగర లహరీ-
గభీరాభి-ర్వాగ్భిః ర్విదధతి సతాం రంజనమమీ || 16 ||

సవిత్రీభి-ర్వాచాం చశి-మణి శిలా-భంగ రుచిభి-
ర్వశిన్యద్యాభి-స్త్వాం సహ జనని సంచింతయతి యః |
స కర్తా కావ్యానాం భవతి మహతాం భంగిరుచిభి-
ర్వచోభి-ర్వాగ్దేవీ-వదన-కమలామోద మధురైః || 17 ||

తనుచ్ఛాయాభిస్తే తరుణ-తరణి-శ్రీసరణిభి-
ర్దివం సర్వా-ముర్వీ-మరుణిమని మగ్నాం స్మరతి యః |
భవంత్యస్య త్రస్య-ద్వనహరిణ-శాలీన-నయనాః
సహోర్వశ్యా వశ్యాః కతి కతి న గీర్వాణ-గణికాః || 18 ||

ముఖం బిందుం కృత్వా కుచయుగమధ-స్తస్య తదధో
హరార్ధం ధ్యాయేద్యో హరమహిషి తే మన్మథకలామ్ |
స సద్యః సంక్షోభం నయతి వనితా ఇత్యతిలఘు
త్రిలోకీమప్యాశు భ్రమయతి రవీందు-స్తనయుగామ్ || 19 ||

కిరంతీ-మంగేభ్యః కిరణ-నికురుంబమృతరసం
హృది త్వా మాధత్తే హిమకరశిలా-మూర్తిమివ యః |
స సర్పాణాం దర్పం శమయతి శకుంతధిప ఇవ
జ్వరప్లుష్టాన్ దృష్ట్యా సుఖయతి సుధాధారసిరయా || 20 ||

తటిల్లేఖా-తన్వీం తపన శశి వైశ్వానర మయీం
నిష్ణ్ణాం షణ్ణామప్యుపరి కమలానాం తవ కలామ్ |
మహాపద్మాతవ్యాం మృదిత-మలమాయేన మనసా
మహాంతః పశ్యంతో దధతి పరమాహ్లాద-లహరీమ్ || 21 ||

భవాని త్వం దాసే మయి వితర దృష్టిం సకరుణాం
ఇతి స్తోతుం వాఞ్ఛన్ కథయతి భవాని త్వమితి యః |
తదైవ త్వం తస్మై దిశసి నిజసాయుజ్య-పదవీం
ముకుంద-బ్రమ్హేంద్ర స్ఫుట మకుట నీరాజితపదామ్ || 22 ||

త్వయా హృత్వా వామం వపు-రపరితృప్తేన మనసా
శరీరార్ధం శంభో-రపరమపి శంకే హృతమభూత్ |
యదేతత్ త్వద్రూపం సకలమరుణాభం త్రినయనం
కుచాభ్యామానమ్రం కుటిల-శశిచూడాల-మకుటమ్ || 23 ||

జగత్సూతే ధాతా హరిరవతి రుద్రః క్షపయతే
తిరస్కుర్వ-న్నేతత్ స్వమపి వపు-రీశ-స్తిరయతి |
సదా పూర్వః సర్వం తదిద మనుగృహ్ణాతి చ శివ-
స్తవాఙ్ఞా మలంబ్య క్షణచలితయో ర్భ్రూలతికయోః || 24 ||

త్రయాణాం దేవానాం త్రిగుణ-జనితానాం తవ శివే
భవేత్ పూజా పూజా తవ చరణయో-ర్యా విరచితా |
తథా హి త్వత్పాదోద్వహన-మణిపీఠస్య నికటే
స్థితా హ్యేతే-శశ్వన్ముకులిత కరోత్తంస-మకుటాః || 25 ||

విరించిః పంచత్వం వ్రజతి హరిరాప్నోతి విరతిం
వినాశం కీనాశో భజతి ధనదో యాతి నిధనమ్ |
వితంద్రీ మాహేంద్రీ-వితతిరపి సంమీలిత-దృశా
మహాసంహారే‌உస్మిన్ విహరతి సతి త్వత్పతి రసౌ || 26 ||

జపో జల్పః శిల్పం సకలమపి ముద్రావిరచనా
గతిః ప్రాదక్షిణ్య-క్రమణ-మశనాద్యా హుతి-విధిః |
ప్రణామః సంవేశః సుఖమఖిల-మాత్మార్పణ-దృశా
సపర్యా పర్యాయ-స్తవ భవతు యన్మే విలసితమ్ || 27 ||

సుధామప్యాస్వాద్య ప్రతి-భయ-జరమృత్యు-హరిణీం
విపద్యంతే విశ్వే విధి-శతమఖాద్యా దివిషదః |
కరాలం యత్ క్ష్వేలం కబలితవతః కాలకలనా
న శంభోస్తన్మూలం తవ జనని తాటంక మహిమా || 28 ||

కిరీటం వైరించం పరిహర పురః కైటభభిదః
కఠోరే కోఠీరే స్కలసి జహి జంభారి-మకుటమ్ |
ప్రణమ్రేష్వేతేషు ప్రసభ-ముపయాతస్య భవనం
భవస్యభ్యుత్థానే తవ పరిజనోక్తి-ర్విజయతే || 29 ||

స్వదేహోద్భూతాభి-ర్ఘృణిభి-రణిమాద్యాభి-రభితో
నిషేవ్యే నిత్యే త్వా మహమితి సదా భావయతి యః |
కిమాశ్చర్యం తస్య త్రినయన-సమృద్ధిం తృణయతో
మహాసంవర్తాగ్ని-ర్విరచయతి నీరాజనవిధిమ్ || 30 ||

చతుః-షష్టయా తంత్రైః సకల మతిసంధాయ భువనం
స్థితస్తత్త్త-సిద్ధి ప్రసవ పరతంత్రైః పశుపతిః |
పునస్త్వ-న్నిర్బంధా దఖిల-పురుషార్థైక ఘటనా-
స్వతంత్రం తే తంత్రం క్షితితల మవాతీతర-దిదమ్ || 31 ||

శివః శక్తిః కామః క్షితి-రథ రవిః శీతకిరణః
స్మరో హంసః శక్ర-స్తదను చ పరా-మార-హరయః |
అమీ హృల్లేఖాభి-స్తిసృభి-రవసానేషు ఘటితా
భజంతే వర్ణాస్తే తవ జనని నామావయవతామ్ || 32 ||

స్మరం యోనిం లక్ష్మీం త్రితయ-మిద-మాదౌ తవ మనో
ర్నిధాయైకే నిత్యే నిరవధి-మహాభోగ-రసికాః |
భజంతి త్వాం చింతామణి-గుణనిబద్ధాక్ష-వలయాః
శివాగ్నౌ జుహ్వంతః సురభిఘృత-ధారాహుతి-శతై || 33 ||

శరీరం త్వం శంభోః శశి-మిహిర-వక్షోరుహ-యుగం
తవాత్మానం మన్యే భగవతి నవాత్మాన-మనఘమ్ |
అతః శేషః శేషీత్యయ-ముభయ-సాధారణతయా
స్థితః సంబంధో వాం సమరస-పరానంద-పరయోః || 34 ||

మనస్త్వం వ్యోమ త్వం మరుదసి మరుత్సారథి-రసి
త్వమాప-స్త్వం భూమి-స్త్వయి పరిణతాయాం న హి పరమ్ |
త్వమేవ స్వాత్మానం పరిణ్మయితుం విశ్వ వపుషా
చిదానందాకారం శివయువతి భావేన బిభృషే || 35 ||

తవాఙ్ఞచక్రస్థం తపన-శశి కోటి-ద్యుతిధరం
పరం శంభు వందే పరిమిలిత-పార్శ్వం పరచితా |
యమారాధ్యన్ భక్త్యా రవి శశి శుచీనా-మవిషయే
నిరాలోకే ‌உలోకే నివసతి హి భాలోక-భువనే || 36 ||

విశుద్ధౌ తే శుద్ధస్ఫతిక విశదం వ్యోమ-జనకం
శివం సేవే దేవీమపి శివసమాన-వ్యవసితామ్ |
యయోః కాంత్యా యాంత్యాః శశికిరణ్-సారూప్యసరణే
విధూతాంత-ర్ధ్వాంతా విలసతి చకోరీవ జగతీ || 37 ||

సమున్మీలత్ సంవిత్కమల-మకరందైక-రసికం
భజే హంసద్వంద్వం కిమపి మహతాం మానసచరమ్ |
యదాలాపా-దష్టాదశ-గుణిత-విద్యాపరిణతిః
యదాదత్తే దోషాద్ గుణ-మఖిల-మద్భ్యః పయ ఇవ || 38 ||

తవ స్వాధిష్ఠానే హుతవహ-మధిష్ఠాయ నిరతం
తమీడే సంవర్తం జనని మహతీం తాం చ సమయామ్ |
యదాలోకే లోకాన్ దహతి మహసి క్రోధ-కలితే
దయార్ద్రా యా దృష్టిః శిశిర-ముపచారం రచయతి || 39 ||

తటిత్వంతం శక్త్యా తిమిర-పరిపంథి-స్ఫురణయా
స్ఫుర-న్నా నరత్నాభరణ-పరిణద్ధేంద్ర-ధనుషమ్ |
తవ శ్యామం మేఘం కమపి మణిపూరైక-శరణం
నిషేవే వర్షంతం-హరమిహిర-తప్తం త్రిభువనమ్ || 40 ||

తవాధారే మూలే సహ సమయయా లాస్యపరయా
నవాత్మాన మన్యే నవరస-మహాతాండవ-నటమ్ |
ఉభాభ్యా మేతాభ్యా-ముదయ-విధి ముద్దిశ్య దయయా
సనాథాభ్యాం జఙ్ఞే జనక జననీమత్ జగదిదమ్ || 41 ||

ద్వితీయ భాగః – సౌందర్య లహరీ

గతై-ర్మాణిక్యత్వం గగనమణిభిః సాంద్రఘటితం
కిరీటం తే హైమం హిమగిరిసుతే కీతయతి యః ||
స నీడేయచ్ఛాయా-చ్ఛురణ-శకలం చంద్ర-శకలం
ధనుః శౌనాసీరం కిమితి న నిబధ్నాతి ధిషణామ్ || 42 ||

ధునోతు ధ్వాంతం న-స్తులిత-దలితేందీవర-వనం
ఘనస్నిగ్ధ-శ్లక్ష్ణం చికుర నికురుంబం తవ శివే |
యదీయం సౌరభ్యం సహజ-ముపలబ్ధుం సుమనసో
వసంత్యస్మిన్ మన్యే బలమథన వాటీ-విటపినామ్ || 43 ||

తనోతు క్షేమం న-స్తవ వదనసౌందర్యలహరీ
పరీవాహస్రోతః-సరణిరివ సీమంతసరణిః|
వహంతీ- సిందూరం ప్రబలకబరీ-భార-తిమిర
ద్విషాం బృందై-ర్వందీకృతమేవ నవీనార్క కేరణమ్ || 44 ||

అరాలై స్వాభావ్యా-దలికలభ-సశ్రీభి రలకైః
పరీతం తే వక్త్రం పరిహసతి పంకేరుహరుచిమ్ |
దరస్మేరే యస్మిన్ దశనరుచి కింజల్క-రుచిరే
సుగంధౌ మాద్యంతి స్మరదహన చక్షు-ర్మధులిహః || 45 ||

లలాటం లావణ్య ద్యుతి విమల-మాభాతి తవ యత్
ద్వితీయం తన్మన్యే మకుటఘటితం చంద్రశకలమ్ |
విపర్యాస-న్యాసా దుభయమపి సంభూయ చ మిథః
సుధాలేపస్యూతిః పరిణమతి రాకా-హిమకరః || 46 ||

భ్రువౌ భుగ్నే కించిద్భువన-భయ-భంగవ్యసనిని
త్వదీయే నేత్రాభ్యాం మధుకర-రుచిభ్యాం ధృతగుణమ్ |
ధను ర్మన్యే సవ్యేతరకర గృహీతం రతిపతేః
ప్రకోష్టే ముష్టౌ చ స్థగయతే నిగూఢాంతర-ముమే || 47 ||

అహః సూతే సవ్య తవ నయన-మర్కాత్మకతయా
త్రియామాం వామం తే సృజతి రజనీనాయకతయా |
తృతీయా తే దృష్టి-ర్దరదలిత-హేమాంబుజ-రుచిః
సమాధత్తే సంధ్యాం దివసర్-నిశయో-రంతరచరీమ్ || 48 ||

విశాలా కల్యాణీ స్ఫుతరుచి-రయోధ్యా కువలయైః
కృపాధారాధారా కిమపి మధురా‌உభోగవతికా |
అవంతీ దృష్టిస్తే బహునగర-విస్తార-విజయా
ధ్రువం తత్తన్నామ-వ్యవహరణ-యోగ్యావిజయతే || 49 ||

కవీనాం సందర్భ-స్తబక-మకరందైక-రసికం
కటాక్ష-వ్యాక్షేప-భ్రమరకలభౌ కర్ణయుగలమ్ |
అముంచ్ంతౌ దృష్ట్వా తవ నవరసాస్వాద-తరలౌ
అసూయా-సంసర్గా-దలికనయనం కించిదరుణమ్ || 50 ||

శివే శంగారార్ద్రా తదితరజనే కుత్సనపరా
సరోషా గంగాయాం గిరిశచరితే విస్మయవతీ |
హరాహిభ్యో భీతా సరసిరుహ సౌభాగ్య-జననీ
సఖీషు స్మేరా తే మయి జనని దృష్టిః సకరుణా || 51 ||

గతే కర్ణాభ్యర్ణం గరుత ఇవ పక్ష్మాణి దధతీ
పురాం భేత్తు-శ్చిత్తప్రశమ-రస-విద్రావణ ఫలే |
ఇమే నేత్రే గోత్రాధరపతి-కులోత్తంస-కలికే
తవాకర్ణాకృష్ట స్మరశర-విలాసం కలయతః|| 52 ||

విభక్త-త్రైవర్ణ్యం వ్యతికరిత-లీలాంజనతయా
విభాతి త్వన్నేత్ర త్రితయ మిద-మీశానదయితే |
పునః స్రష్టుం దేవాన్ ద్రుహిణ హరి-రుద్రానుపరతాన్
రజః సత్వం వేభ్రత్ తమ ఇతి గుణానాం త్రయమివ || 53 ||

పవిత్రీకర్తుం నః పశుపతి-పరాధీన-హృదయే
దయామిత్రై ర్నేత్రై-రరుణ-ధవల-శ్యామ రుచిభిః |
నదః శోణో గంగా తపనతనయేతి ధ్రువముమ్
త్రయాణాం తీర్థానా-ముపనయసి సంభేద-మనఘమ్ || 54 ||

నిమేషోన్మేషాభ్యాం ప్రలయముదయం యాతి జగతి
తవేత్యాహుః సంతో ధరణిధర-రాజన్యతనయే |
త్వదున్మేషాజ్జాతం జగదిద-మశేషం ప్రలయతః
పరేత్రాతుం శంంకే పరిహృత-నిమేషా-స్తవ దృశః || 55 ||

తవాపర్ణే కర్ణే జపనయన పైశున్య చకితా
నిలీయంతే తోయే నియత మనిమేషాః శఫరికాః |
ఇయం చ శ్రీ-ర్బద్ధచ్ఛదపుటకవాటం కువలయం
జహాతి ప్రత్యూషే నిశి చ విఘతయ్య ప్రవిశతి|| 56 ||

దృశా ద్రాఘీయస్యా దరదలిత నీలోత్పల రుచా
దవీయాంసం దీనం స్నపా కృపయా మామపి శివే |
అనేనాయం ధన్యో భవతి న చ తే హానిరియతా
వనే వా హర్మ్యే వా సమకర నిపాతో హిమకరః || 57 ||

అరాలం తే పాలీయుగల-మగరాజన్యతనయే
న కేషా-మాధత్తే కుసుమశర కోదండ-కుతుకమ్ |
తిరశ్చీనో యత్ర శ్రవణపథ-ముల్ల్ఙ్య్య విలసన్
అపాంగ వ్యాసంగో దిశతి శరసంధాన ధిషణామ్ || 58 ||

స్ఫురద్గండాభోగ-ప్రతిఫలిత తాట్ంక యుగలం
చతుశ్చక్రం మన్యే తవ ముఖమిదం మన్మథరథమ్ |
యమారుహ్య ద్రుహ్య త్యవనిరథ మర్కేందుచరణం
మహావీరో మారః ప్రమథపతయే సజ్జితవతే || 59 ||

సరస్వత్యాః సూక్తీ-రమృతలహరీ కౌశలహరీః
పిబ్నత్యాః శర్వాణి శ్రవణ-చులుకాభ్యా-మవిరలమ్ |
చమత్కారః-శ్లాఘాచలిత-శిరసః కుండలగణో
ఝణత్కరైస్తారైః ప్రతివచన-మాచష్ట ఇవ తే || 60 ||

అసౌ నాసావంశ-స్తుహినగిరివణ్శ-ధ్వజపటి
త్వదీయో నేదీయః ఫలతు ఫల-మస్మాకముచితమ్ |
వహత్యంతర్ముక్తాః శిశిరకర-నిశ్వాస-గలితం
సమృద్ధ్యా యత్తాసాం బహిరపి చ ముక్తామణిధరః || 61 ||

ప్రకృత్యా‌உరక్తాయా-స్తవ సుదతి దందచ్ఛదరుచేః
ప్రవక్ష్యే సదృశ్యం జనయతు ఫలం విద్రుమలతా |
న బింబం తద్బింబ-ప్రతిఫలన-రాగా-దరుణితం
తులామధ్రారోఢుం కథమివ విలజ్జేత కలయా || 62 ||

స్మితజ్యోత్స్నాజాలం తవ వదనచంద్రస్య పిబతాం
చకోరాణా-మాసీ-దతిరసతయా చంచు-జడిమా |
అతస్తే శీతాంశో-రమృతలహరీ మామ్లరుచయః
పిబంతీ స్వచ్ఛందం నిశి నిశి భృశం కాంజి కధియా || 63 ||

అవిశ్రాంతం పత్యుర్గుణగణ కథామ్రేడనజపా
జపాపుష్పచ్ఛాయా తవ జనని జిహ్వా జయతి సా |
యదగ్రాసీనాయాః స్ఫటికదృష-దచ్ఛచ్ఛవిమయి
సరస్వత్యా మూర్తిః పరిణమతి మాణిక్యవపుషా || 64 ||

రణే జిత్వా దైత్యా నపహృత-శిరస్త్రైః కవచిభిః
నివృత్తై-శ్చండాంశ-త్రిపురహర-నిర్మాల్య-విముఖైః |
విశాఖేంద్రోపేంద్రైః శశివిశద-కర్పూరశకలా
విలీయంతే మాతస్తవ వదనతాంబూల-కబలాః || 65 ||

విపంచ్యా గాయంతీ వివిధ-మపదానం పశుపతే-
స్త్వయారబ్ధే వక్తుం చలితశిరసా సాధువచనే |
తదీయై-ర్మాధుర్యై-రపలపిత-తంత్రీకలరవాం
నిజాం వీణాం వాణీం నిచులయతి చోలేన నిభృతమ్ || 66 ||

కరగ్రేణ స్పృష్టం తుహినగిరిణా వత్సలతయా
గిరిశేనో-దస్తం ముహురధరపానాకులతయా |
కరగ్రాహ్యం శంభోర్ముఖముకురవృంతం గిరిసుతే
కథంకరం బ్రూమ-స్తవ చుబుకమోపమ్యరహితమ్ || 67 ||

భుజాశ్లేషాన్నిత్యం పురదమయితుః కన్టకవతీ
తవ గ్రీవా ధత్తే ముఖకమలనాల-శ్రియమియమ్ |
స్వతః శ్వేతా కాలా గరు బహుల-జంబాలమలినా
మృణాలీలాలిత్యం వహతి యదధో హారలతికా || 68 ||

గలే రేఖాస్తిస్రో గతి గమక గీతైక నిపుణే
వివాహ-వ్యానద్ధ-ప్రగుణగుణ-సంఖ్యా ప్రతిభువః |
విరాజంతే నానావిధ-మధుర-రాగాకర-భువాం
త్రయాణాం గ్రామాణాం స్థితి-నియమ-సీమాన ఇవ తే || 69 ||

మృణాలీ-మృద్వీనాం తవ భుజలతానాం చతసృణాం
చతుర్భిః సౌంద్రయం సరసిజభవః స్తౌతి వదనైః |
నఖేభ్యః సంత్రస్యన్ ప్రథమ-మథనా దంతకరిపోః
చతుర్ణాం శీర్షాణాం సమ-మభయహస్తార్పణ-ధియా || 70 ||

నఖానా-ముద్యోతై-ర్నవనలినరాగం విహసతాం
కరాణాం తే కాంతిం కథయ కథయామః కథముమే |
కయాచిద్వా సామ్యం భజతు కలయా హంత కమలం
యది క్రీడల్లక్ష్మీ-చరణతల-లాక్షారస-చణమ్ || 71 ||

సమం దేవి స్కంద ద్విపివదన పీతం స్తనయుగం
తవేదం నః ఖేదం హరతు సతతం ప్రస్నుత-ముఖమ్ |
యదాలోక్యాశంకాకులిత హృదయో హాసజనకః
స్వకుంభౌ హేరంబః పరిమృశతి హస్తేన ఝడితి || 72 ||

అమూ తే వక్షోజా-వమృతరస-మాణిక్య కుతుపౌ
న సందేహస్పందో నగపతి పతాకే మనసి నః |
పిబంతౌ తౌ యస్మా దవిదిత వధూసంగ రసికౌ
కుమారావద్యాపి ద్విరదవదన-క్రౌంచ్దలనౌ || 73 ||

వహత్యంబ స్త్ంబేరమ-దనుజ-కుంభప్రకృతిభిః
సమారబ్ధాం ముక్తామణిభిరమలాం హారలతికామ్ |
కుచాభోగో బింబాధర-రుచిభి-రంతః శబలితాం
ప్రతాప-వ్యామిశ్రాం పురదమయితుః కీర్తిమివ తే || 74 ||

తవ స్తన్యం మన్యే ధరణిధరకన్యే హృదయతః
పయః పారావారః పరివహతి సారస్వతమివ |
దయావత్యా దత్తం ద్రవిడశిశు-రాస్వాద్య తవ యత్
కవీనాం ప్రౌఢానా మజని కమనీయః కవయితా || 75 ||

హరక్రోధ-జ్వాలావలిభి-రవలీఢేన వపుషా
గభీరే తే నాభీసరసి కృతసఙో మనసిజః |
సముత్తస్థౌ తస్మా-దచలతనయే ధూమలతికా
జనస్తాం జానీతే తవ జనని రోమావలిరితి || 76 ||

యదేతత్కాలిందీ-తనుతర-తరంగాకృతి శివే
కృశే మధ్యే కించిజ్జనని తవ యద్భాతి సుధియామ్ |
విమర్దా-దన్యోన్యం కుచకలశయో-రంతరగతం
తనూభూతం వ్యోమ ప్రవిశదివ నాభిం కుహరిణీమ్ || 77 ||

స్థిరో గంగా వర్తః స్తనముకుల-రోమావలి-లతా
కలావాలం కుండం కుసుమశర తేజో-హుతభుజః |
రతే-ర్లీలాగారం కిమపి తవ నాభిర్గిరిసుతే
బేలద్వారం సిద్ధే-ర్గిరిశనయనానాం విజయతే || 78 ||

నిసర్గ-క్షీణస్య స్తనతట-భరేణ క్లమజుషో
నమన్మూర్తే ర్నారీతిలక శనకై-స్త్రుట్యత ఇవ |
చిరం తే మధ్యస్య త్రుటిత తటినీ-తీర-తరుణా
సమావస్థా-స్థేమ్నో భవతు కుశలం శైలతనయే || 79 ||

కుచౌ సద్యః స్విద్య-త్తటఘటిత-కూర్పాసభిదురౌ
కషంతౌ-దౌర్మూలే కనకకలశాభౌ కలయతా |
తవ త్రాతుం భంగాదలమితి వలగ్నం తనుభువా
త్రిధా నద్ధ్మ్ దేవీ త్రివలి లవలీవల్లిభిరివ || 80 ||

గురుత్వం విస్తారం క్షితిధరపతిః పార్వతి నిజాత్
నితంబా-దాచ్ఛిద్య త్వయి హరణ రూపేణ నిదధే |
అతస్తే విస్తీర్ణో గురురయమశేషాం వసుమతీం
నితంబ-ప్రాగ్భారః స్థగయతి సఘుత్వం నయతి చ || 81 ||

కరీంద్రాణాం శుండాన్-కనకకదలీ-కాండపటలీం
ఉభాభ్యామూరుభ్యా-ముభయమపి నిర్జిత్య భవతి |
సువృత్తాభ్యాం పత్యుః ప్రణతికఠినాభ్యాం గిరిసుతే
విధిఙ్ఞే జానుభ్యాం విబుధ కరికుంభ ద్వయమసి || 82 ||

పరాజేతుం రుద్రం ద్విగుణశరగర్భౌ గిరిసుతే
నిషంగౌ జంఘే తే విషమవిశిఖో బాఢ-మకృత |
యదగ్రే దృస్యంతే దశశరఫలాః పాదయుగలీ
నఖాగ్రచ్ఛన్మానః సుర ముకుట-శాణైక-నిశితాః || 83 ||

శ్రుతీనాం మూర్ధానో దధతి తవ యౌ శేఖరతయా
మమాప్యేతౌ మాతః శేరసి దయయా దేహి చరణౌ |
యయ‌ఓః పాద్యం పాథః పశుపతి జటాజూట తటినీ
యయో-ర్లాక్షా-లక్ష్మీ-రరుణ హరిచూడామణి రుచిః || 84 ||

నమో వాకం బ్రూమో నయన-రమణీయాయ పదయోః
తవాస్మై ద్వంద్వాయ స్ఫుట-రుచి రసాలక్తకవతే |
అసూయత్యత్యంతం యదభిహననాయ స్పృహయతే
పశూనా-మీశానః ప్రమదవన-కంకేలితరవే || 85 ||

మృషా కృత్వా గోత్రస్ఖలన-మథ వైలక్ష్యనమితం
లలాటే భర్తారం చరణకమలే తాడయతి తే |
చిరాదంతః శల్యం దహనకృత మున్మూలితవతా
తులాకోటిక్వాణైః కిలికిలిత మీశాన రిపుణా || 86 ||

హిమానీ హంతవ్యం హిమగిరినివాసైక-చతురౌ
నిశాయాం నిద్రాణం నిశి-చరమభాగే చ విశదౌ |
వరం లక్ష్మీపాత్రం శ్రియ-మతిసృహంతో సమయినాం
సరోజం త్వత్పాదౌ జనని జయత-శ్చిత్రమిహ కిమ్ || 87 ||

పదం తే కీర్తీనాం ప్రపదమపదం దేవి విపదాం
కథం నీతం సద్భిః కఠిన-కమఠీ-కర్పర-తులామ్ |
కథం వా బాహుభ్యా-ముపయమనకాలే పురభిదా
యదాదాయ న్యస్తం దృషది దయమానేన మనసా || 88 ||

నఖై-ర్నాకస్త్రీణాం కరకమల-సంకోచ-శశిభిః
తరూణాం దివ్యానాం హసత ఇవ తే చండి చరణౌ |
ఫలాని స్వఃస్థేభ్యః కిసలయ-కరాగ్రేణ దదతాం
దరిద్రేభ్యో భద్రాం శ్రియమనిశ-మహ్నాయ దదతౌ || 89 ||

దదానే దీనేభ్యః శ్రియమనిశ-మాశానుసదృశీం
అమందం సౌందర్యం ప్రకర-మకరందం వికిరతి |
తవాస్మిన్ మందార-స్తబక-సుభగే యాతు చరణే
నిమజ్జన్ మజ్జీవః కరణచరణః ష్ట్చరణతామ్ || 90 ||

పదన్యాస-క్రీడా పరిచయ-మివారబ్ధు-మనసః
స్ఖలంతస్తే ఖేలం భవనకలహంసా న జహతి |
అతస్తేషాం శిక్షాం సుభగమణి-మంజీర-రణిత-
చ్ఛలాదాచక్షాణం చరణకమలం చారుచరితే || 91 ||

గతాస్తే మంచత్వం ద్రుహిణ హరి రుద్రేశ్వర భృతః
శివః స్వచ్ఛ-చ్ఛాయా-ఘటిత-కపట-ప్రచ్ఛదపటః |
త్వదీయానాం భాసాం ప్రతిఫలన రాగారుణతయా
శరీరీ శృంగారో రస ఇవ దృశాం దోగ్ధి కుతుకమ్ || 92 ||

అరాలా కేశేషు ప్రకృతి సరలా మందహసితే
శిరీషాభా చిత్తే దృషదుపలశోభా కుచతటే |
భృశం తన్వీ మధ్యే పృథు-రురసిజారోహ విషయే
జగత్త్రతుం శంభో-ర్జయతి కరుణా కాచిదరుణా || 93 ||

కలంకః కస్తూరీ రజనికర బింబం జలమయం
కలాభిః కర్పూరై-ర్మరకతకరండం నిబిడితమ్ |
అతస్త్వద్భోగేన ప్రతిదినమిదం రిక్తకుహరం
విధి-ర్భూయో భూయో నిబిడయతి నూనం తవ కృతే || 94 ||

పురారంతే-రంతః పురమసి తత-స్త్వచరణయోః
సపర్యా-మర్యాదా తరలకరణానా-మసులభా |
తథా హ్యేతే నీతాః శతమఖముఖాః సిద్ధిమతులాం
తవ ద్వారోపాంతః స్థితిభి-రణిమాద్యాభి-రమరాః || 95 ||

కలత్రం వైధాత్రం కతికతి భజంతే న కవయః
శ్రియో దేవ్యాః కో వా న భవతి పతిః కైరపి ధనైః |
మహాదేవం హిత్వా తవ సతి సతీనా-మచరమే
కుచభ్యా-మాసంగః కురవక-తరో-రప్యసులభః || 96 ||

గిరామాహు-ర్దేవీం ద్రుహిణగృహిణీ-మాగమవిదో
హరేః పత్నీం పద్మాం హరసహచరీ-మద్రితనయామ్ |
తురీయా కాపి త్వం దురధిగమ-నిస్సీమ-మహిమా
మహామాయా విశ్వం భ్రమయసి పరబ్రహ్మమహిషి || 97 ||

కదా కాలే మాతః కథయ కలితాలక్తకరసం
పిబేయం విద్యార్థీ తవ చరణ-నిర్ణేజనజలమ్ |
ప్రకృత్యా మూకానామపి చ కవితా0కారణతయా
కదా ధత్తే వాణీముఖకమల-తాంబూల-రసతామ్ || 98 ||

సరస్వత్యా లక్ష్మ్యా విధి హరి సపత్నో విహరతే
రతేః పతివ్రత్యం శిథిలపతి రమ్యేణ వపుషా |
చిరం జీవన్నేవ క్షపిత-పశుపాశ-వ్యతికరః
పరానందాభిఖ్యం రసయతి రసం త్వద్భజనవాన్ || 99 ||

ప్రదీప జ్వాలాభి-ర్దివసకర-నీరాజనవిధిః
సుధాసూతే-శ్చంద్రోపల-జలలవై-రఘ్యరచనా |
స్వకీయైరంభోభిః సలిల-నిధి-సౌహిత్యకరణం
త్వదీయాభి-ర్వాగ్భి-స్తవ జనని వాచాం స్తుతిరియమ్ || 100 ||

సౌందయలహరి ముఖ్యస్తోత్రం సంవార్తదాయకమ్ |
భగవద్పాద సన్క్లుప్తం పఠేన్ ముక్తౌ భవేన్నరః ||
సౌందర్యలహరి స్తోత్రం సంపూర్ణం

.


ப்ரதம பாகஃ – ஆனன்த லஹரி

புமௌஸ்கலித பாதானாம் பூமிரேவா வலம்பனம் |
த்வயீ ஜாதா பராதானாம் த்வமேவ ஶரணம் ஶிவே ||

ஶிவஃ ஶக்த்யா யுக்தோ யதி பவதி ஶக்தஃ ப்ரபவிதும்
ன சேதேவம் தேவோ ன கலு குஶலஃ ஸ்பன்திதுமபி|
அதஸ்த்வாம் ஆராத்யாம் ஹரி-ஹர-விரின்சாதிபி ரபி
ப்ரணன்தும் ஸ்தோதும் வா கத-மக்ர்த புண்யஃ ப்ரபவதி|| 1 ||

தனீயாம்ஸும் பாம்ஸும் தவ சரண பங்கேருஹ-பவம்
விரிம்சிஃ ஸம்சின்வன் விரசயதி லோகா-னவிகலம் |
வஹத்யேனம் ஶௌரிஃ கதமபி ஸஹஸ்ரேண ஶிரஸாம்
ஹரஃ ஸம்க்ஷுத்-யைனம் பஜதி பஸிதோத்தூள னவிதிம்|| 2 ||

அவித்யானா-மன்த-ஸ்திமிர-மிஹிர த்வீபனகரீ
ஜடானாம் சைதன்ய-ஸ்தபக மகரன்த ஶ்ருதிஜரீ |
தரித்ராணாம் சின்தாமணி குணனிகா ஜன்மஜலதௌ
னிமக்னானாம் தம்ஷ்ட்ரா முரரிபு வராஹஸ்ய பவதி|| 3 ||

த்வதன்யஃ பாணிபயா-மபயவரதோ தைவதகணஃ
த்வமேகா னைவாஸி ப்ரகடித-வரபீத்யபினயா |
பயாத் த்ராதும் தாதும் பலமபி ச வாம்சாஸமதிகம்
ஶரண்யே லோகானாம் தவ ஹி சரணாவேவ னிபுணௌ || 4 ||

ஹரிஸ்த்வாமாரத்ய ப்ரணத-ஜன-ஸௌபாக்ய-ஜனனீம்
புரா னாரீ பூத்வா புரரிபுமபி க்ஷோப மனயத் |
ஸ்மரோ‌உபி த்வாம் னத்வா ரதினயன-லேஹ்யேன வபுஷா
முனீனாமப்யன்தஃ ப்ரபவதி ஹி மோஹாய மஹதாம் || 5 ||

தனுஃ பௌஷ்பம் மௌர்வீ மதுகரமயீ பஞ்ச விஶிகாஃ
வஸன்தஃ ஸாமன்தோ மலயமரு-தாயோதன-ரதஃ |
ததாப்யேகஃ ஸர்வம் ஹிமகிரிஸுதே காமபி க்றுபாம்
அபாம்காத்தே லப்த்வா ஜகதித-மனங்கோ விஜயதே || 6 ||

க்வணத்காஞ்சீ-தாமா கரி கலப கும்ப-ஸ்தனனதா
பரிக்ஷீணா மத்யே பரிணத ஶரச்சன்த்ர-வதனா |
தனுர்பாணான் பாஶம் ஸ்றுணிமபி ததானா கரதலைஃ
புரஸ்தா தாஸ்தாம் னஃ புரமதிது ராஹோ-புருஷிகா || 7 ||

ஸுதாஸின்தோர்மத்யே ஸுரவிட-பிவாடீ-பரிவ்றுதே
மணித்வீபே னீபோ-பவனவதி சின்தாமணி க்றுஹே |
ஶிவகாரே மஞ்சே பரமஶிவ-பர்யங்க னிலயாம்
பஜன்தி த்வாம் தன்யாஃ கதிசன சிதானன்த-லஹரீம் || 8 ||

மஹீம் மூலாதாரே கமபி மணிபூரே ஹுதவஹம்
ஸ்திதம் ஸ்வதிஷ்டானே ஹ்றுதி மருத-மாகாஶ-முபரி |
மனோ‌உபி ப்ரூமத்யே ஸகலமபி பித்வா குலபதம்
ஸஹஸ்ராரே பத்மே ஸ ஹரஹஸி பத்யா விஹரஸே || 9 ||

ஸுதாதாராஸாரை-ஶ்சரணயுகலான்த-ர்விகலிதைஃ
ப்ரபம்சம் ஸின்ஞ்ன்தீ புனரபி ரஸாம்னாய-மஹஸஃ|
அவாப்ய ஸ்வாம் பூமிம் புஜகனிப-மத்யுஷ்ட-வலயம்
ஸ்வமாத்மானம் க்றுத்வா ஸ்வபிஷி குலகுண்டே குஹரிணி || 10 ||

சதுர்பிஃ ஶ்ரீகண்டைஃ ஶிவயுவதிபிஃ பஞ்சபிபி
ப்ரபின்னாபிஃ ஶம்போர்னவபிரபி மூலப்ரக்றுதிபிஃ |
சதுஶ்சத்வாரிம்ஶத்-வஸுதல-கலாஶ்ச்-த்ரிவலய-
த்ரிரேகபிஃ ஸார்தம் தவ ஶரணகோணாஃ பரிணதாஃ || 11 ||

த்வதீயம் ஸௌன்தர்யம் துஹினகிரிகன்யே துலயிதும்
கவீன்த்ராஃ கல்பன்தே கதமபி விரிஞ்சி-ப்ரப்றுதயஃ |
யதாலோகௌத்ஸுக்யா-தமரலலனா யான்தி மனஸா
தபோபிர்துஷ்ப்ராபாமபி கிரிஶ-ஸாயுஜ்ய-பதவீம் || 12 ||

னரம் வர்ஷீயாம்ஸம் னயனவிரஸம் னர்மஸு ஜடம்
தவாபாம்காலோகே பதித-மனுதாவன்தி ஶதஶஃ |
கலத்வேணீபன்தாஃ குசகலஶ-விஸ்த்ரிஸ்த-ஸிசயா
ஹடாத் த்ருட்யத்காஞ்யோ விகலித-துகூலா யுவதயஃ || 13 ||

க்ஷிதௌ ஷட்பஞ்சாஶத்-த்விஸமதிக-பஞ்சாஶ-துதகே
ஹுதஶே த்வாஷஷ்டி-ஶ்சதுரதிக-பஞ்சாஶ-தனிலே |
திவி த்விஃ ஷட் த்ரிம்ஶன் மனஸி ச சதுஃஷஷ்டிரிதி யே
மயூகா-ஸ்தேஷா-மப்யுபரி தவ பாதாம்புஜ-யுகம் || 14 ||

ஶரஜ்ஜ்யோத்ஸ்னா ஶுத்தாம் ஶஶியுத-ஜடாஜூட-மகுடாம்
வர-த்ராஸ-த்ராண-ஸ்படிககுடிகா-புஸ்தக-கராம் |
ஸக்றுன்ன த்வா னத்வா கதமிவ ஸதாம் ஸன்னிதததே
மது-க்ஷீர-த்ராக்ஷா-மதுரிம-துரீணாஃ பணிதயஃ || 15 ||

கவீன்த்ராணாம் சேதஃ கமலவன-பாலாதப-ருசிம்
பஜன்தே யே ஸன்தஃ கதிசிதருணாமேவ பவதீம் |
விரிஞ்சி-ப்ரேயஸ்யா-ஸ்தருணதர-ஶ்ர்றுங்கர லஹரீ-
கபீராபி-ர்வாக்பிஃ ர்விதததி ஸதாம் ரஞ்ஜனமமீ || 16 ||

ஸவித்ரீபி-ர்வாசாம் சஶி-மணி ஶிலா-பங்க ருசிபி-
ர்வஶின்யத்யாபி-ஸ்த்வாம் ஸஹ ஜனனி ஸம்சின்தயதி யஃ |
ஸ கர்தா காவ்யானாம் பவதி மஹதாம் பங்கிருசிபி-
ர்வசோபி-ர்வாக்தேவீ-வதன-கமலாமோத மதுரைஃ || 17 ||

தனுச்சாயாபிஸ்தே தருண-தரணி-ஶ்ரீஸரணிபி-
ர்திவம் ஸர்வா-முர்வீ-மருணிமனி மக்னாம் ஸ்மரதி யஃ |
பவன்த்யஸ்ய த்ரஸ்ய-த்வனஹரிண-ஶாலீன-னயனாஃ
ஸஹோர்வஶ்யா வஶ்யாஃ கதி கதி ன கீர்வாண-கணிகாஃ || 18 ||

முகம் பின்தும் க்றுத்வா குசயுகமத-ஸ்தஸ்ய தததோ
ஹரார்தம் த்யாயேத்யோ ஹரமஹிஷி தே மன்மதகலாம் |
ஸ ஸத்யஃ ஸம்க்ஷோபம் னயதி வனிதா இத்யதிலகு
த்ரிலோகீமப்யாஶு ப்ரமயதி ரவீன்து-ஸ்தனயுகாம் || 19 ||

கிரன்தீ-மங்கேப்யஃ கிரண-னிகுரும்பம்றுதரஸம்
ஹ்றுதி த்வா மாதத்தே ஹிமகரஶிலா-மூர்திமிவ யஃ |
ஸ ஸர்பாணாம் தர்பம் ஶமயதி ஶகுன்ததிப இவ
ஜ்வரப்லுஷ்டான் த்றுஷ்ட்யா ஸுகயதி ஸுதாதாரஸிரயா || 20 ||

தடில்லேகா-தன்வீம் தபன ஶஶி வைஶ்வானர மயீம்
னிஷ்ண்ணாம் ஷண்ணாமப்யுபரி கமலானாம் தவ கலாம் |
மஹாபத்மாதவ்யாம் ம்றுதித-மலமாயேன மனஸா
மஹான்தஃ பஶ்யன்தோ தததி பரமாஹ்லாத-லஹரீம் || 21 ||

பவானி த்வம் தாஸே மயி விதர த்றுஷ்டிம் ஸகருணாம்
இதி ஸ்தோதும் வாஞ்சன் கதயதி பவானி த்வமிதி யஃ |
ததைவ த்வம் தஸ்மை திஶஸி னிஜஸாயுஜ்ய-பதவீம்
முகுன்த-ப்ரம்ஹேன்த்ர ஸ்புட மகுட னீராஜிதபதாம் || 22 ||

த்வயா ஹ்றுத்வா வாமம் வபு-ரபரித்றுப்தேன மனஸா
ஶரீரார்தம் ஶம்போ-ரபரமபி ஶங்கே ஹ்றுதமபூத் |
யதேதத் த்வத்ரூபம் ஸகலமருணாபம் த்ரினயனம்
குசாப்யாமானம்ரம் குடில-ஶஶிசூடால-மகுடம் || 23 ||

ஜகத்ஸூதே தாதா ஹரிரவதி ருத்ரஃ க்ஷபயதே
திரஸ்குர்வ-ன்னேதத் ஸ்வமபி வபு-ரீஶ-ஸ்திரயதி |
ஸதா பூர்வஃ ஸர்வம் ததித மனுக்றுஹ்ணாதி ச ஶிவ-
ஸ்தவாஜ்ஞா மலம்ப்ய க்ஷணசலிதயோ ர்ப்ரூலதிகயோஃ || 24 ||

த்ரயாணாம் தேவானாம் த்ரிகுண-ஜனிதானாம் தவ ஶிவே
பவேத் பூஜா பூஜா தவ சரணயோ-ர்யா விரசிதா |
ததா ஹி த்வத்பாதோத்வஹன-மணிபீடஸ்ய னிகடே
ஸ்திதா ஹ்யேதே-ஶஶ்வன்முகுலித கரோத்தம்ஸ-மகுடாஃ || 25 ||

விரிஞ்சிஃ பஞ்சத்வம் வ்ரஜதி ஹரிராப்னோதி விரதிம்
வினாஶம் கீனாஶோ பஜதி தனதோ யாதி னிதனம் |
விதன்த்ரீ மாஹேன்த்ரீ-விததிரபி ஸம்மீலித-த்றுஶா
மஹாஸம்ஹாரே‌உஸ்மின் விஹரதி ஸதி த்வத்பதி ரஸௌ || 26 ||

ஜபோ ஜல்பஃ ஶில்பம் ஸகலமபி முத்ராவிரசனா
கதிஃ ப்ராதக்ஷிண்ய-க்ரமண-மஶனாத்யா ஹுதி-விதிஃ |
ப்ரணாமஃ ஸம்வேஶஃ ஸுகமகில-மாத்மார்பண-த்றுஶா
ஸபர்யா பர்யாய-ஸ்தவ பவது யன்மே விலஸிதம் || 27 ||

ஸுதாமப்யாஸ்வாத்ய ப்ரதி-பய-ஜரம்றுத்யு-ஹரிணீம்
விபத்யன்தே விஶ்வே விதி-ஶதமகாத்யா திவிஷதஃ |
கராலம் யத் க்ஷ்வேலம் கபலிதவதஃ காலகலனா
ன ஶம்போஸ்தன்மூலம் தவ ஜனனி தாடங்க மஹிமா || 28 ||

கிரீடம் வைரிஞ்சம் பரிஹர புரஃ கைடபபிதஃ
கடோரே கோடீரே ஸ்கலஸி ஜஹி ஜம்பாரி-மகுடம் |
ப்ரணம்ரேஷ்வேதேஷு ப்ரஸப-முபயாதஸ்ய பவனம்
பவஸ்யப்யுத்தானே தவ பரிஜனோக்தி-ர்விஜயதே || 29 ||

ஸ்வதேஹோத்பூதாபி-ர்க்றுணிபி-ரணிமாத்யாபி-ரபிதோ
னிஷேவ்யே னித்யே த்வா மஹமிதி ஸதா பாவயதி யஃ |
கிமாஶ்சர்யம் தஸ்ய த்ரினயன-ஸம்றுத்திம் த்றுணயதோ
மஹாஸம்வர்தாக்னி-ர்விரசயதி னீராஜனவிதிம் || 30 ||

சதுஃ-ஷஷ்டயா தன்த்ரைஃ ஸகல மதிஸன்தாய புவனம்
ஸ்திதஸ்தத்த்த-ஸித்தி ப்ரஸவ பரதன்த்ரைஃ பஶுபதிஃ |
புனஸ்த்வ-ன்னிர்பன்தா தகில-புருஷார்தைக கடனா-
ஸ்வதன்த்ரம் தே தன்த்ரம் க்ஷிதிதல மவாதீதர-திதம் || 31 ||

ஶிவஃ ஶக்திஃ காமஃ க்ஷிதி-ரத ரவிஃ ஶீதகிரணஃ
ஸ்மரோ ஹம்ஸஃ ஶக்ர-ஸ்ததனு ச பரா-மார-ஹரயஃ |
அமீ ஹ்றுல்லேகாபி-ஸ்திஸ்றுபி-ரவஸானேஷு கடிதா
பஜன்தே வர்ணாஸ்தே தவ ஜனனி னாமாவயவதாம் || 32 ||

ஸ்மரம் யோனிம் லக்ஷ்மீம் த்ரிதய-மித-மாதௌ தவ மனோ
ர்னிதாயைகே னித்யே னிரவதி-மஹாபோக-ரஸிகாஃ |
பஜன்தி த்வாம் சின்தாமணி-குணனிபத்தாக்ஷ-வலயாஃ
ஶிவாக்னௌ ஜுஹ்வன்தஃ ஸுரபிக்றுத-தாராஹுதி-ஶதை || 33 ||

ஶரீரம் த்வம் ஶம்போஃ ஶஶி-மிஹிர-வக்ஷோருஹ-யுகம்
தவாத்மானம் மன்யே பகவதி னவாத்மான-மனகம் |
அதஃ ஶேஷஃ ஶேஷீத்யய-முபய-ஸாதாரணதயா
ஸ்திதஃ ஸம்பன்தோ வாம் ஸமரஸ-பரானன்த-பரயோஃ || 34 ||

மனஸ்த்வம் வ்யோம த்வம் மருதஸி மருத்ஸாரதி-ரஸி
த்வமாப-ஸ்த்வம் பூமி-ஸ்த்வயி பரிணதாயாம் ன ஹி பரம் |
த்வமேவ ஸ்வாத்மானம் பரிண்மயிதும் விஶ்வ வபுஷா
சிதானன்தாகாரம் ஶிவயுவதி பாவேன பிப்றுஷே || 35 ||

தவாஜ்ஞசக்ரஸ்தம் தபன-ஶஶி கோடி-த்யுதிதரம்
பரம் ஶம்பு வன்தே பரிமிலித-பார்ஶ்வம் பரசிதா |
யமாராத்யன் பக்த்யா ரவி ஶஶி ஶுசீனா-மவிஷயே
னிராலோகே ‌உலோகே னிவஸதி ஹி பாலோக-புவனே || 36 ||

விஶுத்தௌ தே ஶுத்தஸ்பதிக விஶதம் வ்யோம-ஜனகம்
ஶிவம் ஸேவே தேவீமபி ஶிவஸமான-வ்யவஸிதாம் |
யயோஃ கான்த்யா யான்த்யாஃ ஶஶிகிரண்-ஸாரூப்யஸரணே
விதூதான்த-ர்த்வான்தா விலஸதி சகோரீவ ஜகதீ || 37 ||

ஸமுன்மீலத் ஸம்வித்கமல-மகரன்தைக-ரஸிகம்
பஜே ஹம்ஸத்வன்த்வம் கிமபி மஹதாம் மானஸசரம் |
யதாலாபா-தஷ்டாதஶ-குணித-வித்யாபரிணதிஃ
யதாதத்தே தோஷாத் குண-மகில-மத்ப்யஃ பய இவ || 38 ||

தவ ஸ்வாதிஷ்டானே ஹுதவஹ-மதிஷ்டாய னிரதம்
தமீடே ஸம்வர்தம் ஜனனி மஹதீம் தாம் ச ஸமயாம் |
யதாலோகே லோகான் தஹதி மஹஸி க்ரோத-கலிதே
தயார்த்ரா யா த்றுஷ்டிஃ ஶிஶிர-முபசாரம் ரசயதி || 39 ||

தடித்வன்தம் ஶக்த்யா திமிர-பரிபன்தி-ஸ்புரணயா
ஸ்புர-ன்னா னரத்னாபரண-பரிணத்தேன்த்ர-தனுஷம் |
தவ ஶ்யாமம் மேகம் கமபி மணிபூரைக-ஶரணம்
னிஷேவே வர்ஷன்தம்-ஹரமிஹிர-தப்தம் த்ரிபுவனம் || 40 ||

தவாதாரே மூலே ஸஹ ஸமயயா லாஸ்யபரயா
னவாத்மான மன்யே னவரஸ-மஹாதாண்டவ-னடம் |
உபாப்யா மேதாப்யா-முதய-விதி முத்திஶ்ய தயயா
ஸனாதாப்யாம் ஜஜ்ஞே ஜனக ஜனனீமத் ஜகதிதம் || 41 ||

த்விதீய பாகஃ – ஸௌன்தர்ய லஹரீ

கதை-ர்மாணிக்யத்வம் ககனமணிபிஃ ஸான்த்ரகடிதம்
கிரீடம் தே ஹைமம் ஹிமகிரிஸுதே கீதயதி யஃ ||
ஸ னீடேயச்சாயா-ச்சுரண-ஶகலம் சன்த்ர-ஶகலம்
தனுஃ ஶௌனாஸீரம் கிமிதி ன னிபத்னாதி திஷணாம் || 42 ||

துனோது த்வான்தம் ன-ஸ்துலித-தலிதேன்தீவர-வனம்
கனஸ்னிக்த-ஶ்லக்ஷ்ணம் சிகுர னிகுரும்பம் தவ ஶிவே |
யதீயம் ஸௌரப்யம் ஸஹஜ-முபலப்தும் ஸுமனஸோ
வஸன்த்யஸ்மின் மன்யே பலமதன வாடீ-விடபினாம் || 43 ||

தனோது க்ஷேமம் ன-ஸ்தவ வதனஸௌன்தர்யலஹரீ
பரீவாஹஸ்ரோதஃ-ஸரணிரிவ ஸீமன்தஸரணிஃ|
வஹன்தீ- ஸின்தூரம் ப்ரபலகபரீ-பார-திமிர
த்விஷாம் ப்றுன்தை-ர்வன்தீக்றுதமேவ னவீனார்க கேரணம் || 44 ||

அராலை ஸ்வாபாவ்யா-தலிகலப-ஸஶ்ரீபி ரலகைஃ
பரீதம் தே வக்த்ரம் பரிஹஸதி பங்கேருஹருசிம் |
தரஸ்மேரே யஸ்மின் தஶனருசி கிஞ்ஜல்க-ருசிரே
ஸுகன்தௌ மாத்யன்தி ஸ்மரதஹன சக்ஷு-ர்மதுலிஹஃ || 45 ||

லலாடம் லாவண்ய த்யுதி விமல-மாபாதி தவ யத்
த்விதீயம் தன்மன்யே மகுடகடிதம் சன்த்ரஶகலம் |
விபர்யாஸ-ன்யாஸா துபயமபி ஸம்பூய ச மிதஃ
ஸுதாலேபஸ்யூதிஃ பரிணமதி ராகா-ஹிமகரஃ || 46 ||

ப்ருவௌ புக்னே கிம்சித்புவன-பய-பங்கவ்யஸனினி
த்வதீயே னேத்ராப்யாம் மதுகர-ருசிப்யாம் த்றுதகுணம் |
தனு ர்மன்யே ஸவ்யேதரகர க்றுஹீதம் ரதிபதேஃ
ப்ரகோஷ்டே முஷ்டௌ ச ஸ்தகயதே னிகூடான்தர-முமே || 47 ||

அஹஃ ஸூதே ஸவ்ய தவ னயன-மர்காத்மகதயா
த்ரியாமாம் வாமம் தே ஸ்றுஜதி ரஜனீனாயகதயா |
த்றுதீயா தே த்றுஷ்டி-ர்தரதலித-ஹேமாம்புஜ-ருசிஃ
ஸமாதத்தே ஸன்த்யாம் திவஸர்-னிஶயோ-ரன்தரசரீம் || 48 ||

விஶாலா கல்யாணீ ஸ்புதருசி-ரயோத்யா குவலயைஃ
க்றுபாதாராதாரா கிமபி மதுரா‌உபோகவதிகா |
அவன்தீ த்றுஷ்டிஸ்தே பஹுனகர-விஸ்தார-விஜயா
த்ருவம் தத்தன்னாம-வ்யவஹரண-யோக்யாவிஜயதே || 49 ||

கவீனாம் ஸன்தர்ப-ஸ்தபக-மகரன்தைக-ரஸிகம்
கடாக்ஷ-வ்யாக்ஷேப-ப்ரமரகலபௌ கர்ணயுகலம் |
அமுஞ்ச்ன்தௌ த்றுஷ்ட்வா தவ னவரஸாஸ்வாத-தரலௌ
அஸூயா-ஸம்ஸர்கா-தலிகனயனம் கிஞ்சிதருணம் || 50 ||

ஶிவே ஶங்காரார்த்ரா ததிதரஜனே குத்ஸனபரா
ஸரோஷா கங்காயாம் கிரிஶசரிதே விஸ்மயவதீ |
ஹராஹிப்யோ பீதா ஸரஸிருஹ ஸௌபாக்ய-ஜனனீ
ஸகீஷு ஸ்மேரா தே மயி ஜனனி த்றுஷ்டிஃ ஸகருணா || 51 ||

கதே கர்ணாப்யர்ணம் கருத இவ பக்ஷ்மாணி தததீ
புராம் பேத்து-ஶ்சித்தப்ரஶம-ரஸ-வித்ராவண பலே |
இமே னேத்ரே கோத்ராதரபதி-குலோத்தம்ஸ-கலிகே
தவாகர்ணாக்றுஷ்ட ஸ்மரஶர-விலாஸம் கலயதஃ|| 52 ||

விபக்த-த்ரைவர்ண்யம் வ்யதிகரித-லீலாஞ்ஜனதயா
விபாதி த்வன்னேத்ர த்ரிதய மித-மீஶானதயிதே |
புனஃ ஸ்ரஷ்டும் தேவான் த்ருஹிண ஹரி-ருத்ரானுபரதான்
ரஜஃ ஸத்வம் வேப்ரத் தம இதி குணானாம் த்ரயமிவ || 53 ||

பவித்ரீகர்தும் னஃ பஶுபதி-பராதீன-ஹ்றுதயே
தயாமித்ரை ர்னேத்ரை-ரருண-தவல-ஶ்யாம ருசிபிஃ |
னதஃ ஶோணோ கங்கா தபனதனயேதி த்ருவமும்
த்ரயாணாம் தீர்தானா-முபனயஸி ஸம்பேத-மனகம் || 54 ||

னிமேஷோன்மேஷாப்யாம் ப்ரலயமுதயம் யாதி ஜகதி
தவேத்யாஹுஃ ஸன்தோ தரணிதர-ராஜன்யதனயே |
த்வதுன்மேஷாஜ்ஜாதம் ஜகதித-மஶேஷம் ப்ரலயதஃ
பரேத்ராதும் ஶம்ங்கே பரிஹ்றுத-னிமேஷா-ஸ்தவ த்றுஶஃ || 55 ||

தவாபர்ணே கர்ணே ஜபனயன பைஶுன்ய சகிதா
னிலீயன்தே தோயே னியத மனிமேஷாஃ ஶபரிகாஃ |
இயம் ச ஶ்ரீ-ர்பத்தச்சதபுடகவாடம் குவலயம்
ஜஹாதி ப்ரத்யூஷே னிஶி ச விகதய்ய ப்ரவிஶதி|| 56 ||

த்றுஶா த்ராகீயஸ்யா தரதலித னீலோத்பல ருசா
தவீயாம்ஸம் தீனம் ஸ்னபா க்றுபயா மாமபி ஶிவே |
அனேனாயம் தன்யோ பவதி ன ச தே ஹானிரியதா
வனே வா ஹர்ம்யே வா ஸமகர னிபாதோ ஹிமகரஃ || 57 ||

அராலம் தே பாலீயுகல-மகராஜன்யதனயே
ன கேஷா-மாதத்தே குஸுமஶர கோதண்ட-குதுகம் |
திரஶ்சீனோ யத்ர ஶ்ரவணபத-முல்ல்ங்ய்ய விலஸன்
அபாம்க வ்யாஸம்கோ திஶதி ஶரஸன்தான திஷணாம் || 58 ||

ஸ்புரத்கண்டாபோக-ப்ரதிபலித தாட்ங்க யுகலம்
சதுஶ்சக்ரம் மன்யே தவ முகமிதம் மன்மதரதம் |
யமாருஹ்ய த்ருஹ்ய த்யவனிரத மர்கேன்துசரணம்
மஹாவீரோ மாரஃ ப்ரமதபதயே ஸஜ்ஜிதவதே || 59 ||

ஸரஸ்வத்யாஃ ஸூக்தீ-ரம்றுதலஹரீ கௌஶலஹரீஃ
பிப்னத்யாஃ ஶர்வாணி ஶ்ரவண-சுலுகாப்யா-மவிரலம் |
சமத்காரஃ-ஶ்லாகாசலித-ஶிரஸஃ குண்டலகணோ
ஜணத்கரைஸ்தாரைஃ ப்ரதிவசன-மாசஷ்ட இவ தே || 60 ||

அஸௌ னாஸாவம்ஶ-ஸ்துஹினகிரிவண்ஶ-த்வஜபடி
த்வதீயோ னேதீயஃ பலது பல-மஸ்மாகமுசிதம் |
வஹத்யன்தர்முக்தாஃ ஶிஶிரகர-னிஶ்வாஸ-கலிதம்
ஸம்றுத்த்யா யத்தாஸாம் பஹிரபி ச முக்தாமணிதரஃ || 61 ||

ப்ரக்றுத்யா‌உரக்தாயா-ஸ்தவ ஸுததி தன்தச்சதருசேஃ
ப்ரவக்ஷ்யே ஸத்றுஶ்யம் ஜனயது பலம் வித்ருமலதா |
ன பிம்பம் தத்பிம்ப-ப்ரதிபலன-ராகா-தருணிதம்
துலாமத்ராரோடும் கதமிவ விலஜ்ஜேத கலயா || 62 ||

ஸ்மிதஜ்யோத்ஸ்னாஜாலம் தவ வதனசன்த்ரஸ்ய பிபதாம்
சகோராணா-மாஸீ-ததிரஸதயா சஞ்சு-ஜடிமா |
அதஸ்தே ஶீதாம்ஶோ-ரம்றுதலஹரீ மாம்லருசயஃ
பிபன்தீ ஸ்வச்சன்தம் னிஶி னிஶி ப்றுஶம் காஞ்ஜி கதியா || 63 ||

அவிஶ்ரான்தம் பத்யுர்குணகண கதாம்ரேடனஜபா
ஜபாபுஷ்பச்சாயா தவ ஜனனி ஜிஹ்வா ஜயதி ஸா |
யதக்ராஸீனாயாஃ ஸ்படிகத்றுஷ-தச்சச்சவிமயி
ஸரஸ்வத்யா மூர்திஃ பரிணமதி மாணிக்யவபுஷா || 64 ||

ரணே ஜித்வா தைத்யா னபஹ்றுத-ஶிரஸ்த்ரைஃ கவசிபிஃ
னிவ்றுத்தை-ஶ்சண்டாம்ஶ-த்ரிபுரஹர-னிர்மால்ய-விமுகைஃ |
விஶாகேன்த்ரோபேன்த்ரைஃ ஶஶிவிஶத-கர்பூரஶகலா
விலீயன்தே மாதஸ்தவ வதனதாம்பூல-கபலாஃ || 65 ||

விபஞ்ச்யா காயன்தீ விவித-மபதானம் பஶுபதே-
ஸ்த்வயாரப்தே வக்தும் சலிதஶிரஸா ஸாதுவசனே |
ததீயை-ர்மாதுர்யை-ரபலபித-தன்த்ரீகலரவாம்
னிஜாம் வீணாம் வாணீம் னிசுலயதி சோலேன னிப்றுதம் || 66 ||

கரக்ரேண ஸ்ப்றுஷ்டம் துஹினகிரிணா வத்ஸலதயா
கிரிஶேனோ-தஸ்தம் முஹுரதரபானாகுலதயா |
கரக்ராஹ்யம் ஶம்போர்முகமுகுரவ்றுன்தம் கிரிஸுதே
கதம்கரம் ப்ரூம-ஸ்தவ சுபுகமோபம்யரஹிதம் || 67 ||

புஜாஶ்லேஷான்னித்யம் புரதமயிதுஃ கன்டகவதீ
தவ க்ரீவா தத்தே முககமலனால-ஶ்ரியமியம் |
ஸ்வதஃ ஶ்வேதா காலா கரு பஹுல-ஜம்பாலமலினா
ம்றுணாலீலாலித்யம் வஹதி யததோ ஹாரலதிகா || 68 ||

கலே ரேகாஸ்திஸ்ரோ கதி கமக கீதைக னிபுணே
விவாஹ-வ்யானத்த-ப்ரகுணகுண-ஸம்க்யா ப்ரதிபுவஃ |
விராஜன்தே னானாவித-மதுர-ராகாகர-புவாம்
த்ரயாணாம் க்ராமாணாம் ஸ்திதி-னியம-ஸீமான இவ தே || 69 ||

ம்றுணாலீ-ம்றுத்வீனாம் தவ புஜலதானாம் சதஸ்றுணாம்
சதுர்பிஃ ஸௌன்த்ரயம் ஸரஸிஜபவஃ ஸ்தௌதி வதனைஃ |
னகேப்யஃ ஸன்த்ரஸ்யன் ப்ரதம-மதனா தன்தகரிபோஃ
சதுர்ணாம் ஶீர்ஷாணாம் ஸம-மபயஹஸ்தார்பண-தியா || 70 ||

னகானா-முத்யோதை-ர்னவனலினராகம் விஹஸதாம்
கராணாம் தே கான்திம் கதய கதயாமஃ கதமுமே |
கயாசித்வா ஸாம்யம் பஜது கலயா ஹன்த கமலம்
யதி க்ரீடல்லக்ஷ்மீ-சரணதல-லாக்ஷாரஸ-சணம் || 71 ||

ஸமம் தேவி ஸ்கன்த த்விபிவதன பீதம் ஸ்தனயுகம்
தவேதம் னஃ கேதம் ஹரது ஸததம் ப்ரஸ்னுத-முகம் |
யதாலோக்யாஶங்காகுலித ஹ்றுதயோ ஹாஸஜனகஃ
ஸ்வகும்பௌ ஹேரம்பஃ பரிம்றுஶதி ஹஸ்தேன ஜடிதி || 72 ||

அமூ தே வக்ஷோஜா-வம்றுதரஸ-மாணிக்ய குதுபௌ
ன ஸன்தேஹஸ்பன்தோ னகபதி பதாகே மனஸி னஃ |
பிபன்தௌ தௌ யஸ்மா தவிதித வதூஸங்க ரஸிகௌ
குமாராவத்யாபி த்விரதவதன-க்ரௌஞ்ச்தலனௌ || 73 ||

வஹத்யம்ப ஸ்த்ம்பேரம-தனுஜ-கும்பப்ரக்றுதிபிஃ
ஸமாரப்தாம் முக்தாமணிபிரமலாம் ஹாரலதிகாம் |
குசாபோகோ பிம்பாதர-ருசிபி-ரன்தஃ ஶபலிதாம்
ப்ரதாப-வ்யாமிஶ்ராம் புரதமயிதுஃ கீர்திமிவ தே || 74 ||

தவ ஸ்தன்யம் மன்யே தரணிதரகன்யே ஹ்றுதயதஃ
பயஃ பாராவாரஃ பரிவஹதி ஸாரஸ்வதமிவ |
தயாவத்யா தத்தம் த்ரவிடஶிஶு-ராஸ்வாத்ய தவ யத்
கவீனாம் ப்ரௌடானா மஜனி கமனீயஃ கவயிதா || 75 ||

ஹரக்ரோத-ஜ்வாலாவலிபி-ரவலீடேன வபுஷா
கபீரே தே னாபீஸரஸி க்றுதஸஙோ மனஸிஜஃ |
ஸமுத்தஸ்தௌ தஸ்மா-தசலதனயே தூமலதிகா
ஜனஸ்தாம் ஜானீதே தவ ஜனனி ரோமாவலிரிதி || 76 ||

யதேதத்காலின்தீ-தனுதர-தரங்காக்றுதி ஶிவே
க்றுஶே மத்யே கிஞ்சிஜ்ஜனனி தவ யத்பாதி ஸுதியாம் |
விமர்தா-தன்யோன்யம் குசகலஶயோ-ரன்தரகதம்
தனூபூதம் வ்யோம ப்ரவிஶதிவ னாபிம் குஹரிணீம் || 77 ||

ஸ்திரோ கங்கா வர்தஃ ஸ்தனமுகுல-ரோமாவலி-லதா
கலாவாலம் குண்டம் குஸுமஶர தேஜோ-ஹுதபுஜஃ |
ரதே-ர்லீலாகாரம் கிமபி தவ னாபிர்கிரிஸுதே
பேலத்வாரம் ஸித்தே-ர்கிரிஶனயனானாம் விஜயதே || 78 ||

னிஸர்க-க்ஷீணஸ்ய ஸ்தனதட-பரேண க்லமஜுஷோ
னமன்மூர்தே ர்னாரீதிலக ஶனகை-ஸ்த்ருட்யத இவ |
சிரம் தே மத்யஸ்ய த்ருடித தடினீ-தீர-தருணா
ஸமாவஸ்தா-ஸ்தேம்னோ பவது குஶலம் ஶைலதனயே || 79 ||

குசௌ ஸத்யஃ ஸ்வித்ய-த்தடகடித-கூர்பாஸபிதுரௌ
கஷன்தௌ-தௌர்மூலே கனககலஶாபௌ கலயதா |
தவ த்ராதும் பங்காதலமிதி வலக்னம் தனுபுவா
த்ரிதா னத்த்ம் தேவீ த்ரிவலி லவலீவல்லிபிரிவ || 80 ||

குருத்வம் விஸ்தாரம் க்ஷிதிதரபதிஃ பார்வதி னிஜாத்
னிதம்பா-தாச்சித்ய த்வயி ஹரண ரூபேண னிததே |
அதஸ்தே விஸ்தீர்ணோ குருரயமஶேஷாம் வஸுமதீம்
னிதம்ப-ப்ராக்பாரஃ ஸ்தகயதி ஸகுத்வம் னயதி ச || 81 ||

கரீன்த்ராணாம் ஶுண்டான்-கனககதலீ-காண்டபடலீம்
உபாப்யாமூருப்யா-முபயமபி னிர்ஜித்ய பவதி |
ஸுவ்றுத்தாப்யாம் பத்யுஃ ப்ரணதிகடினாப்யாம் கிரிஸுதே
விதிஜ்ஞே ஜானுப்யாம் விபுத கரிகும்ப த்வயமஸி || 82 ||

பராஜேதும் ருத்ரம் த்விகுணஶரகர்பௌ கிரிஸுதே
னிஷங்கௌ ஜங்கே தே விஷமவிஶிகோ பாட-மக்றுத |
யதக்ரே த்றுஸ்யன்தே தஶஶரபலாஃ பாதயுகலீ
னகாக்ரச்சன்மானஃ ஸுர முகுட-ஶாணைக-னிஶிதாஃ || 83 ||

ஶ்ருதீனாம் மூர்தானோ தததி தவ யௌ ஶேகரதயா
மமாப்யேதௌ மாதஃ ஶேரஸி தயயா தேஹி சரணௌ |
யய‌ஓஃ பாத்யம் பாதஃ பஶுபதி ஜடாஜூட தடினீ
யயோ-ர்லாக்ஷா-லக்ஷ்மீ-ரருண ஹரிசூடாமணி ருசிஃ || 84 ||

னமோ வாகம் ப்ரூமோ னயன-ரமணீயாய பதயோஃ
தவாஸ்மை த்வன்த்வாய ஸ்புட-ருசி ரஸாலக்தகவதே |
அஸூயத்யத்யன்தம் யதபிஹனனாய ஸ்ப்றுஹயதே
பஶூனா-மீஶானஃ ப்ரமதவன-கங்கேலிதரவே || 85 ||

ம்றுஷா க்றுத்வா கோத்ரஸ்கலன-மத வைலக்ஷ்யனமிதம்
லலாடே பர்தாரம் சரணகமலே தாடயதி தே |
சிராதன்தஃ ஶல்யம் தஹனக்றுத முன்மூலிதவதா
துலாகோடிக்வாணைஃ கிலிகிலித மீஶான ரிபுணா || 86 ||

ஹிமானீ ஹன்தவ்யம் ஹிமகிரினிவாஸைக-சதுரௌ
னிஶாயாம் னித்ராணம் னிஶி-சரமபாகே ச விஶதௌ |
வரம் லக்ஷ்மீபாத்ரம் ஶ்ரிய-மதிஸ்றுஹன்தோ ஸமயினாம்
ஸரோஜம் த்வத்பாதௌ ஜனனி ஜயத-ஶ்சித்ரமிஹ கிம் || 87 ||

பதம் தே கீர்தீனாம் ப்ரபதமபதம் தேவி விபதாம்
கதம் னீதம் ஸத்பிஃ கடின-கமடீ-கர்பர-துலாம் |
கதம் வா பாஹுப்யா-முபயமனகாலே புரபிதா
யதாதாய ன்யஸ்தம் த்றுஷதி தயமானேன மனஸா || 88 ||

னகை-ர்னாகஸ்த்ரீணாம் கரகமல-ஸம்கோச-ஶஶிபிஃ
தரூணாம் திவ்யானாம் ஹஸத இவ தே சண்டி சரணௌ |
பலானி ஸ்வஃஸ்தேப்யஃ கிஸலய-கராக்ரேண தததாம்
தரித்ரேப்யோ பத்ராம் ஶ்ரியமனிஶ-மஹ்னாய தததௌ || 89 ||

ததானே தீனேப்யஃ ஶ்ரியமனிஶ-மாஶானுஸத்றுஶீம்
அமன்தம் ஸௌன்தர்யம் ப்ரகர-மகரன்தம் விகிரதி |
தவாஸ்மின் மன்தார-ஸ்தபக-ஸுபகே யாது சரணே
னிமஜ்ஜன் மஜ்ஜீவஃ கரணசரணஃ ஷ்ட்சரணதாம் || 90 ||

பதன்யாஸ-க்ரீடா பரிசய-மிவாரப்து-மனஸஃ
ஸ்கலன்தஸ்தே கேலம் பவனகலஹம்ஸா ன ஜஹதி |
அதஸ்தேஷாம் ஶிக்ஷாம் ஸுபகமணி-மஞ்ஜீர-ரணித-
ச்சலாதாசக்ஷாணம் சரணகமலம் சாருசரிதே || 91 ||

கதாஸ்தே மஞ்சத்வம் த்ருஹிண ஹரி ருத்ரேஶ்வர ப்றுதஃ
ஶிவஃ ஸ்வச்ச-ச்சாயா-கடித-கபட-ப்ரச்சதபடஃ |
த்வதீயானாம் பாஸாம் ப்ரதிபலன ராகாருணதயா
ஶரீரீ ஶ்றுங்காரோ ரஸ இவ த்றுஶாம் தோக்தி குதுகம் || 92 ||

அராலா கேஶேஷு ப்ரக்றுதி ஸரலா மன்தஹஸிதே
ஶிரீஷாபா சித்தே த்றுஷதுபலஶோபா குசதடே |
ப்றுஶம் தன்வீ மத்யே ப்றுது-ருரஸிஜாரோஹ விஷயே
ஜகத்த்ரதும் ஶம்போ-ர்ஜயதி கருணா காசிதருணா || 93 ||

கலங்கஃ கஸ்தூரீ ரஜனிகர பிம்பம் ஜலமயம்
கலாபிஃ கர்பூரை-ர்மரகதகரண்டம் னிபிடிதம் |
அதஸ்த்வத்போகேன ப்ரதிதினமிதம் ரிக்தகுஹரம்
விதி-ர்பூயோ பூயோ னிபிடயதி னூனம் தவ க்றுதே || 94 ||

புராரன்தே-ரன்தஃ புரமஸி தத-ஸ்த்வசரணயோஃ
ஸபர்யா-மர்யாதா தரலகரணானா-மஸுலபா |
ததா ஹ்யேதே னீதாஃ ஶதமகமுகாஃ ஸித்திமதுலாம்
தவ த்வாரோபான்தஃ ஸ்திதிபி-ரணிமாத்யாபி-ரமராஃ || 95 ||

கலத்ரம் வைதாத்ரம் கதிகதி பஜன்தே ன கவயஃ
ஶ்ரியோ தேவ்யாஃ கோ வா ன பவதி பதிஃ கைரபி தனைஃ |
மஹாதேவம் ஹித்வா தவ ஸதி ஸதீனா-மசரமே
குசப்யா-மாஸங்கஃ குரவக-தரோ-ரப்யஸுலபஃ || 96 ||

கிராமாஹு-ர்தேவீம் த்ருஹிணக்றுஹிணீ-மாகமவிதோ
ஹரேஃ பத்னீம் பத்மாம் ஹரஸஹசரீ-மத்ரிதனயாம் |
துரீயா காபி த்வம் துரதிகம-னிஸ்ஸீம-மஹிமா
மஹாமாயா விஶ்வம் ப்ரமயஸி பரப்ரஹ்மமஹிஷி || 97 ||

கதா காலே மாதஃ கதய கலிதாலக்தகரஸம்
பிபேயம் வித்யார்தீ தவ சரண-னிர்ணேஜனஜலம் |
ப்ரக்றுத்யா மூகானாமபி ச கவிதா0காரணதயா
கதா தத்தே வாணீமுககமல-தாம்பூல-ரஸதாம் || 98 ||

ஸரஸ்வத்யா லக்ஷ்ம்யா விதி ஹரி ஸபத்னோ விஹரதே
ரதேஃ பதிவ்ரத்யம் ஶிதிலபதி ரம்யேண வபுஷா |
சிரம் ஜீவன்னேவ க்ஷபித-பஶுபாஶ-வ்யதிகரஃ
பரானன்தாபிக்யம் ரஸயதி ரஸம் த்வத்பஜனவான் || 99 ||

ப்ரதீப ஜ்வாலாபி-ர்திவஸகர-னீராஜனவிதிஃ
ஸுதாஸூதே-ஶ்சன்த்ரோபல-ஜலலவை-ரக்யரசனா |
ஸ்வகீயைரம்போபிஃ ஸலில-னிதி-ஸௌஹித்யகரணம்
த்வதீயாபி-ர்வாக்பி-ஸ்தவ ஜனனி வாசாம் ஸ்துதிரியம் || 100 ||

ஸௌன்தயலஹரி முக்யஸ்தோத்ரம் ஸம்வார்ததாயகம் |
பகவத்பாத ஸன்க்லுப்தம் படேன் முக்தௌ பவேன்னரஃ ||
ஸௌன்தர்யலஹரி ஸ்தோத்ரம் ஸம்பூர்ணம்

.


ଭୁମୌସ୍ଖଲିତ ପାଦାନାମ ଭୂମିରେଵା ଵଲମ୍ବନମ |
ତ୍ଵୟୀ ଜାତା ପରାଧାନାମ ତ୍ଵମେଵ ଶରଣମ ଶିଵେ ||

ଶିଵଃ ଶକ୍ତ୍ୟା ୟୁକ୍ତୋ ୟଦି ଭଵତି ଶକ୍ତଃ ପ୍ରଭଵିତୁଂ
ନ ଚେଦେଵଂ ଦେଵୋ ନ ଖଲୁ କୁଶଲଃ ସ୍ପନ୍ଦିତୁମପି|
ଅତସ୍ତ୍ଵାମ ଆରାଧ୍ୟାଂ ହରି-ହର-ଵିରିନ୍ଚାଦିଭି ରପି
ପ୍ରଣନ୍ତୁଂ ସ୍ତୋତୁଂ ଵା କଥ-ମକ୍ର୍ତ ପୁଣ୍ୟଃ ପ୍ରଭଵତି|| 1 ||

ତନୀୟାଂସୁଂ ପାଂସୁଂ ତଵ ଚରଣ ପଙ୍କେରୁହ-ଭଵଂ
ଵିରିଂଚିଃ ସଂଚିନ୍ଵନ ଵିରଚୟତି ଲୋକା-ନଵିକଲମ |
ଵହତ୍ୟେନଂ ଶୌରିଃ କଥମପି ସହସ୍ରେଣ ଶିରସାଂ
ହରଃ ସଂକ୍ଷୁଦ-ୟୈନଂ ଭଜତି ଭସିତୋଦ୍ଧୂଳ ନଵିଧିମ|| 2 ||

ଅଵିଦ୍ୟାନା-ମନ୍ତ-ସ୍ତିମିର-ମିହିର ଦ୍ଵୀପନଗରୀ
ଜଡାନାଂ ଚୈତନ୍ୟ-ସ୍ତବକ ମକରନ୍ଦ ଶ୍ରୁତିଝରୀ |
ଦରିଦ୍ରାଣାଂ ଚିନ୍ତାମଣି ଗୁଣନିକା ଜନ୍ମଜଲଧୌ
ନିମଗ୍ନାନାଂ ଦଂଷ୍ଟ୍ରା ମୁରରିପୁ ଵରାହସ୍ୟ ଭଵତି|| 3 ||

ତ୍ଵଦନ୍ୟଃ ପାଣିଭୟା-ମଭୟଵରଦୋ ଦୈଵତଗଣଃ
ତ୍ଵମେକା ନୈଵାସି ପ୍ରକଟିତ-ଵରଭୀତ୍ୟଭିନୟା |
ଭୟାତ ତ୍ରାତୁଂ ଦାତୁଂ ଫଲମପି ଚ ଵାଂଛାସମଧିକଂ
ଶରଣ୍ୟେ ଲୋକାନାଂ ତଵ ହି ଚରଣାଵେଵ ନିପୁଣୌ || 4 ||

ହରିସ୍ତ୍ଵାମାରଧ୍ୟ ପ୍ରଣତ-ଜନ-ସୌଭାଗ୍ୟ-ଜନନୀଂ
ପୁରା ନାରୀ ଭୂତ୍ଵା ପୁରରିପୁମପି କ୍ଷୋଭ ମନୟତ |
ସ୍ମରୋ‌உପି ତ୍ଵାଂ ନତ୍ଵା ରତିନୟନ-ଲେହ୍ୟେନ ଵପୁଷା
ମୁନୀନାମପ୍ୟନ୍ତଃ ପ୍ରଭଵତି ହି ମୋହାୟ ମହତାମ || 5 ||

ଧନୁଃ ପୌଷ୍ପଂ ମୌର୍ଵୀ ମଧୁକରମୟୀ ପଞ୍ଚ ଵିଶିଖାଃ
ଵସନ୍ତଃ ସାମନ୍ତୋ ମଲୟମରୁ-ଦାୟୋଧନ-ରଥଃ |
ତଥାପ୍ୟେକଃ ସର୍ଵଂ ହିମଗିରିସୁତେ କାମପି କୃପାଂ
ଅପାଂଗାତ୍ତେ ଲବ୍ଧ୍ଵା ଜଗଦିଦ-ମନଙ୍ଗୋ ଵିଜୟତେ || 6 ||

କ୍ଵଣତ୍କାଞ୍ଚୀ-ଦାମା କରି କଲଭ କୁଂଭ-ସ୍ତନନତା
ପରିକ୍ଷୀଣା ମଧ୍ୟେ ପରିଣତ ଶରଚ୍ଚନ୍ଦ୍ର-ଵଦନା |
ଧନୁର୍ବାଣାନ ପାଶଂ ସୃଣିମପି ଦଧାନା କରତଲୈଃ
ପୁରସ୍ତା ଦାସ୍ତାଂ ନଃ ପୁରମଥିତୁ ରାହୋ-ପୁରୁଷିକା || 7 ||

ସୁଧାସିନ୍ଧୋର୍ମଧ୍ୟେ ସୁରଵିଟ-ପିଵାଟୀ-ପରିଵୃତେ
ମଣିଦ୍ଵୀପେ ନୀପୋ-ପଵନଵତି ଚିନ୍ତାମଣି ଗୃହେ |
ଶିଵକାରେ ମଞ୍ଚେ ପରମଶିଵ-ପର୍ୟଙ୍କ ନିଲୟାମ
ଭଜନ୍ତି ତ୍ଵାଂ ଧନ୍ୟାଃ କତିଚନ ଚିଦାନନ୍ଦ-ଲହରୀମ || 8 ||

ମହୀଂ ମୂଲାଧାରେ କମପି ମଣିପୂରେ ହୁତଵହଂ
ସ୍ଥିତଂ ସ୍ଵଧିଷ୍ଟାନେ ହୃଦି ମରୁତ-ମାକାଶ-ମୁପରି |
ମନୋ‌உପି ଭ୍ରୂମଧ୍ୟେ ସକଲମପି ଭିତ୍ଵା କୁଲପଥଂ
ସହସ୍ରାରେ ପଦ୍ମେ ସ ହରହସି ପତ୍ୟା ଵିହରସେ || 9 ||

ସୁଧାଧାରାସାରୈ-ଶ୍ଚରଣୟୁଗଲାନ୍ତ-ର୍ଵିଗଲିତୈଃ
ପ୍ରପଂଚଂ ସିନ୍ଞ୍ନ୍ତୀ ପୁନରପି ରସାମ୍ନାୟ-ମହସଃ|
ଅଵାପ୍ୟ ସ୍ଵାଂ ଭୂମିଂ ଭୁଜଗନିଭ-ମଧ୍ୟୁଷ୍ଟ-ଵଲୟଂ
ସ୍ଵମାତ୍ମାନଂ କୃତ୍ଵା ସ୍ଵପିଷି କୁଲକୁଣ୍ଡେ କୁହରିଣି || 10 ||

ଚତୁର୍ଭିଃ ଶ୍ରୀକଣ୍ଠୈଃ ଶିଵୟୁଵତିଭିଃ ପଞ୍ଚଭିପି
ପ୍ରଭିନ୍ନାଭିଃ ଶଂଭୋର୍ନଵଭିରପି ମୂଲପ୍ରକୃତିଭିଃ |
ଚତୁଶ୍ଚତ୍ଵାରିଂଶଦ-ଵସୁଦଲ-କଲାଶ୍ଚ-ତ୍ରିଵଲୟ-
ତ୍ରିରେଖଭିଃ ସାର୍ଧଂ ତଵ ଶରଣକୋଣାଃ ପରିଣତାଃ || 11 ||

ତ୍ଵଦୀୟଂ ସୌନ୍ଦର୍ୟଂ ତୁହିନଗିରିକନ୍ୟେ ତୁଲୟିତୁଂ
କଵୀନ୍ଦ୍ରାଃ କଲ୍ପନ୍ତେ କଥମପି ଵିରିଞ୍ଚି-ପ୍ରଭୃତୟଃ |
ୟଦାଲୋକୌତ୍ସୁକ୍ୟା-ଦମରଲଲନା ୟାନ୍ତି ମନସା
ତପୋଭିର୍ଦୁଷ୍ପ୍ରାପାମପି ଗିରିଶ-ସାୟୁଜ୍ୟ-ପଦଵୀମ || 12 ||

ନରଂ ଵର୍ଷୀୟାଂସଂ ନୟନଵିରସଂ ନର୍ମସୁ ଜଡଂ
ତଵାପାଂଗାଲୋକେ ପତିତ-ମନୁଧାଵନ୍ତି ଶତଶଃ |
ଗଲଦ୍ଵେଣୀବନ୍ଧାଃ କୁଚକଲଶ-ଵିସ୍ତ୍ରିସ୍ତ-ସିଚୟା
ହଟାତ ତ୍ରୁଟ୍ୟତ୍କାଞ୍ୟୋ ଵିଗଲିତ-ଦୁକୂଲା ୟୁଵତୟଃ || 13 ||

କ୍ଷିତୌ ଷଟ୍ପଞ୍ଚାଶଦ-ଦ୍ଵିସମଧିକ-ପଞ୍ଚାଶ-ଦୁଦକେ
ହୁତଶେ ଦ୍ଵାଷଷ୍ଟି-ଶ୍ଚତୁରଧିକ-ପଞ୍ଚାଶ-ଦନିଲେ |
ଦିଵି ଦ୍ଵିଃ ଷଟ ତ୍ରିଂଶନ ମନସି ଚ ଚତୁଃଷଷ୍ଟିରିତି ୟେ
ମୟୂଖା-ସ୍ତେଷା-ମପ୍ୟୁପରି ତଵ ପାଦାଂବୁଜ-ୟୁଗମ || 14 ||

ଶରଜ୍ଜ୍ୟୋତ୍ସ୍ନା ଶୁଦ୍ଧାଂ ଶଶିୟୁତ-ଜଟାଜୂଟ-ମକୁଟାଂ
ଵର-ତ୍ରାସ-ତ୍ରାଣ-ସ୍ଫଟିକଘୁଟିକା-ପୁସ୍ତକ-କରାମ |
ସକୃନ୍ନ ତ୍ଵା ନତ୍ଵା କଥମିଵ ସତାଂ ସନ୍ନିଦଧତେ
ମଧୁ-କ୍ଷୀର-ଦ୍ରାକ୍ଷା-ମଧୁରିମ-ଧୁରୀଣାଃ ଫଣିତୟଃ || 15 ||

କଵୀନ୍ଦ୍ରାଣାଂ ଚେତଃ କମଲଵନ-ବାଲାତପ-ରୁଚିଂ
ଭଜନ୍ତେ ୟେ ସନ୍ତଃ କତିଚିଦରୁଣାମେଵ ଭଵତୀମ |
ଵିରିଞ୍ଚି-ପ୍ରେୟସ୍ୟା-ସ୍ତରୁଣତର-ଶ୍ରୃଙ୍ଗର ଲହରୀ-
ଗଭୀରାଭି-ର୍ଵାଗ୍ଭିଃ ର୍ଵିଦଧତି ସତାଂ ରଞ୍ଜନମମୀ || 16 ||

ସଵିତ୍ରୀଭି-ର୍ଵାଚାଂ ଚଶି-ମଣି ଶିଲା-ଭଙ୍ଗ ରୁଚିଭି-
ର୍ଵଶିନ୍ୟଦ୍ୟାଭି-ସ୍ତ୍ଵାଂ ସହ ଜନନି ସଂଚିନ୍ତୟତି ୟଃ |
ସ କର୍ତା କାଵ୍ୟାନାଂ ଭଵତି ମହତାଂ ଭଙ୍ଗିରୁଚିଭି-
ର୍ଵଚୋଭି-ର୍ଵାଗ୍ଦେଵୀ-ଵଦନ-କମଲାମୋଦ ମଧୁରୈଃ || 17 ||

ତନୁଚ୍ଛାୟାଭିସ୍ତେ ତରୁଣ-ତରଣି-ଶ୍ରୀସରଣିଭି-
ର୍ଦିଵଂ ସର୍ଵା-ମୁର୍ଵୀ-ମରୁଣିମନି ମଗ୍ନାଂ ସ୍ମରତି ୟଃ |
ଭଵନ୍ତ୍ୟସ୍ୟ ତ୍ରସ୍ୟ-ଦ୍ଵନହରିଣ-ଶାଲୀନ-ନୟନାଃ
ସହୋର୍ଵଶ୍ୟା ଵଶ୍ୟାଃ କତି କତି ନ ଗୀର୍ଵାଣ-ଗଣିକାଃ || 18 ||

ମୁଖଂ ବିନ୍ଦୁଂ କୃତ୍ଵା କୁଚୟୁଗମଧ-ସ୍ତସ୍ୟ ତଦଧୋ
ହରାର୍ଧଂ ଧ୍ୟାୟେଦ୍ୟୋ ହରମହିଷି ତେ ମନ୍ମଥକଲାମ |
ସ ସଦ୍ୟଃ ସଂକ୍ଷୋଭଂ ନୟତି ଵନିତା ଇତ୍ୟତିଲଘୁ
ତ୍ରିଲୋକୀମପ୍ୟାଶୁ ଭ୍ରମୟତି ରଵୀନ୍ଦୁ-ସ୍ତନୟୁଗାମ || 19 ||

କିରନ୍ତୀ-ମଙ୍ଗେଭ୍ୟଃ କିରଣ-ନିକୁରୁମ୍ବମୃତରସଂ
ହୃଦି ତ୍ଵା ମାଧତ୍ତେ ହିମକରଶିଲା-ମୂର୍ତିମିଵ ୟଃ |
ସ ସର୍ପାଣାଂ ଦର୍ପଂ ଶମୟତି ଶକୁନ୍ତଧିପ ଇଵ
ଜ୍ଵରପ୍ଲୁଷ୍ଟାନ ଦୃଷ୍ଟ୍ୟା ସୁଖୟତି ସୁଧାଧାରସିରୟା || 20 ||

ତଟିଲ୍ଲେଖା-ତନ୍ଵୀଂ ତପନ ଶଶି ଵୈଶ୍ଵାନର ମୟୀଂ
ନିଷ୍ଣ୍ଣାଂ ଷଣ୍ଣାମପ୍ୟୁପରି କମଲାନାଂ ତଵ କଲାମ |
ମହାପଦ୍ମାତଵ୍ୟାଂ ମୃଦିତ-ମଲମାୟେନ ମନସା
ମହାନ୍ତଃ ପଶ୍ୟନ୍ତୋ ଦଧତି ପରମାହ୍ଲାଦ-ଲହରୀମ || 21 ||

ଭଵାନି ତ୍ଵଂ ଦାସେ ମୟି ଵିତର ଦୃଷ୍ଟିଂ ସକରୁଣାଂ
ଇତି ସ୍ତୋତୁଂ ଵାଞ୍ଛନ କଥୟତି ଭଵାନି ତ୍ଵମିତି ୟଃ |
ତଦୈଵ ତ୍ଵଂ ତସ୍ମୈ ଦିଶସି ନିଜସାୟୁଜ୍ୟ-ପଦଵୀଂ
ମୁକୁନ୍ଦ-ବ୍ରମ୍ହେନ୍ଦ୍ର ସ୍ଫୁଟ ମକୁଟ ନୀରାଜିତପଦାମ || 22 ||

ତ୍ଵୟା ହୃତ୍ଵା ଵାମଂ ଵପୁ-ରପରିତୃପ୍ତେନ ମନସା
ଶରୀରାର୍ଧଂ ଶମ୍ଭୋ-ରପରମପି ଶଙ୍କେ ହୃତମଭୂତ |
ୟଦେତତ ତ୍ଵଦ୍ରୂପଂ ସକଲମରୁଣାଭଂ ତ୍ରିନୟନଂ
କୁଚାଭ୍ୟାମାନମ୍ରଂ କୁଟିଲ-ଶଶିଚୂଡାଲ-ମକୁଟମ || 23 ||

ଜଗତ୍ସୂତେ ଧାତା ହରିରଵତି ରୁଦ୍ରଃ କ୍ଷପୟତେ
ତିରସ୍କୁର୍ଵ-ନ୍ନେତତ ସ୍ଵମପି ଵପୁ-ରୀଶ-ସ୍ତିରୟତି |
ସଦା ପୂର୍ଵଃ ସର୍ଵଂ ତଦିଦ ମନୁଗୃହ୍ଣାତି ଚ ଶିଵ-
ସ୍ତଵାଜ୍ଞା ମଲମ୍ବ୍ୟ କ୍ଷଣଚଲିତୟୋ ର୍ଭ୍ରୂଲତିକୟୋଃ || 24 ||

ତ୍ରୟାଣାଂ ଦେଵାନାଂ ତ୍ରିଗୁଣ-ଜନିତାନାଂ ତଵ ଶିଵେ
ଭଵେତ ପୂଜା ପୂଜା ତଵ ଚରଣୟୋ-ର୍ୟା ଵିରଚିତା |
ତଥା ହି ତ୍ଵତ୍ପାଦୋଦ୍ଵହନ-ମଣିପୀଠସ୍ୟ ନିକଟେ
ସ୍ଥିତା ହ୍ୟେତେ-ଶଶ୍ଵନ୍ମୁକୁଲିତ କରୋତ୍ତଂସ-ମକୁଟାଃ || 25 ||

ଵିରିଞ୍ଚିଃ ପଞ୍ଚତ୍ଵଂ ଵ୍ରଜତି ହରିରାପ୍ନୋତି ଵିରତିଂ
ଵିନାଶଂ କୀନାଶୋ ଭଜତି ଧନଦୋ ୟାତି ନିଧନମ |
ଵିତନ୍ଦ୍ରୀ ମାହେନ୍ଦ୍ରୀ-ଵିତତିରପି ସଂମୀଲିତ-ଦୃଶା
ମହାସଂହାରେ‌உସ୍ମିନ ଵିହରତି ସତି ତ୍ଵତ୍ପତି ରସୌ || 26 ||

ଜପୋ ଜଲ୍ପଃ ଶିଲ୍ପଂ ସକଲମପି ମୁଦ୍ରାଵିରଚନା
ଗତିଃ ପ୍ରାଦକ୍ଷିଣ୍ୟ-କ୍ରମଣ-ମଶନାଦ୍ୟା ହୁତି-ଵିଧିଃ |
ପ୍ରଣାମଃ ସଂଵେଶଃ ସୁଖମଖିଲ-ମାତ୍ମାର୍ପଣ-ଦୃଶା
ସପର୍ୟା ପର୍ୟାୟ-ସ୍ତଵ ଭଵତୁ ୟନ୍ମେ ଵିଲସିତମ || 27 ||

ସୁଧାମପ୍ୟାସ୍ଵାଦ୍ୟ ପ୍ରତି-ଭୟ-ଜରମୃତ୍ୟୁ-ହରିଣୀଂ
ଵିପଦ୍ୟନ୍ତେ ଵିଶ୍ଵେ ଵିଧି-ଶତମଖାଦ୍ୟା ଦିଵିଷଦଃ |
କରାଲଂ ୟତ କ୍ଷ୍ଵେଲଂ କବଲିତଵତଃ କାଲକଲନା
ନ ଶମ୍ଭୋସ୍ତନ୍ମୂଲଂ ତଵ ଜନନି ତାଟଙ୍କ ମହିମା || 28 ||

କିରୀଟଂ ଵୈରିଞ୍ଚଂ ପରିହର ପୁରଃ କୈଟଭଭିଦଃ
କଠୋରେ କୋଠୀରେ ସ୍କଲସି ଜହି ଜଂଭାରି-ମକୁଟମ |
ପ୍ରଣମ୍ରେଷ୍ଵେତେଷୁ ପ୍ରସଭ-ମୁପୟାତସ୍ୟ ଭଵନଂ
ଭଵସ୍ୟଭ୍ୟୁତ୍ଥାନେ ତଵ ପରିଜନୋକ୍ତି-ର୍ଵିଜୟତେ || 29 ||

ସ୍ଵଦେହୋଦ୍ଭୂତାଭି-ର୍ଘୃଣିଭି-ରଣିମାଦ୍ୟାଭି-ରଭିତୋ
ନିଷେଵ୍ୟେ ନିତ୍ୟେ ତ୍ଵା ମହମିତି ସଦା ଭାଵୟତି ୟଃ |
କିମାଶ୍ଚର୍ୟଂ ତସ୍ୟ ତ୍ରିନୟନ-ସମୃଦ୍ଧିଂ ତୃଣୟତୋ
ମହାସଂଵର୍ତାଗ୍ନି-ର୍ଵିରଚୟତି ନୀରାଜନଵିଧିମ || 30 ||

ଚତୁଃ-ଷଷ୍ଟୟା ତନ୍ତ୍ରୈଃ ସକଲ ମତିସନ୍ଧାୟ ଭୁଵନଂ
ସ୍ଥିତସ୍ତତ୍ତ୍ତ-ସିଦ୍ଧି ପ୍ରସଵ ପରତନ୍ତ୍ରୈଃ ପଶୁପତିଃ |
ପୁନସ୍ତ୍ଵ-ନ୍ନିର୍ବନ୍ଧା ଦଖିଲ-ପୁରୁଷାର୍ଥୈକ ଘଟନା-
ସ୍ଵତନ୍ତ୍ରଂ ତେ ତନ୍ତ୍ରଂ କ୍ଷିତିତଲ ମଵାତୀତର-ଦିଦମ || 31 ||

ଶିଵଃ ଶକ୍ତିଃ କାମଃ କ୍ଷିତି-ରଥ ରଵିଃ ଶୀତକିରଣଃ
ସ୍ମରୋ ହଂସଃ ଶକ୍ର-ସ୍ତଦନୁ ଚ ପରା-ମାର-ହରୟଃ |
ଅମୀ ହୃଲ୍ଲେଖାଭି-ସ୍ତିସୃଭି-ରଵସାନେଷୁ ଘଟିତା
ଭଜନ୍ତେ ଵର୍ଣାସ୍ତେ ତଵ ଜନନି ନାମାଵୟଵତାମ || 32 ||

ସ୍ମରଂ ୟୋନିଂ ଲକ୍ଷ୍ମୀଂ ତ୍ରିତୟ-ମିଦ-ମାଦୌ ତଵ ମନୋ
ର୍ନିଧାୟୈକେ ନିତ୍ୟେ ନିରଵଧି-ମହାଭୋଗ-ରସିକାଃ |
ଭଜନ୍ତି ତ୍ଵାଂ ଚିନ୍ତାମଣି-ଗୁଣନିବଦ୍ଧାକ୍ଷ-ଵଲୟାଃ
ଶିଵାଗ୍ନୌ ଜୁହ୍ଵନ୍ତଃ ସୁରଭିଘୃତ-ଧାରାହୁତି-ଶତୈ || 33 ||

ଶରୀରଂ ତ୍ଵଂ ଶଂଭୋଃ ଶଶି-ମିହିର-ଵକ୍ଷୋରୁହ-ୟୁଗଂ
ତଵାତ୍ମାନଂ ମନ୍ୟେ ଭଗଵତି ନଵାତ୍ମାନ-ମନଘମ |
ଅତଃ ଶେଷଃ ଶେଷୀତ୍ୟୟ-ମୁଭୟ-ସାଧାରଣତୟା
ସ୍ଥିତଃ ସଂବନ୍ଧୋ ଵାଂ ସମରସ-ପରାନନ୍ଦ-ପରୟୋଃ || 34 ||

ମନସ୍ତ୍ଵଂ ଵ୍ୟୋମ ତ୍ଵଂ ମରୁଦସି ମରୁତ୍ସାରଥି-ରସି
ତ୍ଵମାପ-ସ୍ତ୍ଵଂ ଭୂମି-ସ୍ତ୍ଵୟି ପରିଣତାୟାଂ ନ ହି ପରମ |
ତ୍ଵମେଵ ସ୍ଵାତ୍ମାନଂ ପରିଣ୍ମୟିତୁଂ ଵିଶ୍ଵ ଵପୁଷା
ଚିଦାନନ୍ଦାକାରଂ ଶିଵୟୁଵତି ଭାଵେନ ବିଭୃଷେ || 35 ||

ତଵାଜ୍ଞଚକ୍ରସ୍ଥଂ ତପନ-ଶଶି କୋଟି-ଦ୍ୟୁତିଧରଂ
ପରଂ ଶଂଭୁ ଵନ୍ଦେ ପରିମିଲିତ-ପାର୍ଶ୍ଵଂ ପରଚିତା |
ୟମାରାଧ୍ୟନ ଭକ୍ତ୍ୟା ରଵି ଶଶି ଶୁଚୀନା-ମଵିଷୟେ
ନିରାଲୋକେ ‌உଲୋକେ ନିଵସତି ହି ଭାଲୋକ-ଭୁଵନେ || 36 ||

ଵିଶୁଦ୍ଧୌ ତେ ଶୁଦ୍ଧସ୍ଫତିକ ଵିଶଦଂ ଵ୍ୟୋମ-ଜନକଂ
ଶିଵଂ ସେଵେ ଦେଵୀମପି ଶିଵସମାନ-ଵ୍ୟଵସିତାମ |
ୟୟୋଃ କାନ୍ତ୍ୟା ୟାନ୍ତ୍ୟାଃ ଶଶିକିରଣ-ସାରୂପ୍ୟସରଣେ
ଵିଧୂତାନ୍ତ-ର୍ଧ୍ଵାନ୍ତା ଵିଲସତି ଚକୋରୀଵ ଜଗତୀ || 37 ||

ସମୁନ୍ମୀଲତ ସଂଵିତ୍କମଲ-ମକରନ୍ଦୈକ-ରସିକଂ
ଭଜେ ହଂସଦ୍ଵନ୍ଦ୍ଵଂ କିମପି ମହତାଂ ମାନସଚରମ |
ୟଦାଲାପା-ଦଷ୍ଟାଦଶ-ଗୁଣିତ-ଵିଦ୍ୟାପରିଣତିଃ
ୟଦାଦତ୍ତେ ଦୋଷାଦ ଗୁଣ-ମଖିଲ-ମଦ୍ଭ୍ୟଃ ପୟ ଇଵ || 38 ||

ତଵ ସ୍ଵାଧିଷ୍ଠାନେ ହୁତଵହ-ମଧିଷ୍ଠାୟ ନିରତଂ
ତମୀଡେ ସଂଵର୍ତଂ ଜନନି ମହତୀଂ ତାଂ ଚ ସମୟାମ |
ୟଦାଲୋକେ ଲୋକାନ ଦହତି ମହସି କ୍ରୋଧ-କଲିତେ
ଦୟାର୍ଦ୍ରା ୟା ଦୃଷ୍ଟିଃ ଶିଶିର-ମୁପଚାରଂ ରଚୟତି || 39 ||

ତଟିତ୍ଵନ୍ତଂ ଶକ୍ତ୍ୟା ତିମିର-ପରିପନ୍ଥି-ସ୍ଫୁରଣୟା
ସ୍ଫୁର-ନ୍ନା ନରତ୍ନାଭରଣ-ପରିଣଦ୍ଧେନ୍ଦ୍ର-ଧନୁଷମ |
ତଵ ଶ୍ୟାମଂ ମେଘଂ କମପି ମଣିପୂରୈକ-ଶରଣଂ
ନିଷେଵେ ଵର୍ଷନ୍ତଂ-ହରମିହିର-ତପ୍ତଂ ତ୍ରିଭୁଵନମ || 40 ||

ତଵାଧାରେ ମୂଲେ ସହ ସମୟୟା ଲାସ୍ୟପରୟା
ନଵାତ୍ମାନ ମନ୍ୟେ ନଵରସ-ମହାତାଣ୍ଡଵ-ନଟମ |
ଉଭାଭ୍ୟା ମେତାଭ୍ୟା-ମୁଦୟ-ଵିଧି ମୁଦ୍ଦିଶ୍ୟ ଦୟୟା
ସନାଥାଭ୍ୟାଂ ଜଜ୍ଞେ ଜନକ ଜନନୀମତ ଜଗଦିଦମ || 41 ||

ଦ୍ଵିତୀୟ ଭାଗଃ – ସୌନ୍ଦର୍ୟ ଲହରୀ

ଗତୈ-ର୍ମାଣିକ୍ୟତ୍ଵଂ ଗଗନମଣିଭିଃ ସାନ୍ଦ୍ରଘଟିତଂ
କିରୀଟଂ ତେ ହୈମଂ ହିମଗିରିସୁତେ କୀତୟତି ୟଃ ||
ସ ନୀଡେୟଚ୍ଛାୟା-ଚ୍ଛୁରଣ-ଶକଲଂ ଚନ୍ଦ୍ର-ଶକଲଂ
ଧନୁଃ ଶୌନାସୀରଂ କିମିତି ନ ନିବଧ୍ନାତି ଧିଷଣାମ || 42 ||

ଧୁନୋତୁ ଧ୍ଵାନ୍ତଂ ନ-ସ୍ତୁଲିତ-ଦଲିତେନ୍ଦୀଵର-ଵନଂ
ଘନସ୍ନିଗ୍ଧ-ଶ୍ଲକ୍ଷ୍ଣଂ ଚିକୁର ନିକୁରୁଂବଂ ତଵ ଶିଵେ |
ୟଦୀୟଂ ସୌରଭ୍ୟଂ ସହଜ-ମୁପଲବ୍ଧୁଂ ସୁମନସୋ
ଵସନ୍ତ୍ୟସ୍ମିନ ମନ୍ୟେ ବଲମଥନ ଵାଟୀ-ଵିଟପିନାମ || 43 ||

ତନୋତୁ କ୍ଷେମଂ ନ-ସ୍ତଵ ଵଦନସୌନ୍ଦର୍ୟଲହରୀ
ପରୀଵାହସ୍ରୋତଃ-ସରଣିରିଵ ସୀମନ୍ତସରଣିଃ|
ଵହନ୍ତୀ- ସିନ୍ଦୂରଂ ପ୍ରବଲକବରୀ-ଭାର-ତିମିର
ଦ୍ଵିଷାଂ ବୃନ୍ଦୈ-ର୍ଵନ୍ଦୀକୃତମେଵ ନଵୀନାର୍କ କେରଣମ || 44 ||

ଅରାଲୈ ସ୍ଵାଭାଵ୍ୟା-ଦଲିକଲଭ-ସଶ୍ରୀଭି ରଲକୈଃ
ପରୀତଂ ତେ ଵକ୍ତ୍ରଂ ପରିହସତି ପଙ୍କେରୁହରୁଚିମ |
ଦରସ୍ମେରେ ୟସ୍ମିନ ଦଶନରୁଚି କିଞ୍ଜଲ୍କ-ରୁଚିରେ
ସୁଗନ୍ଧୌ ମାଦ୍ୟନ୍ତି ସ୍ମରଦହନ ଚକ୍ଷୁ-ର୍ମଧୁଲିହଃ || 45 ||

ଲଲାଟଂ ଲାଵଣ୍ୟ ଦ୍ୟୁତି ଵିମଲ-ମାଭାତି ତଵ ୟତ
ଦ୍ଵିତୀୟଂ ତନ୍ମନ୍ୟେ ମକୁଟଘଟିତଂ ଚନ୍ଦ୍ରଶକଲମ |
ଵିପର୍ୟାସ-ନ୍ୟାସା ଦୁଭୟମପି ସଂଭୂୟ ଚ ମିଥଃ
ସୁଧାଲେପସ୍ୟୂତିଃ ପରିଣମତି ରାକା-ହିମକରଃ || 46 ||

ଭ୍ରୁଵୌ ଭୁଗ୍ନେ କିଂଚିଦ୍ଭୁଵନ-ଭୟ-ଭଙ୍ଗଵ୍ୟସନିନି
ତ୍ଵଦୀୟେ ନେତ୍ରାଭ୍ୟାଂ ମଧୁକର-ରୁଚିଭ୍ୟାଂ ଧୃତଗୁଣମ |
ଧନୁ ର୍ମନ୍ୟେ ସଵ୍ୟେତରକର ଗୃହୀତଂ ରତିପତେଃ
ପ୍ରକୋଷ୍ଟେ ମୁଷ୍ଟୌ ଚ ସ୍ଥଗୟତେ ନିଗୂଢାନ୍ତର-ମୁମେ || 47 ||

ଅହଃ ସୂତେ ସଵ୍ୟ ତଵ ନୟନ-ମର୍କାତ୍ମକତୟା
ତ୍ରିୟାମାଂ ଵାମଂ ତେ ସୃଜତି ରଜନୀନାୟକତୟା |
ତୃତୀୟା ତେ ଦୃଷ୍ଟି-ର୍ଦରଦଲିତ-ହେମାମ୍ବୁଜ-ରୁଚିଃ
ସମାଧତ୍ତେ ସନ୍ଧ୍ୟାଂ ଦିଵସର-ନିଶୟୋ-ରନ୍ତରଚରୀମ || 48 ||

ଵିଶାଲା କଲ୍ୟାଣୀ ସ୍ଫୁତରୁଚି-ରୟୋଧ୍ୟା କୁଵଲୟୈଃ
କୃପାଧାରାଧାରା କିମପି ମଧୁରା‌உଭୋଗଵତିକା |
ଅଵନ୍ତୀ ଦୃଷ୍ଟିସ୍ତେ ବହୁନଗର-ଵିସ୍ତାର-ଵିଜୟା
ଧ୍ରୁଵଂ ତତ୍ତନ୍ନାମ-ଵ୍ୟଵହରଣ-ୟୋଗ୍ୟାଵିଜୟତେ || 49 ||

କଵୀନାଂ ସନ୍ଦର୍ଭ-ସ୍ତବକ-ମକରନ୍ଦୈକ-ରସିକଂ
କଟାକ୍ଷ-ଵ୍ୟାକ୍ଷେପ-ଭ୍ରମରକଲଭୌ କର୍ଣୟୁଗଲମ |
ଅମୁଞ୍ଚ୍ନ୍ତୌ ଦୃଷ୍ଟ୍ଵା ତଵ ନଵରସାସ୍ଵାଦ-ତରଲୌ
ଅସୂୟା-ସଂସର୍ଗା-ଦଲିକନୟନଂ କିଞ୍ଚିଦରୁଣମ || 50 ||

ଶିଵେ ଶଙ୍ଗାରାର୍ଦ୍ରା ତଦିତରଜନେ କୁତ୍ସନପରା
ସରୋଷା ଗଙ୍ଗାୟାଂ ଗିରିଶଚରିତେ ଵିସ୍ମୟଵତୀ |
ହରାହିଭ୍ୟୋ ଭୀତା ସରସିରୁହ ସୌଭାଗ୍ୟ-ଜନନୀ
ସଖୀଷୁ ସ୍ମେରା ତେ ମୟି ଜନନି ଦୃଷ୍ଟିଃ ସକରୁଣା || 51 ||

ଗତେ କର୍ଣାଭ୍ୟର୍ଣଂ ଗରୁତ ଇଵ ପକ୍ଷ୍ମାଣି ଦଧତୀ
ପୁରାଂ ଭେତ୍ତୁ-ଶ୍ଚିତ୍ତପ୍ରଶମ-ରସ-ଵିଦ୍ରାଵଣ ଫଲେ |
ଇମେ ନେତ୍ରେ ଗୋତ୍ରାଧରପତି-କୁଲୋତ୍ତଂସ-କଲିକେ
ତଵାକର୍ଣାକୃଷ୍ଟ ସ୍ମରଶର-ଵିଲାସଂ କଲୟତଃ|| 52 ||

ଵିଭକ୍ତ-ତ୍ରୈଵର୍ଣ୍ୟଂ ଵ୍ୟତିକରିତ-ଲୀଲାଞ୍ଜନତୟା
ଵିଭାତି ତ୍ଵନ୍ନେତ୍ର ତ୍ରିତୟ ମିଦ-ମୀଶାନଦୟିତେ |
ପୁନଃ ସ୍ରଷ୍ଟୁଂ ଦେଵାନ ଦ୍ରୁହିଣ ହରି-ରୁଦ୍ରାନୁପରତାନ
ରଜଃ ସତ୍ଵଂ ଵେଭ୍ରତ ତମ ଇତି ଗୁଣାନାଂ ତ୍ରୟମିଵ || 53 ||

ପଵିତ୍ରୀକର୍ତୁଂ ନଃ ପଶୁପତି-ପରାଧୀନ-ହୃଦୟେ
ଦୟାମିତ୍ରୈ ର୍ନେତ୍ରୈ-ରରୁଣ-ଧଵଲ-ଶ୍ୟାମ ରୁଚିଭିଃ |
ନଦଃ ଶୋଣୋ ଗଙ୍ଗା ତପନତନୟେତି ଧ୍ରୁଵମୁମ
ତ୍ରୟାଣାଂ ତୀର୍ଥାନା-ମୁପନୟସି ସଂଭେଦ-ମନଘମ || 54 ||

ନିମେଷୋନ୍ମେଷାଭ୍ୟାଂ ପ୍ରଲୟମୁଦୟଂ ୟାତି ଜଗତି
ତଵେତ୍ୟାହୁଃ ସନ୍ତୋ ଧରଣିଧର-ରାଜନ୍ୟତନୟେ |
ତ୍ଵଦୁନ୍ମେଷାଜ୍ଜାତଂ ଜଗଦିଦ-ମଶେଷଂ ପ୍ରଲୟତଃ
ପରେତ୍ରାତୁଂ ଶଂଙ୍କେ ପରିହୃତ-ନିମେଷା-ସ୍ତଵ ଦୃଶଃ || 55 ||

ତଵାପର୍ଣେ କର୍ଣେ ଜପନୟନ ପୈଶୁନ୍ୟ ଚକିତା
ନିଲୀୟନ୍ତେ ତୋୟେ ନିୟତ ମନିମେଷାଃ ଶଫରିକାଃ |
ଇୟଂ ଚ ଶ୍ରୀ-ର୍ବଦ୍ଧଚ୍ଛଦପୁଟକଵାଟଂ କୁଵଲୟଂ
ଜହାତି ପ୍ରତ୍ୟୂଷେ ନିଶି ଚ ଵିଘତୟ୍ୟ ପ୍ରଵିଶତି|| 56 ||

ଦୃଶା ଦ୍ରାଘୀୟସ୍ୟା ଦରଦଲିତ ନୀଲୋତ୍ପଲ ରୁଚା
ଦଵୀୟାଂସଂ ଦୀନଂ ସ୍ନପା କୃପୟା ମାମପି ଶିଵେ |
ଅନେନାୟଂ ଧନ୍ୟୋ ଭଵତି ନ ଚ ତେ ହାନିରିୟତା
ଵନେ ଵା ହର୍ମ୍ୟେ ଵା ସମକର ନିପାତୋ ହିମକରଃ || 57 ||

ଅରାଲଂ ତେ ପାଲୀୟୁଗଲ-ମଗରାଜନ୍ୟତନୟେ
ନ କେଷା-ମାଧତ୍ତେ କୁସୁମଶର କୋଦଣ୍ଡ-କୁତୁକମ |
ତିରଶ୍ଚୀନୋ ୟତ୍ର ଶ୍ରଵଣପଥ-ମୁଲ୍ଲ୍ଙ୍ୟ୍ୟ ଵିଲସନ
ଅପାଂଗ ଵ୍ୟାସଂଗୋ ଦିଶତି ଶରସନ୍ଧାନ ଧିଷଣାମ || 58 ||

ସ୍ଫୁରଦ୍ଗଣ୍ଡାଭୋଗ-ପ୍ରତିଫଲିତ ତାଟ୍ଙ୍କ ୟୁଗଲଂ
ଚତୁଶ୍ଚକ୍ରଂ ମନ୍ୟେ ତଵ ମୁଖମିଦଂ ମନ୍ମଥରଥମ |
ୟମାରୁହ୍ୟ ଦ୍ରୁହ୍ୟ ତ୍ୟଵନିରଥ ମର୍କେନ୍ଦୁଚରଣଂ
ମହାଵୀରୋ ମାରଃ ପ୍ରମଥପତୟେ ସଜ୍ଜିତଵତେ || 59 ||

ସରସ୍ଵତ୍ୟାଃ ସୂକ୍ତୀ-ରମୃତଲହରୀ କୌଶଲହରୀଃ
ପିବ୍ନତ୍ୟାଃ ଶର୍ଵାଣି ଶ୍ରଵଣ-ଚୁଲୁକାଭ୍ୟା-ମଵିରଲମ |
ଚମତ୍କାରଃ-ଶ୍ଲାଘାଚଲିତ-ଶିରସଃ କୁଣ୍ଡଲଗଣୋ
ଝଣତ୍କରୈସ୍ତାରୈଃ ପ୍ରତିଵଚନ-ମାଚଷ୍ଟ ଇଵ ତେ || 60 ||

ଅସୌ ନାସାଵଂଶ-ସ୍ତୁହିନଗିରିଵଣ୍ଶ-ଧ୍ଵଜପଟି
ତ୍ଵଦୀୟୋ ନେଦୀୟଃ ଫଲତୁ ଫଲ-ମସ୍ମାକମୁଚିତମ |
ଵହତ୍ୟନ୍ତର୍ମୁକ୍ତାଃ ଶିଶିରକର-ନିଶ୍ଵାସ-ଗଲିତଂ
ସମୃଦ୍ଧ୍ୟା ୟତ୍ତାସାଂ ବହିରପି ଚ ମୁକ୍ତାମଣିଧରଃ || 61 ||

ପ୍ରକୃତ୍ୟା‌உରକ୍ତାୟା-ସ୍ତଵ ସୁଦତି ଦନ୍ଦଚ୍ଛଦରୁଚେଃ
ପ୍ରଵକ୍ଷ୍ୟେ ସଦୃଶ୍ୟଂ ଜନୟତୁ ଫଲଂ ଵିଦ୍ରୁମଲତା |
ନ ବିଂବଂ ତଦ୍ବିଂବ-ପ୍ରତିଫଲନ-ରାଗା-ଦରୁଣିତଂ
ତୁଲାମଧ୍ରାରୋଢୁଂ କଥମିଵ ଵିଲଜ୍ଜେତ କଲୟା || 62 ||

ସ୍ମିତଜ୍ୟୋତ୍ସ୍ନାଜାଲଂ ତଵ ଵଦନଚନ୍ଦ୍ରସ୍ୟ ପିବତାଂ
ଚକୋରାଣା-ମାସୀ-ଦତିରସତୟା ଚଞ୍ଚୁ-ଜଡିମା |
ଅତସ୍ତେ ଶୀତାଂଶୋ-ରମୃତଲହରୀ ମାମ୍ଲରୁଚୟଃ
ପିବନ୍ତୀ ସ୍ଵଚ୍ଛନ୍ଦଂ ନିଶି ନିଶି ଭୃଶଂ କାଞ୍ଜି କଧିୟା || 63 ||

ଅଵିଶ୍ରାନ୍ତଂ ପତ୍ୟୁର୍ଗୁଣଗଣ କଥାମ୍ରେଡନଜପା
ଜପାପୁଷ୍ପଚ୍ଛାୟା ତଵ ଜନନି ଜିହ୍ଵା ଜୟତି ସା |
ୟଦଗ୍ରାସୀନାୟାଃ ସ୍ଫଟିକଦୃଷ-ଦଚ୍ଛଚ୍ଛଵିମୟି
ସରସ୍ଵତ୍ୟା ମୂର୍ତିଃ ପରିଣମତି ମାଣିକ୍ୟଵପୁଷା || 64 ||

ରଣେ ଜିତ୍ଵା ଦୈତ୍ୟା ନପହୃତ-ଶିରସ୍ତ୍ରୈଃ କଵଚିଭିଃ
ନିଵୃତ୍ତୈ-ଶ୍ଚଣ୍ଡାଂଶ-ତ୍ରିପୁରହର-ନିର୍ମାଲ୍ୟ-ଵିମୁଖୈଃ |
ଵିଶାଖେନ୍ଦ୍ରୋପେନ୍ଦ୍ରୈଃ ଶଶିଵିଶଦ-କର୍ପୂରଶକଲା
ଵିଲୀୟନ୍ତେ ମାତସ୍ତଵ ଵଦନତାମ୍ବୂଲ-କବଲାଃ || 65 ||

ଵିପଞ୍ଚ୍ୟା ଗାୟନ୍ତୀ ଵିଵିଧ-ମପଦାନଂ ପଶୁପତେ-
ସ୍ତ୍ଵୟାରବ୍ଧେ ଵକ୍ତୁଂ ଚଲିତଶିରସା ସାଧୁଵଚନେ |
ତଦୀୟୈ-ର୍ମାଧୁର୍ୟୈ-ରପଲପିତ-ତନ୍ତ୍ରୀକଲରଵାଂ
ନିଜାଂ ଵୀଣାଂ ଵାଣୀଂ ନିଚୁଲୟତି ଚୋଲେନ ନିଭୃତମ || 66 ||

କରଗ୍ରେଣ ସ୍ପୃଷ୍ଟଂ ତୁହିନଗିରିଣା ଵତ୍ସଲତୟା
ଗିରିଶେନୋ-ଦସ୍ତଂ ମୁହୁରଧରପାନାକୁଲତୟା |
କରଗ୍ରାହ୍ୟଂ ଶଂଭୋର୍ମୁଖମୁକୁରଵୃନ୍ତଂ ଗିରିସୁତେ
କଥଂକରଂ ବ୍ରୂମ-ସ୍ତଵ ଚୁବୁକମୋପମ୍ୟରହିତମ || 67 ||

ଭୁଜାଶ୍ଲେଷାନ୍ନିତ୍ୟଂ ପୁରଦମୟିତୁଃ କନ୍ଟକଵତୀ
ତଵ ଗ୍ରୀଵା ଧତ୍ତେ ମୁଖକମଲନାଲ-ଶ୍ରିୟମିୟମ |
ସ୍ଵତଃ ଶ୍ଵେତା କାଲା ଗରୁ ବହୁଲ-ଜମ୍ବାଲମଲିନା
ମୃଣାଲୀଲାଲିତ୍ୟଂ ଵହତି ୟଦଧୋ ହାରଲତିକା || 68 ||

ଗଲେ ରେଖାସ୍ତିସ୍ରୋ ଗତି ଗମକ ଗୀତୈକ ନିପୁଣେ
ଵିଵାହ-ଵ୍ୟାନଦ୍ଧ-ପ୍ରଗୁଣଗୁଣ-ସଂଖ୍ୟା ପ୍ରତିଭୁଵଃ |
ଵିରାଜନ୍ତେ ନାନାଵିଧ-ମଧୁର-ରାଗାକର-ଭୁଵାଂ
ତ୍ରୟାଣାଂ ଗ୍ରାମାଣାଂ ସ୍ଥିତି-ନିୟମ-ସୀମାନ ଇଵ ତେ || 69 ||

ମୃଣାଲୀ-ମୃଦ୍ଵୀନାଂ ତଵ ଭୁଜଲତାନାଂ ଚତସୃଣାଂ
ଚତୁର୍ଭିଃ ସୌନ୍ଦ୍ରୟଂ ସରସିଜଭଵଃ ସ୍ତୌତି ଵଦନୈଃ |
ନଖେଭ୍ୟଃ ସନ୍ତ୍ରସ୍ୟନ ପ୍ରଥମ-ମଥନା ଦନ୍ତକରିପୋଃ
ଚତୁର୍ଣାଂ ଶୀର୍ଷାଣାଂ ସମ-ମଭୟହସ୍ତାର୍ପଣ-ଧିୟା || 70 ||

ନଖାନା-ମୁଦ୍ୟୋତୈ-ର୍ନଵନଲିନରାଗଂ ଵିହସତାଂ
କରାଣାଂ ତେ କାନ୍ତିଂ କଥୟ କଥୟାମଃ କଥମୁମେ |
କୟାଚିଦ୍ଵା ସାମ୍ୟଂ ଭଜତୁ କଲୟା ହନ୍ତ କମଲଂ
ୟଦି କ୍ରୀଡଲ୍ଲକ୍ଷ୍ମୀ-ଚରଣତଲ-ଲାକ୍ଷାରସ-ଚଣମ || 71 ||

ସମଂ ଦେଵି ସ୍କନ୍ଦ ଦ୍ଵିପିଵଦନ ପୀତଂ ସ୍ତନୟୁଗଂ
ତଵେଦଂ ନଃ ଖେଦଂ ହରତୁ ସତତଂ ପ୍ରସ୍ନୁତ-ମୁଖମ |
ୟଦାଲୋକ୍ୟାଶଙ୍କାକୁଲିତ ହୃଦୟୋ ହାସଜନକଃ
ସ୍ଵକୁମ୍ଭୌ ହେରଂବଃ ପରିମୃଶତି ହସ୍ତେନ ଝଡିତି || 72 ||

ଅମୂ ତେ ଵକ୍ଷୋଜା-ଵମୃତରସ-ମାଣିକ୍ୟ କୁତୁପୌ
ନ ସନ୍ଦେହସ୍ପନ୍ଦୋ ନଗପତି ପତାକେ ମନସି ନଃ |
ପିବନ୍ତୌ ତୌ ୟସ୍ମା ଦଵିଦିତ ଵଧୂସଙ୍ଗ ରସିକୌ
କୁମାରାଵଦ୍ୟାପି ଦ୍ଵିରଦଵଦନ-କ୍ରୌଞ୍ଚ୍ଦଲନୌ || 73 ||

ଵହତ୍ୟମ୍ବ ସ୍ତ୍ମ୍ବେରମ-ଦନୁଜ-କୁଂଭପ୍ରକୃତିଭିଃ
ସମାରବ୍ଧାଂ ମୁକ୍ତାମଣିଭିରମଲାଂ ହାରଲତିକାମ |
କୁଚାଭୋଗୋ ବିମ୍ବାଧର-ରୁଚିଭି-ରନ୍ତଃ ଶବଲିତାଂ
ପ୍ରତାପ-ଵ୍ୟାମିଶ୍ରାଂ ପୁରଦମୟିତୁଃ କୀର୍ତିମିଵ ତେ || 74 ||

ତଵ ସ୍ତନ୍ୟଂ ମନ୍ୟେ ଧରଣିଧରକନ୍ୟେ ହୃଦୟତଃ
ପୟଃ ପାରାଵାରଃ ପରିଵହତି ସାରସ୍ଵତମିଵ |
ଦୟାଵତ୍ୟା ଦତ୍ତଂ ଦ୍ରଵିଡଶିଶୁ-ରାସ୍ଵାଦ୍ୟ ତଵ ୟତ
କଵୀନାଂ ପ୍ରୌଢାନା ମଜନି କମନୀୟଃ କଵୟିତା || 75 ||

ହରକ୍ରୋଧ-ଜ୍ଵାଲାଵଲିଭି-ରଵଲୀଢେନ ଵପୁଷା
ଗଭୀରେ ତେ ନାଭୀସରସି କୃତସଙୋ ମନସିଜଃ |
ସମୁତ୍ତସ୍ଥୌ ତସ୍ମା-ଦଚଲତନୟେ ଧୂମଲତିକା
ଜନସ୍ତାଂ ଜାନୀତେ ତଵ ଜନନି ରୋମାଵଲିରିତି || 76 ||

ୟଦେତତ୍କାଲିନ୍ଦୀ-ତନୁତର-ତରଙ୍ଗାକୃତି ଶିଵେ
କୃଶେ ମଧ୍ୟେ କିଞ୍ଚିଜ୍ଜନନି ତଵ ୟଦ୍ଭାତି ସୁଧିୟାମ |
ଵିମର୍ଦା-ଦନ୍ୟୋନ୍ୟଂ କୁଚକଲଶୟୋ-ରନ୍ତରଗତଂ
ତନୂଭୂତଂ ଵ୍ୟୋମ ପ୍ରଵିଶଦିଵ ନାଭିଂ କୁହରିଣୀମ || 77 ||

ସ୍ଥିରୋ ଗଙ୍ଗା ଵର୍ତଃ ସ୍ତନମୁକୁଲ-ରୋମାଵଲି-ଲତା
କଲାଵାଲଂ କୁଣ୍ଡଂ କୁସୁମଶର ତେଜୋ-ହୁତଭୁଜଃ |
ରତେ-ର୍ଲୀଲାଗାରଂ କିମପି ତଵ ନାଭିର୍ଗିରିସୁତେ
ବେଲଦ୍ଵାରଂ ସିଦ୍ଧେ-ର୍ଗିରିଶନୟନାନାଂ ଵିଜୟତେ || 78 ||

ନିସର୍ଗ-କ୍ଷୀଣସ୍ୟ ସ୍ତନତଟ-ଭରେଣ କ୍ଲମଜୁଷୋ
ନମନ୍ମୂର୍ତେ ର୍ନାରୀତିଲକ ଶନକୈ-ସ୍ତ୍ରୁଟ୍ୟତ ଇଵ |
ଚିରଂ ତେ ମଧ୍ୟସ୍ୟ ତ୍ରୁଟିତ ତଟିନୀ-ତୀର-ତରୁଣା
ସମାଵସ୍ଥା-ସ୍ଥେମ୍ନୋ ଭଵତୁ କୁଶଲଂ ଶୈଲତନୟେ || 79 ||

କୁଚୌ ସଦ୍ୟଃ ସ୍ଵିଦ୍ୟ-ତ୍ତଟଘଟିତ-କୂର୍ପାସଭିଦୁରୌ
କଷନ୍ତୌ-ଦୌର୍ମୂଲେ କନକକଲଶାଭୌ କଲୟତା |
ତଵ ତ୍ରାତୁଂ ଭଙ୍ଗାଦଲମିତି ଵଲଗ୍ନଂ ତନୁଭୁଵା
ତ୍ରିଧା ନଦ୍ଧ୍ମ ଦେଵୀ ତ୍ରିଵଲି ଲଵଲୀଵଲ୍ଲିଭିରିଵ || 80 ||

ଗୁରୁତ୍ଵଂ ଵିସ୍ତାରଂ କ୍ଷିତିଧରପତିଃ ପାର୍ଵତି ନିଜାତ
ନିତମ୍ବା-ଦାଚ୍ଛିଦ୍ୟ ତ୍ଵୟି ହରଣ ରୂପେଣ ନିଦଧେ |
ଅତସ୍ତେ ଵିସ୍ତୀର୍ଣୋ ଗୁରୁରୟମଶେଷାଂ ଵସୁମତୀଂ
ନିତମ୍ବ-ପ୍ରାଗ୍ଭାରଃ ସ୍ଥଗୟତି ସଘୁତ୍ଵଂ ନୟତି ଚ || 81 ||

କରୀନ୍ଦ୍ରାଣାଂ ଶୁଣ୍ଡାନ-କନକକଦଲୀ-କାଣ୍ଡପଟଲୀଂ
ଉଭାଭ୍ୟାମୂରୁଭ୍ୟା-ମୁଭୟମପି ନିର୍ଜିତ୍ୟ ଭଵତି |
ସୁଵୃତ୍ତାଭ୍ୟାଂ ପତ୍ୟୁଃ ପ୍ରଣତିକଠିନାଭ୍ୟାଂ ଗିରିସୁତେ
ଵିଧିଜ୍ଞେ ଜାନୁଭ୍ୟାଂ ଵିବୁଧ କରିକୁଂଭ ଦ୍ଵୟମସି || 82 ||

ପରାଜେତୁଂ ରୁଦ୍ରଂ ଦ୍ଵିଗୁଣଶରଗର୍ଭୌ ଗିରିସୁତେ
ନିଷଙ୍ଗୌ ଜଙ୍ଘେ ତେ ଵିଷମଵିଶିଖୋ ବାଢ-ମକୃତ |
ୟଦଗ୍ରେ ଦୃସ୍ୟନ୍ତେ ଦଶଶରଫଲାଃ ପାଦୟୁଗଲୀ
ନଖାଗ୍ରଚ୍ଛନ୍ମାନଃ ସୁର ମୁକୁଟ-ଶାଣୈକ-ନିଶିତାଃ || 83 ||

ଶ୍ରୁତୀନାଂ ମୂର୍ଧାନୋ ଦଧତି ତଵ ୟୌ ଶେଖରତୟା
ମମାପ୍ୟେତୌ ମାତଃ ଶେରସି ଦୟୟା ଦେହି ଚରଣୌ |
ୟୟ‌ଓଃ ପାଦ୍ୟଂ ପାଥଃ ପଶୁପତି ଜଟାଜୂଟ ତଟିନୀ
ୟୟୋ-ର୍ଲାକ୍ଷା-ଲକ୍ଷ୍ମୀ-ରରୁଣ ହରିଚୂଡାମଣି ରୁଚିଃ || 84 ||

ନମୋ ଵାକଂ ବ୍ରୂମୋ ନୟନ-ରମଣୀୟାୟ ପଦୟୋଃ
ତଵାସ୍ମୈ ଦ୍ଵନ୍ଦ୍ଵାୟ ସ୍ଫୁଟ-ରୁଚି ରସାଲକ୍ତକଵତେ |
ଅସୂୟତ୍ୟତ୍ୟନ୍ତଂ ୟଦଭିହନନାୟ ସ୍ପୃହୟତେ
ପଶୂନା-ମୀଶାନଃ ପ୍ରମଦଵନ-କଙ୍କେଲିତରଵେ || 85 ||

ମୃଷା କୃତ୍ଵା ଗୋତ୍ରସ୍ଖଲନ-ମଥ ଵୈଲକ୍ଷ୍ୟନମିତଂ
ଲଲାଟେ ଭର୍ତାରଂ ଚରଣକମଲେ ତାଡୟତି ତେ |
ଚିରାଦନ୍ତଃ ଶଲ୍ୟଂ ଦହନକୃତ ମୁନ୍ମୂଲିତଵତା
ତୁଲାକୋଟିକ୍ଵାଣୈଃ କିଲିକିଲିତ ମୀଶାନ ରିପୁଣା || 86 ||

ହିମାନୀ ହନ୍ତଵ୍ୟଂ ହିମଗିରିନିଵାସୈକ-ଚତୁରୌ
ନିଶାୟାଂ ନିଦ୍ରାଣଂ ନିଶି-ଚରମଭାଗେ ଚ ଵିଶଦୌ |
ଵରଂ ଲକ୍ଷ୍ମୀପାତ୍ରଂ ଶ୍ରିୟ-ମତିସୃହନ୍ତୋ ସମୟିନାଂ
ସରୋଜଂ ତ୍ଵତ୍ପାଦୌ ଜନନି ଜୟତ-ଶ୍ଚିତ୍ରମିହ କିମ || 87 ||

ପଦଂ ତେ କୀର୍ତୀନାଂ ପ୍ରପଦମପଦଂ ଦେଵି ଵିପଦାଂ
କଥଂ ନୀତଂ ସଦ୍ଭିଃ କଠିନ-କମଠୀ-କର୍ପର-ତୁଲାମ |
କଥଂ ଵା ବାହୁଭ୍ୟା-ମୁପୟମନକାଲେ ପୁରଭିଦା
ୟଦାଦାୟ ନ୍ୟସ୍ତଂ ଦୃଷଦି ଦୟମାନେନ ମନସା || 88 ||

ନଖୈ-ର୍ନାକସ୍ତ୍ରୀଣାଂ କରକମଲ-ସଂକୋଚ-ଶଶିଭିଃ
ତରୂଣାଂ ଦିଵ୍ୟାନାଂ ହସତ ଇଵ ତେ ଚଣ୍ଡି ଚରଣୌ |
ଫଲାନି ସ୍ଵଃସ୍ଥେଭ୍ୟଃ କିସଲୟ-କରାଗ୍ରେଣ ଦଦତାଂ
ଦରିଦ୍ରେଭ୍ୟୋ ଭଦ୍ରାଂ ଶ୍ରିୟମନିଶ-ମହ୍ନାୟ ଦଦତୌ || 89 ||

ଦଦାନେ ଦୀନେଭ୍ୟଃ ଶ୍ରିୟମନିଶ-ମାଶାନୁସଦୃଶୀଂ
ଅମନ୍ଦଂ ସୌନ୍ଦର୍ୟଂ ପ୍ରକର-ମକରନ୍ଦଂ ଵିକିରତି |
ତଵାସ୍ମିନ ମନ୍ଦାର-ସ୍ତବକ-ସୁଭଗେ ୟାତୁ ଚରଣେ
ନିମଜ୍ଜନ ମଜ୍ଜୀଵଃ କରଣଚରଣଃ ଷ୍ଟ୍ଚରଣତାମ || 90 ||

ପଦନ୍ୟାସ-କ୍ରୀଡା ପରିଚୟ-ମିଵାରବ୍ଧୁ-ମନସଃ
ସ୍ଖଲନ୍ତସ୍ତେ ଖେଲଂ ଭଵନକଲହଂସା ନ ଜହତି |
ଅତସ୍ତେଷାଂ ଶିକ୍ଷାଂ ସୁଭଗମଣି-ମଞ୍ଜୀର-ରଣିତ-
ଚ୍ଛଲାଦାଚକ୍ଷାଣଂ ଚରଣକମଲଂ ଚାରୁଚରିତେ || 91 ||

ଗତାସ୍ତେ ମଞ୍ଚତ୍ଵଂ ଦ୍ରୁହିଣ ହରି ରୁଦ୍ରେଶ୍ଵର ଭୃତଃ
ଶିଵଃ ସ୍ଵଚ୍ଛ-ଚ୍ଛାୟା-ଘଟିତ-କପଟ-ପ୍ରଚ୍ଛଦପଟଃ |
ତ୍ଵଦୀୟାନାଂ ଭାସାଂ ପ୍ରତିଫଲନ ରାଗାରୁଣତୟା
ଶରୀରୀ ଶୃଙ୍ଗାରୋ ରସ ଇଵ ଦୃଶାଂ ଦୋଗ୍ଧି କୁତୁକମ || 92 ||

ଅରାଲା କେଶେଷୁ ପ୍ରକୃତି ସରଲା ମନ୍ଦହସିତେ
ଶିରୀଷାଭା ଚିତ୍ତେ ଦୃଷଦୁପଲଶୋଭା କୁଚତଟେ |
ଭୃଶଂ ତନ୍ଵୀ ମଧ୍ୟେ ପୃଥୁ-ରୁରସିଜାରୋହ ଵିଷୟେ
ଜଗତ୍ତ୍ରତୁଂ ଶଂଭୋ-ର୍ଜୟତି କରୁଣା କାଚିଦରୁଣା || 93 ||

କଲଙ୍କଃ କସ୍ତୂରୀ ରଜନିକର ବିମ୍ବଂ ଜଲମୟଂ
କଲାଭିଃ କର୍ପୂରୈ-ର୍ମରକତକରଣ୍ଡଂ ନିବିଡିତମ |
ଅତସ୍ତ୍ଵଦ୍ଭୋଗେନ ପ୍ରତିଦିନମିଦଂ ରିକ୍ତକୁହରଂ
ଵିଧି-ର୍ଭୂୟୋ ଭୂୟୋ ନିବିଡୟତି ନୂନଂ ତଵ କୃତେ || 94 ||

ପୁରାରନ୍ତେ-ରନ୍ତଃ ପୁରମସି ତତ-ସ୍ତ୍ଵଚରଣୟୋଃ
ସପର୍ୟା-ମର୍ୟାଦା ତରଲକରଣାନା-ମସୁଲଭା |
ତଥା ହ୍ୟେତେ ନୀତାଃ ଶତମଖମୁଖାଃ ସିଦ୍ଧିମତୁଲାଂ
ତଵ ଦ୍ଵାରୋପାନ୍ତଃ ସ୍ଥିତିଭି-ରଣିମାଦ୍ୟାଭି-ରମରାଃ || 95 ||

କଲତ୍ରଂ ଵୈଧାତ୍ରଂ କତିକତି ଭଜନ୍ତେ ନ କଵୟଃ
ଶ୍ରିୟୋ ଦେଵ୍ୟାଃ କୋ ଵା ନ ଭଵତି ପତିଃ କୈରପି ଧନୈଃ |
ମହାଦେଵଂ ହିତ୍ଵା ତଵ ସତି ସତୀନା-ମଚରମେ
କୁଚଭ୍ୟା-ମାସଙ୍ଗଃ କୁରଵକ-ତରୋ-ରପ୍ୟସୁଲଭଃ || 96 ||

ଗିରାମାହୁ-ର୍ଦେଵୀଂ ଦ୍ରୁହିଣଗୃହିଣୀ-ମାଗମଵିଦୋ
ହରେଃ ପତ୍ନୀଂ ପଦ୍ମାଂ ହରସହଚରୀ-ମଦ୍ରିତନୟାମ |
ତୁରୀୟା କାପି ତ୍ଵଂ ଦୁରଧିଗମ-ନିସ୍ସୀମ-ମହିମା
ମହାମାୟା ଵିଶ୍ଵଂ ଭ୍ରମୟସି ପରବ୍ରହ୍ମମହିଷି || 97 ||

କଦା କାଲେ ମାତଃ କଥୟ କଲିତାଲକ୍ତକରସଂ
ପିବେୟଂ ଵିଦ୍ୟାର୍ଥୀ ତଵ ଚରଣ-ନିର୍ଣେଜନଜଲମ |
ପ୍ରକୃତ୍ୟା ମୂକାନାମପି ଚ କଵିତା0କାରଣତୟା
କଦା ଧତ୍ତେ ଵାଣୀମୁଖକମଲ-ତାମ୍ବୂଲ-ରସତାମ || 98 ||

ସରସ୍ଵତ୍ୟା ଲକ୍ଷ୍ମ୍ୟା ଵିଧି ହରି ସପତ୍ନୋ ଵିହରତେ
ରତେଃ ପତିଵ୍ରତ୍ୟଂ ଶିଥିଲପତି ରମ୍ୟେଣ ଵପୁଷା |
ଚିରଂ ଜୀଵନ୍ନେଵ କ୍ଷପିତ-ପଶୁପାଶ-ଵ୍ୟତିକରଃ
ପରାନନ୍ଦାଭିଖ୍ୟଂ ରସୟତି ରସଂ ତ୍ଵଦ୍ଭଜନଵାନ || 99 ||

ପ୍ରଦୀପ ଜ୍ଵାଲାଭି-ର୍ଦିଵସକର-ନୀରାଜନଵିଧିଃ
ସୁଧାସୂତେ-ଶ୍ଚନ୍ଦ୍ରୋପଲ-ଜଲଲଵୈ-ରଘ୍ୟରଚନା |
ସ୍ଵକୀୟୈରମ୍ଭୋଭିଃ ସଲିଲ-ନିଧି-ସୌହିତ୍ୟକରଣଂ
ତ୍ଵଦୀୟାଭି-ର୍ଵାଗ୍ଭି-ସ୍ତଵ ଜନନି ଵାଚାଂ ସ୍ତୁତିରିୟମ || 100 ||

ସୌନ୍ଦୟଲହରି ମୁଖ୍ୟସ୍ତୋତ୍ରଂ ସଂଵାର୍ତଦାୟକମ |
ଭଗଵଦ୍ପାଦ ସନ୍କ୍ଲୁପ୍ତଂ ପଠେନ ମୁକ୍ତୌ ଭଵେନ୍ନରଃ ||
ସୌନ୍ଦର୍ୟଲହରି ସ୍ତୋତ୍ରଂ ସଂପୂର୍ଣଂ

.


ഭുമൗസ്ഖലിത പാദാനാമ് ഭൂമിരേവാ വലമ്ബനമ് |
ത്വയീ ജാതാ പരാധാനാമ് ത്വമേവ ശരണമ് ശിവേ ||

ശിവഃ ശക്ത്യാ യുക്തോ യദി ഭവതി ശക്തഃ പ്രഭവിതും
ന ചേദേവം ദേവോ ന ഖലു കുശലഃ സ്പന്ദിതുമപി|
അതസ്ത്വാമ് ആരാധ്യാം ഹരി-ഹര-വിരിന്ചാദിഭി രപി
പ്രണന്തും സ്തോതും വാ കഥ-മക്ര്ത പുണ്യഃ പ്രഭവതി|| 1 ||

തനീയാംസും പാംസും തവ ചരണ പങ്കേരുഹ-ഭവം
വിരിംചിഃ സംചിന്വന് വിരചയതി ലോകാ-നവികലമ് |
വഹത്യേനം ശൗരിഃ കഥമപി സഹസ്രേണ ശിരസാം
ഹരഃ സംക്ഷുദ്-യൈനം ഭജതി ഭസിതോദ്ധൂള നവിധിമ്|| 2 ||

അവിദ്യാനാ-മന്ത-സ്തിമിര-മിഹിര ദ്വീപനഗരീ
ജഡാനാം ചൈതന്യ-സ്തബക മകരന്ദ ശ്രുതിഝരീ |
ദരിദ്രാണാം ചിന്താമണി ഗുണനികാ ജന്മജലധൗ
നിമഗ്നാനാം ദംഷ്ട്രാ മുരരിപു വരാഹസ്യ ഭവതി|| 3 ||

ത്വദന്യഃ പാണിഭയാ-മഭയവരദോ ദൈവതഗണഃ
ത്വമേകാ നൈവാസി പ്രകടിത-വരഭീത്യഭിനയാ |
ഭയാത് ത്രാതും ദാതും ഫലമപി ച വാംഛാസമധികം
ശരണ്യേ ലോകാനാം തവ ഹി ചരണാവേവ നിപുണൗ || 4 ||

ഹരിസ്ത്വാമാരധ്യ പ്രണത-ജന-സൗഭാഗ്യ-ജനനീം
പുരാ നാരീ ഭൂത്വാ പുരരിപുമപി ക്ഷോഭ മനയത് |
സ്മരോ‌உപി ത്വാം നത്വാ രതിനയന-ലേഹ്യേന വപുഷാ
മുനീനാമപ്യന്തഃ പ്രഭവതി ഹി മോഹായ മഹതാമ് || 5 ||

ധനുഃ പൗഷ്പം മൗര്വീ മധുകരമയീ പഞ്ച വിശിഖാഃ
വസന്തഃ സാമന്തോ മലയമരു-ദായോധന-രഥഃ |
തഥാപ്യേകഃ സര്വം ഹിമഗിരിസുതേ കാമപി കൃപാം
അപാംഗാത്തേ ലബ്ധ്വാ ജഗദിദ-മനങ്ഗോ വിജയതേ || 6 ||

ക്വണത്കാഞ്ചീ-ദാമാ കരി കലഭ കുംഭ-സ്തനനതാ
പരിക്ഷീണാ മധ്യേ പരിണത ശരച്ചന്ദ്ര-വദനാ |
ധനുര്ബാണാന് പാശം സൃണിമപി ദധാനാ കരതലൈഃ
പുരസ്താ ദാസ്താം നഃ പുരമഥിതു രാഹോ-പുരുഷികാ || 7 ||

സുധാസിന്ധോര്മധ്യേ സുരവിട-പിവാടീ-പരിവൃതേ
മണിദ്വീപേ നീപോ-പവനവതി ചിന്താമണി ഗൃഹേ |
ശിവകാരേ മഞ്ചേ പരമശിവ-പര്യങ്ക നിലയാമ്
ഭജന്തി ത്വാം ധന്യാഃ കതിചന ചിദാനന്ദ-ലഹരീമ് || 8 ||

മഹീം മൂലാധാരേ കമപി മണിപൂരേ ഹുതവഹം
സ്ഥിതം സ്വധിഷ്ടാനേ ഹൃദി മരുത-മാകാശ-മുപരി |
മനോ‌உപി ഭ്രൂമധ്യേ സകലമപി ഭിത്വാ കുലപഥം
സഹസ്രാരേ പദ്മേ സ ഹരഹസി പത്യാ വിഹരസേ || 9 ||

സുധാധാരാസാരൈ-ശ്ചരണയുഗലാന്ത-ര്വിഗലിതൈഃ
പ്രപംചം സിന്ഞ്ന്തീ പുനരപി രസാമ്നായ-മഹസഃ|
അവാപ്യ സ്വാം ഭൂമിം ഭുജഗനിഭ-മധ്യുഷ്ട-വലയം
സ്വമാത്മാനം കൃത്വാ സ്വപിഷി കുലകുണ്ഡേ കുഹരിണി || 10 ||

ചതുര്ഭിഃ ശ്രീകണ്ഠൈഃ ശിവയുവതിഭിഃ പഞ്ചഭിപി
പ്രഭിന്നാഭിഃ ശംഭോര്നവഭിരപി മൂലപ്രകൃതിഭിഃ |
ചതുശ്ചത്വാരിംശദ്-വസുദല-കലാശ്ച്-ത്രിവലയ-
ത്രിരേഖഭിഃ സാര്ധം തവ ശരണകോണാഃ പരിണതാഃ || 11 ||

ത്വദീയം സൗന്ദര്യം തുഹിനഗിരികന്യേ തുലയിതും
കവീന്ദ്രാഃ കല്പന്തേ കഥമപി വിരിഞ്ചി-പ്രഭൃതയഃ |
യദാലോകൗത്സുക്യാ-ദമരലലനാ യാന്തി മനസാ
തപോഭിര്ദുഷ്പ്രാപാമപി ഗിരിശ-സായുജ്യ-പദവീമ് || 12 ||

നരം വര്ഷീയാംസം നയനവിരസം നര്മസു ജഡം
തവാപാംഗാലോകേ പതിത-മനുധാവന്തി ശതശഃ |
ഗലദ്വേണീബന്ധാഃ കുചകലശ-വിസ്ത്രിസ്ത-സിചയാ
ഹടാത് ത്രുട്യത്കാഞ്യോ വിഗലിത-ദുകൂലാ യുവതയഃ || 13 ||

ക്ഷിതൗ ഷട്പഞ്ചാശദ്-ദ്വിസമധിക-പഞ്ചാശ-ദുദകേ
ഹുതശേ ദ്വാഷഷ്ടി-ശ്ചതുരധിക-പഞ്ചാശ-ദനിലേ |
ദിവി ദ്വിഃ ഷട് ത്രിംശന് മനസി ച ചതുഃഷഷ്ടിരിതി യേ
മയൂഖാ-സ്തേഷാ-മപ്യുപരി തവ പാദാംബുജ-യുഗമ് || 14 ||

ശരജ്ജ്യോത്സ്നാ ശുദ്ധാം ശശിയുത-ജടാജൂട-മകുടാം
വര-ത്രാസ-ത്രാണ-സ്ഫടികഘുടികാ-പുസ്തക-കരാമ് |
സകൃന്ന ത്വാ നത്വാ കഥമിവ സതാം സന്നിദധതേ
മധു-ക്ഷീര-ദ്രാക്ഷാ-മധുരിമ-ധുരീണാഃ ഫണിതയഃ || 15 ||

കവീന്ദ്രാണാം ചേതഃ കമലവന-ബാലാതപ-രുചിം
ഭജന്തേ യേ സന്തഃ കതിചിദരുണാമേവ ഭവതീമ് |
വിരിഞ്ചി-പ്രേയസ്യാ-സ്തരുണതര-ശ്രൃങ്ഗര ലഹരീ-
ഗഭീരാഭി-ര്വാഗ്ഭിഃ ര്വിദധതി സതാം രഞ്ജനമമീ || 16 ||

സവിത്രീഭി-ര്വാചാം ചശി-മണി ശിലാ-ഭങ്ഗ രുചിഭി-
ര്വശിന്യദ്യാഭി-സ്ത്വാം സഹ ജനനി സംചിന്തയതി യഃ |
സ കര്താ കാവ്യാനാം ഭവതി മഹതാം ഭങ്ഗിരുചിഭി-
ര്വചോഭി-ര്വാഗ്ദേവീ-വദന-കമലാമോദ മധുരൈഃ || 17 ||

തനുച്ഛായാഭിസ്തേ തരുണ-തരണി-ശ്രീസരണിഭി-
ര്ദിവം സര്വാ-മുര്വീ-മരുണിമനി മഗ്നാം സ്മരതി യഃ |
ഭവന്ത്യസ്യ ത്രസ്യ-ദ്വനഹരിണ-ശാലീന-നയനാഃ
സഹോര്വശ്യാ വശ്യാഃ കതി കതി ന ഗീര്വാണ-ഗണികാഃ || 18 ||

മുഖം ബിന്ദും കൃത്വാ കുചയുഗമധ-സ്തസ്യ തദധോ
ഹരാര്ധം ധ്യായേദ്യോ ഹരമഹിഷി തേ മന്മഥകലാമ് |
സ സദ്യഃ സംക്ഷോഭം നയതി വനിതാ ഇത്യതിലഘു
ത്രിലോകീമപ്യാശു ഭ്രമയതി രവീന്ദു-സ്തനയുഗാമ് || 19 ||

കിരന്തീ-മങ്ഗേഭ്യഃ കിരണ-നികുരുമ്ബമൃതരസം
ഹൃദി ത്വാ മാധത്തേ ഹിമകരശിലാ-മൂര്തിമിവ യഃ |
സ സര്പാണാം ദര്പം ശമയതി ശകുന്തധിപ ഇവ
ജ്വരപ്ലുഷ്ടാന് ദൃഷ്ട്യാ സുഖയതി സുധാധാരസിരയാ || 20 ||

തടില്ലേഖാ-തന്വീം തപന ശശി വൈശ്വാനര മയീം
നിഷ്ണ്ണാം ഷണ്ണാമപ്യുപരി കമലാനാം തവ കലാമ് |
മഹാപദ്മാതവ്യാം മൃദിത-മലമായേന മനസാ
മഹാന്തഃ പശ്യന്തോ ദധതി പരമാഹ്ലാദ-ലഹരീമ് || 21 ||

ഭവാനി ത്വം ദാസേ മയി വിതര ദൃഷ്ടിം സകരുണാം
ഇതി സ്തോതും വാഞ്ഛന് കഥയതി ഭവാനി ത്വമിതി യഃ |
തദൈവ ത്വം തസ്മൈ ദിശസി നിജസായുജ്യ-പദവീം
മുകുന്ദ-ബ്രമ്ഹേന്ദ്ര സ്ഫുട മകുട നീരാജിതപദാമ് || 22 ||

ത്വയാ ഹൃത്വാ വാമം വപു-രപരിതൃപ്തേന മനസാ
ശരീരാര്ധം ശമ്ഭോ-രപരമപി ശങ്കേ ഹൃതമഭൂത് |
യദേതത് ത്വദ്രൂപം സകലമരുണാഭം ത്രിനയനം
കുചാഭ്യാമാനമ്രം കുടില-ശശിചൂഡാല-മകുടമ് || 23 ||

ജഗത്സൂതേ ധാതാ ഹരിരവതി രുദ്രഃ ക്ഷപയതേ
തിരസ്കുര്വ-ന്നേതത് സ്വമപി വപു-രീശ-സ്തിരയതി |
സദാ പൂര്വഃ സര്വം തദിദ മനുഗൃഹ്ണാതി ച ശിവ-
സ്തവാജ്ഞാ മലമ്ബ്യ ക്ഷണചലിതയോ ര്ഭ്രൂലതികയോഃ || 24 ||

ത്രയാണാം ദേവാനാം ത്രിഗുണ-ജനിതാനാം തവ ശിവേ
ഭവേത് പൂജാ പൂജാ തവ ചരണയോ-ര്യാ വിരചിതാ |
തഥാ ഹി ത്വത്പാദോദ്വഹന-മണിപീഠസ്യ നികടേ
സ്ഥിതാ ഹ്യേതേ-ശശ്വന്മുകുലിത കരോത്തംസ-മകുടാഃ || 25 ||

വിരിഞ്ചിഃ പഞ്ചത്വം വ്രജതി ഹരിരാപ്നോതി വിരതിം
വിനാശം കീനാശോ ഭജതി ധനദോ യാതി നിധനമ് |
വിതന്ദ്രീ മാഹേന്ദ്രീ-വിതതിരപി സംമീലിത-ദൃശാ
മഹാസംഹാരേ‌உസ്മിന് വിഹരതി സതി ത്വത്പതി രസൗ || 26 ||

ജപോ ജല്പഃ ശില്പം സകലമപി മുദ്രാവിരചനാ
ഗതിഃ പ്രാദക്ഷിണ്യ-ക്രമണ-മശനാദ്യാ ഹുതി-വിധിഃ |
പ്രണാമഃ സംവേശഃ സുഖമഖില-മാത്മാര്പണ-ദൃശാ
സപര്യാ പര്യായ-സ്തവ ഭവതു യന്മേ വിലസിതമ് || 27 ||

സുധാമപ്യാസ്വാദ്യ പ്രതി-ഭയ-ജരമൃത്യു-ഹരിണീം
വിപദ്യന്തേ വിശ്വേ വിധി-ശതമഖാദ്യാ ദിവിഷദഃ |
കരാലം യത് ക്ഷ്വേലം കബലിതവതഃ കാലകലനാ
ന ശമ്ഭോസ്തന്മൂലം തവ ജനനി താടങ്ക മഹിമാ || 28 ||

കിരീടം വൈരിഞ്ചം പരിഹര പുരഃ കൈടഭഭിദഃ
കഠോരേ കോഠീരേ സ്കലസി ജഹി ജംഭാരി-മകുടമ് |
പ്രണമ്രേഷ്വേതേഷു പ്രസഭ-മുപയാതസ്യ ഭവനം
ഭവസ്യഭ്യുത്ഥാനേ തവ പരിജനോക്തി-ര്വിജയതേ || 29 ||

സ്വദേഹോദ്ഭൂതാഭി-ര്ഘൃണിഭി-രണിമാദ്യാഭി-രഭിതോ
നിഷേവ്യേ നിത്യേ ത്വാ മഹമിതി സദാ ഭാവയതി യഃ |
കിമാശ്ചര്യം തസ്യ ത്രിനയന-സമൃദ്ധിം തൃണയതോ
മഹാസംവര്താഗ്നി-ര്വിരചയതി നീരാജനവിധിമ് || 30 ||

ചതുഃ-ഷഷ്ടയാ തന്ത്രൈഃ സകല മതിസന്ധായ ഭുവനം
സ്ഥിതസ്തത്ത്ത-സിദ്ധി പ്രസവ പരതന്ത്രൈഃ പശുപതിഃ |
പുനസ്ത്വ-ന്നിര്ബന്ധാ ദഖില-പുരുഷാര്ഥൈക ഘടനാ-
സ്വതന്ത്രം തേ തന്ത്രം ക്ഷിതിതല മവാതീതര-ദിദമ് || 31 ||

ശിവഃ ശക്തിഃ കാമഃ ക്ഷിതി-രഥ രവിഃ ശീതകിരണഃ
സ്മരോ ഹംസഃ ശക്ര-സ്തദനു ച പരാ-മാര-ഹരയഃ |
അമീ ഹൃല്ലേഖാഭി-സ്തിസൃഭി-രവസാനേഷു ഘടിതാ
ഭജന്തേ വര്ണാസ്തേ തവ ജനനി നാമാവയവതാമ് || 32 ||

സ്മരം യോനിം ലക്ഷ്മീം ത്രിതയ-മിദ-മാദൗ തവ മനോ
ര്നിധായൈകേ നിത്യേ നിരവധി-മഹാഭോഗ-രസികാഃ |
ഭജന്തി ത്വാം ചിന്താമണി-ഗുണനിബദ്ധാക്ഷ-വലയാഃ
ശിവാഗ്നൗ ജുഹ്വന്തഃ സുരഭിഘൃത-ധാരാഹുതി-ശതൈ || 33 ||

ശരീരം ത്വം ശംഭോഃ ശശി-മിഹിര-വക്ഷോരുഹ-യുഗം
തവാത്മാനം മന്യേ ഭഗവതി നവാത്മാന-മനഘമ് |
അതഃ ശേഷഃ ശേഷീത്യയ-മുഭയ-സാധാരണതയാ
സ്ഥിതഃ സംബന്ധോ വാം സമരസ-പരാനന്ദ-പരയോഃ || 34 ||

മനസ്ത്വം വ്യോമ ത്വം മരുദസി മരുത്സാരഥി-രസി
ത്വമാപ-സ്ത്വം ഭൂമി-സ്ത്വയി പരിണതായാം ന ഹി പരമ് |
ത്വമേവ സ്വാത്മാനം പരിണ്മയിതും വിശ്വ വപുഷാ
ചിദാനന്ദാകാരം ശിവയുവതി ഭാവേന ബിഭൃഷേ || 35 ||

തവാജ്ഞചക്രസ്ഥം തപന-ശശി കോടി-ദ്യുതിധരം
പരം ശംഭു വന്ദേ പരിമിലിത-പാര്ശ്വം പരചിതാ |
യമാരാധ്യന് ഭക്ത്യാ രവി ശശി ശുചീനാ-മവിഷയേ
നിരാലോകേ ‌உലോകേ നിവസതി ഹി ഭാലോക-ഭുവനേ || 36 ||

വിശുദ്ധൗ തേ ശുദ്ധസ്ഫതിക വിശദം വ്യോമ-ജനകം
ശിവം സേവേ ദേവീമപി ശിവസമാന-വ്യവസിതാമ് |
യയോഃ കാന്ത്യാ യാന്ത്യാഃ ശശികിരണ്-സാരൂപ്യസരണേ
വിധൂതാന്ത-ര്ധ്വാന്താ വിലസതി ചകോരീവ ജഗതീ || 37 ||

സമുന്മീലത് സംവിത്കമല-മകരന്ദൈക-രസികം
ഭജേ ഹംസദ്വന്ദ്വം കിമപി മഹതാം മാനസചരമ് |
യദാലാപാ-ദഷ്ടാദശ-ഗുണിത-വിദ്യാപരിണതിഃ
യദാദത്തേ ദോഷാദ് ഗുണ-മഖില-മദ്ഭ്യഃ പയ ഇവ || 38 ||

തവ സ്വാധിഷ്ഠാനേ ഹുതവഹ-മധിഷ്ഠായ നിരതം
തമീഡേ സംവര്തം ജനനി മഹതീം താം ച സമയാമ് |
യദാലോകേ ലോകാന് ദഹതി മഹസി ക്രോധ-കലിതേ
ദയാര്ദ്രാ യാ ദൃഷ്ടിഃ ശിശിര-മുപചാരം രചയതി || 39 ||

തടിത്വന്തം ശക്ത്യാ തിമിര-പരിപന്ഥി-സ്ഫുരണയാ
സ്ഫുര-ന്നാ നരത്നാഭരണ-പരിണദ്ധേന്ദ്ര-ധനുഷമ് |
തവ ശ്യാമം മേഘം കമപി മണിപൂരൈക-ശരണം
നിഷേവേ വര്ഷന്തം-ഹരമിഹിര-തപ്തം ത്രിഭുവനമ് || 40 ||

തവാധാരേ മൂലേ സഹ സമയയാ ലാസ്യപരയാ
നവാത്മാന മന്യേ നവരസ-മഹാതാണ്ഡവ-നടമ് |
ഉഭാഭ്യാ മേതാഭ്യാ-മുദയ-വിധി മുദ്ദിശ്യ ദയയാ
സനാഥാഭ്യാം ജജ്ഞേ ജനക ജനനീമത് ജഗദിദമ് || 41 ||

ദ്വിതീയ ഭാഗഃ – സൗന്ദര്യ ലഹരീ

ഗതൈ-ര്മാണിക്യത്വം ഗഗനമണിഭിഃ സാന്ദ്രഘടിതം
കിരീടം തേ ഹൈമം ഹിമഗിരിസുതേ കീതയതി യഃ ||
സ നീഡേയച്ഛായാ-ച്ഛുരണ-ശകലം ചന്ദ്ര-ശകലം
ധനുഃ ശൗനാസീരം കിമിതി ന നിബധ്നാതി ധിഷണാമ് || 42 ||

ധുനോതു ധ്വാന്തം ന-സ്തുലിത-ദലിതേന്ദീവര-വനം
ഘനസ്നിഗ്ധ-ശ്ലക്ഷ്ണം ചികുര നികുരുംബം തവ ശിവേ |
യദീയം സൗരഭ്യം സഹജ-മുപലബ്ധും സുമനസോ
വസന്ത്യസ്മിന് മന്യേ ബലമഥന വാടീ-വിടപിനാമ് || 43 ||

തനോതു ക്ഷേമം ന-സ്തവ വദനസൗന്ദര്യലഹരീ
പരീവാഹസ്രോതഃ-സരണിരിവ സീമന്തസരണിഃ|
വഹന്തീ- സിന്ദൂരം പ്രബലകബരീ-ഭാര-തിമിര
ദ്വിഷാം ബൃന്ദൈ-ര്വന്ദീകൃതമേവ നവീനാര്ക കേരണമ് || 44 ||

അരാലൈ സ്വാഭാവ്യാ-ദലികലഭ-സശ്രീഭി രലകൈഃ
പരീതം തേ വക്ത്രം പരിഹസതി പങ്കേരുഹരുചിമ് |
ദരസ്മേരേ യസ്മിന് ദശനരുചി കിഞ്ജല്ക-രുചിരേ
സുഗന്ധൗ മാദ്യന്തി സ്മരദഹന ചക്ഷു-ര്മധുലിഹഃ || 45 ||

ലലാടം ലാവണ്യ ദ്യുതി വിമല-മാഭാതി തവ യത്
ദ്വിതീയം തന്മന്യേ മകുടഘടിതം ചന്ദ്രശകലമ് |
വിപര്യാസ-ന്യാസാ ദുഭയമപി സംഭൂയ ച മിഥഃ
സുധാലേപസ്യൂതിഃ പരിണമതി രാകാ-ഹിമകരഃ || 46 ||

ഭ്രുവൗ ഭുഗ്നേ കിംചിദ്ഭുവന-ഭയ-ഭങ്ഗവ്യസനിനി
ത്വദീയേ നേത്രാഭ്യാം മധുകര-രുചിഭ്യാം ധൃതഗുണമ് |
ധനു ര്മന്യേ സവ്യേതരകര ഗൃഹീതം രതിപതേഃ
പ്രകോഷ്ടേ മുഷ്ടൗ ച സ്ഥഗയതേ നിഗൂഢാന്തര-മുമേ || 47 ||

അഹഃ സൂതേ സവ്യ തവ നയന-മര്കാത്മകതയാ
ത്രിയാമാം വാമം തേ സൃജതി രജനീനായകതയാ |
തൃതീയാ തേ ദൃഷ്ടി-ര്ദരദലിത-ഹേമാമ്ബുജ-രുചിഃ
സമാധത്തേ സന്ധ്യാം ദിവസര്-നിശയോ-രന്തരചരീമ് || 48 ||

വിശാലാ കല്യാണീ സ്ഫുതരുചി-രയോധ്യാ കുവലയൈഃ
കൃപാധാരാധാരാ കിമപി മധുരാ‌உഭോഗവതികാ |
അവന്തീ ദൃഷ്ടിസ്തേ ബഹുനഗര-വിസ്താര-വിജയാ
ധ്രുവം തത്തന്നാമ-വ്യവഹരണ-യോഗ്യാവിജയതേ || 49 ||

കവീനാം സന്ദര്ഭ-സ്തബക-മകരന്ദൈക-രസികം
കടാക്ഷ-വ്യാക്ഷേപ-ഭ്രമരകലഭൗ കര്ണയുഗലമ് |
അമുഞ്ച്ന്തൗ ദൃഷ്ട്വാ തവ നവരസാസ്വാദ-തരലൗ
അസൂയാ-സംസര്ഗാ-ദലികനയനം കിഞ്ചിദരുണമ് || 50 ||

ശിവേ ശങ്ഗാരാര്ദ്രാ തദിതരജനേ കുത്സനപരാ
സരോഷാ ഗങ്ഗായാം ഗിരിശചരിതേ വിസ്മയവതീ |
ഹരാഹിഭ്യോ ഭീതാ സരസിരുഹ സൗഭാഗ്യ-ജനനീ
സഖീഷു സ്മേരാ തേ മയി ജനനി ദൃഷ്ടിഃ സകരുണാ || 51 ||

ഗതേ കര്ണാഭ്യര്ണം ഗരുത ഇവ പക്ഷ്മാണി ദധതീ
പുരാം ഭേത്തു-ശ്ചിത്തപ്രശമ-രസ-വിദ്രാവണ ഫലേ |
ഇമേ നേത്രേ ഗോത്രാധരപതി-കുലോത്തംസ-കലികേ
തവാകര്ണാകൃഷ്ട സ്മരശര-വിലാസം കലയതഃ|| 52 ||

വിഭക്ത-ത്രൈവര്ണ്യം വ്യതികരിത-ലീലാഞ്ജനതയാ
വിഭാതി ത്വന്നേത്ര ത്രിതയ മിദ-മീശാനദയിതേ |
പുനഃ സ്രഷ്ടും ദേവാന് ദ്രുഹിണ ഹരി-രുദ്രാനുപരതാന്
രജഃ സത്വം വേഭ്രത് തമ ഇതി ഗുണാനാം ത്രയമിവ || 53 ||

പവിത്രീകര്തും നഃ പശുപതി-പരാധീന-ഹൃദയേ
ദയാമിത്രൈ ര്നേത്രൈ-രരുണ-ധവല-ശ്യാമ രുചിഭിഃ |
നദഃ ശോണോ ഗങ്ഗാ തപനതനയേതി ധ്രുവമുമ്
ത്രയാണാം തീര്ഥാനാ-മുപനയസി സംഭേദ-മനഘമ് || 54 ||

നിമേഷോന്മേഷാഭ്യാം പ്രലയമുദയം യാതി ജഗതി
തവേത്യാഹുഃ സന്തോ ധരണിധര-രാജന്യതനയേ |
ത്വദുന്മേഷാജ്ജാതം ജഗദിദ-മശേഷം പ്രലയതഃ
പരേത്രാതും ശംങ്കേ പരിഹൃത-നിമേഷാ-സ്തവ ദൃശഃ || 55 ||

തവാപര്ണേ കര്ണേ ജപനയന പൈശുന്യ ചകിതാ
നിലീയന്തേ തോയേ നിയത മനിമേഷാഃ ശഫരികാഃ |
ഇയം ച ശ്രീ-ര്ബദ്ധച്ഛദപുടകവാടം കുവലയം
ജഹാതി പ്രത്യൂഷേ നിശി ച വിഘതയ്യ പ്രവിശതി|| 56 ||

ദൃശാ ദ്രാഘീയസ്യാ ദരദലിത നീലോത്പല രുചാ
ദവീയാംസം ദീനം സ്നപാ കൃപയാ മാമപി ശിവേ |
അനേനായം ധന്യോ ഭവതി ന ച തേ ഹാനിരിയതാ
വനേ വാ ഹര്മ്യേ വാ സമകര നിപാതോ ഹിമകരഃ || 57 ||

അരാലം തേ പാലീയുഗല-മഗരാജന്യതനയേ
ന കേഷാ-മാധത്തേ കുസുമശര കോദണ്ഡ-കുതുകമ് |
തിരശ്ചീനോ യത്ര ശ്രവണപഥ-മുല്ല്ങ്യ്യ വിലസന്
അപാംഗ വ്യാസംഗോ ദിശതി ശരസന്ധാന ധിഷണാമ് || 58 ||

സ്ഫുരദ്ഗണ്ഡാഭോഗ-പ്രതിഫലിത താട്ങ്ക യുഗലം
ചതുശ്ചക്രം മന്യേ തവ മുഖമിദം മന്മഥരഥമ് |
യമാരുഹ്യ ദ്രുഹ്യ ത്യവനിരഥ മര്കേന്ദുചരണം
മഹാവീരോ മാരഃ പ്രമഥപതയേ സജ്ജിതവതേ || 59 ||

സരസ്വത്യാഃ സൂക്തീ-രമൃതലഹരീ കൗശലഹരീഃ
പിബ്നത്യാഃ ശര്വാണി ശ്രവണ-ചുലുകാഭ്യാ-മവിരലമ് |
ചമത്കാരഃ-ശ്ലാഘാചലിത-ശിരസഃ കുണ്ഡലഗണോ
ഝണത്കരൈസ്താരൈഃ പ്രതിവചന-മാചഷ്ട ഇവ തേ || 60 ||

അസൗ നാസാവംശ-സ്തുഹിനഗിരിവണ്ശ-ധ്വജപടി
ത്വദീയോ നേദീയഃ ഫലതു ഫല-മസ്മാകമുചിതമ് |
വഹത്യന്തര്മുക്താഃ ശിശിരകര-നിശ്വാസ-ഗലിതം
സമൃദ്ധ്യാ യത്താസാം ബഹിരപി ച മുക്താമണിധരഃ || 61 ||

പ്രകൃത്യാ‌உരക്തായാ-സ്തവ സുദതി ദന്ദച്ഛദരുചേഃ
പ്രവക്ഷ്യേ സദൃശ്യം ജനയതു ഫലം വിദ്രുമലതാ |
ന ബിംബം തദ്ബിംബ-പ്രതിഫലന-രാഗാ-ദരുണിതം
തുലാമധ്രാരോഢും കഥമിവ വിലജ്ജേത കലയാ || 62 ||

സ്മിതജ്യോത്സ്നാജാലം തവ വദനചന്ദ്രസ്യ പിബതാം
ചകോരാണാ-മാസീ-ദതിരസതയാ ചഞ്ചു-ജഡിമാ |
അതസ്തേ ശീതാംശോ-രമൃതലഹരീ മാമ്ലരുചയഃ
പിബന്തീ സ്വച്ഛന്ദം നിശി നിശി ഭൃശം കാഞ്ജി കധിയാ || 63 ||

അവിശ്രാന്തം പത്യുര്ഗുണഗണ കഥാമ്രേഡനജപാ
ജപാപുഷ്പച്ഛായാ തവ ജനനി ജിഹ്വാ ജയതി സാ |
യദഗ്രാസീനായാഃ സ്ഫടികദൃഷ-ദച്ഛച്ഛവിമയി
സരസ്വത്യാ മൂര്തിഃ പരിണമതി മാണിക്യവപുഷാ || 64 ||

രണേ ജിത്വാ ദൈത്യാ നപഹൃത-ശിരസ്ത്രൈഃ കവചിഭിഃ
നിവൃത്തൈ-ശ്ചണ്ഡാംശ-ത്രിപുരഹര-നിര്മാല്യ-വിമുഖൈഃ |
വിശാഖേന്ദ്രോപേന്ദ്രൈഃ ശശിവിശദ-കര്പൂരശകലാ
വിലീയന്തേ മാതസ്തവ വദനതാമ്ബൂല-കബലാഃ || 65 ||

വിപഞ്ച്യാ ഗായന്തീ വിവിധ-മപദാനം പശുപതേ-
സ്ത്വയാരബ്ധേ വക്തും ചലിതശിരസാ സാധുവചനേ |
തദീയൈ-ര്മാധുര്യൈ-രപലപിത-തന്ത്രീകലരവാം
നിജാം വീണാം വാണീം നിചുലയതി ചോലേന നിഭൃതമ് || 66 ||

കരഗ്രേണ സ്പൃഷ്ടം തുഹിനഗിരിണാ വത്സലതയാ
ഗിരിശേനോ-ദസ്തം മുഹുരധരപാനാകുലതയാ |
കരഗ്രാഹ്യം ശംഭോര്മുഖമുകുരവൃന്തം ഗിരിസുതേ
കഥംകരം ബ്രൂമ-സ്തവ ചുബുകമോപമ്യരഹിതമ് || 67 ||

ഭുജാശ്ലേഷാന്നിത്യം പുരദമയിതുഃ കന്ടകവതീ
തവ ഗ്രീവാ ധത്തേ മുഖകമലനാല-ശ്രിയമിയമ് |
സ്വതഃ ശ്വേതാ കാലാ ഗരു ബഹുല-ജമ്ബാലമലിനാ
മൃണാലീലാലിത്യം വഹതി യദധോ ഹാരലതികാ || 68 ||

ഗലേ രേഖാസ്തിസ്രോ ഗതി ഗമക ഗീതൈക നിപുണേ
വിവാഹ-വ്യാനദ്ധ-പ്രഗുണഗുണ-സംഖ്യാ പ്രതിഭുവഃ |
വിരാജന്തേ നാനാവിധ-മധുര-രാഗാകര-ഭുവാം
ത്രയാണാം ഗ്രാമാണാം സ്ഥിതി-നിയമ-സീമാന ഇവ തേ || 69 ||

മൃണാലീ-മൃദ്വീനാം തവ ഭുജലതാനാം ചതസൃണാം
ചതുര്ഭിഃ സൗന്ദ്രയം സരസിജഭവഃ സ്തൗതി വദനൈഃ |
നഖേഭ്യഃ സന്ത്രസ്യന് പ്രഥമ-മഥനാ ദന്തകരിപോഃ
ചതുര്ണാം ശീര്ഷാണാം സമ-മഭയഹസ്താര്പണ-ധിയാ || 70 ||

നഖാനാ-മുദ്യോതൈ-ര്നവനലിനരാഗം വിഹസതാം
കരാണാം തേ കാന്തിം കഥയ കഥയാമഃ കഥമുമേ |
കയാചിദ്വാ സാമ്യം ഭജതു കലയാ ഹന്ത കമലം
യദി ക്രീഡല്ലക്ഷ്മീ-ചരണതല-ലാക്ഷാരസ-ചണമ് || 71 ||

സമം ദേവി സ്കന്ദ ദ്വിപിവദന പീതം സ്തനയുഗം
തവേദം നഃ ഖേദം ഹരതു സതതം പ്രസ്നുത-മുഖമ് |
യദാലോക്യാശങ്കാകുലിത ഹൃദയോ ഹാസജനകഃ
സ്വകുമ്ഭൗ ഹേരംബഃ പരിമൃശതി ഹസ്തേന ഝഡിതി || 72 ||

അമൂ തേ വക്ഷോജാ-വമൃതരസ-മാണിക്യ കുതുപൗ
ന സന്ദേഹസ്പന്ദോ നഗപതി പതാകേ മനസി നഃ |
പിബന്തൗ തൗ യസ്മാ ദവിദിത വധൂസങ്ഗ രസികൗ
കുമാരാവദ്യാപി ദ്വിരദവദന-ക്രൗഞ്ച്ദലനൗ || 73 ||

വഹത്യമ്ബ സ്ത്മ്ബേരമ-ദനുജ-കുംഭപ്രകൃതിഭിഃ
സമാരബ്ധാം മുക്താമണിഭിരമലാം ഹാരലതികാമ് |
കുചാഭോഗോ ബിമ്ബാധര-രുചിഭി-രന്തഃ ശബലിതാം
പ്രതാപ-വ്യാമിശ്രാം പുരദമയിതുഃ കീര്തിമിവ തേ || 74 ||

തവ സ്തന്യം മന്യേ ധരണിധരകന്യേ ഹൃദയതഃ
പയഃ പാരാവാരഃ പരിവഹതി സാരസ്വതമിവ |
ദയാവത്യാ ദത്തം ദ്രവിഡശിശു-രാസ്വാദ്യ തവ യത്
കവീനാം പ്രൗഢാനാ മജനി കമനീയഃ കവയിതാ || 75 ||

ഹരക്രോധ-ജ്വാലാവലിഭി-രവലീഢേന വപുഷാ
ഗഭീരേ തേ നാഭീസരസി കൃതസങോ മനസിജഃ |
സമുത്തസ്ഥൗ തസ്മാ-ദചലതനയേ ധൂമലതികാ
ജനസ്താം ജാനീതേ തവ ജനനി രോമാവലിരിതി || 76 ||

യദേതത്കാലിന്ദീ-തനുതര-തരങ്ഗാകൃതി ശിവേ
കൃശേ മധ്യേ കിഞ്ചിജ്ജനനി തവ യദ്ഭാതി സുധിയാമ് |
വിമര്ദാ-ദന്യോന്യം കുചകലശയോ-രന്തരഗതം
തനൂഭൂതം വ്യോമ പ്രവിശദിവ നാഭിം കുഹരിണീമ് || 77 ||

സ്ഥിരോ ഗങ്ഗാ വര്തഃ സ്തനമുകുല-രോമാവലി-ലതാ
കലാവാലം കുണ്ഡം കുസുമശര തേജോ-ഹുതഭുജഃ |
രതേ-ര്ലീലാഗാരം കിമപി തവ നാഭിര്ഗിരിസുതേ
ബേലദ്വാരം സിദ്ധേ-ര്ഗിരിശനയനാനാം വിജയതേ || 78 ||

നിസര്ഗ-ക്ഷീണസ്യ സ്തനതട-ഭരേണ ക്ലമജുഷോ
നമന്മൂര്തേ ര്നാരീതിലക ശനകൈ-സ്ത്രുട്യത ഇവ |
ചിരം തേ മധ്യസ്യ ത്രുടിത തടിനീ-തീര-തരുണാ
സമാവസ്ഥാ-സ്ഥേമ്നോ ഭവതു കുശലം ശൈലതനയേ || 79 ||

കുചൗ സദ്യഃ സ്വിദ്യ-ത്തടഘടിത-കൂര്പാസഭിദുരൗ
കഷന്തൗ-ദൗര്മൂലേ കനകകലശാഭൗ കലയതാ |
തവ ത്രാതും ഭങ്ഗാദലമിതി വലഗ്നം തനുഭുവാ
ത്രിധാ നദ്ധ്മ് ദേവീ ത്രിവലി ലവലീവല്ലിഭിരിവ || 80 ||

ഗുരുത്വം വിസ്താരം ക്ഷിതിധരപതിഃ പാര്വതി നിജാത്
നിതമ്ബാ-ദാച്ഛിദ്യ ത്വയി ഹരണ രൂപേണ നിദധേ |
അതസ്തേ വിസ്തീര്ണോ ഗുരുരയമശേഷാം വസുമതീം
നിതമ്ബ-പ്രാഗ്ഭാരഃ സ്ഥഗയതി സഘുത്വം നയതി ച || 81 ||

കരീന്ദ്രാണാം ശുണ്ഡാന്-കനകകദലീ-കാണ്ഡപടലീം
ഉഭാഭ്യാമൂരുഭ്യാ-മുഭയമപി നിര്ജിത്യ ഭവതി |
സുവൃത്താഭ്യാം പത്യുഃ പ്രണതികഠിനാഭ്യാം ഗിരിസുതേ
വിധിജ്ഞേ ജാനുഭ്യാം വിബുധ കരികുംഭ ദ്വയമസി || 82 ||

പരാജേതും രുദ്രം ദ്വിഗുണശരഗര്ഭൗ ഗിരിസുതേ
നിഷങ്ഗൗ ജങ്ഘേ തേ വിഷമവിശിഖോ ബാഢ-മകൃത |
യദഗ്രേ ദൃസ്യന്തേ ദശശരഫലാഃ പാദയുഗലീ
നഖാഗ്രച്ഛന്മാനഃ സുര മുകുട-ശാണൈക-നിശിതാഃ || 83 ||

ശ്രുതീനാം മൂര്ധാനോ ദധതി തവ യൗ ശേഖരതയാ
മമാപ്യേതൗ മാതഃ ശേരസി ദയയാ ദേഹി ചരണൗ |
യയ‌ഓഃ പാദ്യം പാഥഃ പശുപതി ജടാജൂട തടിനീ
യയോ-ര്ലാക്ഷാ-ലക്ഷ്മീ-രരുണ ഹരിചൂഡാമണി രുചിഃ || 84 ||

നമോ വാകം ബ്രൂമോ നയന-രമണീയായ പദയോഃ
തവാസ്മൈ ദ്വന്ദ്വായ സ്ഫുട-രുചി രസാലക്തകവതേ |
അസൂയത്യത്യന്തം യദഭിഹനനായ സ്പൃഹയതേ
പശൂനാ-മീശാനഃ പ്രമദവന-കങ്കേലിതരവേ || 85 ||

മൃഷാ കൃത്വാ ഗോത്രസ്ഖലന-മഥ വൈലക്ഷ്യനമിതം
ലലാടേ ഭര്താരം ചരണകമലേ താഡയതി തേ |
ചിരാദന്തഃ ശല്യം ദഹനകൃത മുന്മൂലിതവതാ
തുലാകോടിക്വാണൈഃ കിലികിലിത മീശാന രിപുണാ || 86 ||

ഹിമാനീ ഹന്തവ്യം ഹിമഗിരിനിവാസൈക-ചതുരൗ
നിശായാം നിദ്രാണം നിശി-ചരമഭാഗേ ച വിശദൗ |
വരം ലക്ഷ്മീപാത്രം ശ്രിയ-മതിസൃഹന്തോ സമയിനാം
സരോജം ത്വത്പാദൗ ജനനി ജയത-ശ്ചിത്രമിഹ കിമ് || 87 ||

പദം തേ കീര്തീനാം പ്രപദമപദം ദേവി വിപദാം
കഥം നീതം സദ്ഭിഃ കഠിന-കമഠീ-കര്പര-തുലാമ് |
കഥം വാ ബാഹുഭ്യാ-മുപയമനകാലേ പുരഭിദാ
യദാദായ ന്യസ്തം ദൃഷദി ദയമാനേന മനസാ || 88 ||

നഖൈ-ര്നാകസ്ത്രീണാം കരകമല-സംകോച-ശശിഭിഃ
തരൂണാം ദിവ്യാനാം ഹസത ഇവ തേ ചണ്ഡി ചരണൗ |
ഫലാനി സ്വഃസ്ഥേഭ്യഃ കിസലയ-കരാഗ്രേണ ദദതാം
ദരിദ്രേഭ്യോ ഭദ്രാം ശ്രിയമനിശ-മഹ്നായ ദദതൗ || 89 ||

ദദാനേ ദീനേഭ്യഃ ശ്രിയമനിശ-മാശാനുസദൃശീം
അമന്ദം സൗന്ദര്യം പ്രകര-മകരന്ദം വികിരതി |
തവാസ്മിന് മന്ദാര-സ്തബക-സുഭഗേ യാതു ചരണേ
നിമജ്ജന് മജ്ജീവഃ കരണചരണഃ ഷ്ട്ചരണതാമ് || 90 ||

പദന്യാസ-ക്രീഡാ പരിചയ-മിവാരബ്ധു-മനസഃ
സ്ഖലന്തസ്തേ ഖേലം ഭവനകലഹംസാ ന ജഹതി |
അതസ്തേഷാം ശിക്ഷാം സുഭഗമണി-മഞ്ജീര-രണിത-
ച്ഛലാദാചക്ഷാണം ചരണകമലം ചാരുചരിതേ || 91 ||

ഗതാസ്തേ മഞ്ചത്വം ദ്രുഹിണ ഹരി രുദ്രേശ്വര ഭൃതഃ
ശിവഃ സ്വച്ഛ-ച്ഛായാ-ഘടിത-കപട-പ്രച്ഛദപടഃ |
ത്വദീയാനാം ഭാസാം പ്രതിഫലന രാഗാരുണതയാ
ശരീരീ ശൃങ്ഗാരോ രസ ഇവ ദൃശാം ദോഗ്ധി കുതുകമ് || 92 ||

അരാലാ കേശേഷു പ്രകൃതി സരലാ മന്ദഹസിതേ
ശിരീഷാഭാ ചിത്തേ ദൃഷദുപലശോഭാ കുചതടേ |
ഭൃശം തന്വീ മധ്യേ പൃഥു-രുരസിജാരോഹ വിഷയേ
ജഗത്ത്രതും ശംഭോ-ര്ജയതി കരുണാ കാചിദരുണാ || 93 ||

കലങ്കഃ കസ്തൂരീ രജനികര ബിമ്ബം ജലമയം
കലാഭിഃ കര്പൂരൈ-ര്മരകതകരണ്ഡം നിബിഡിതമ് |
അതസ്ത്വദ്ഭോഗേന പ്രതിദിനമിദം രിക്തകുഹരം
വിധി-ര്ഭൂയോ ഭൂയോ നിബിഡയതി നൂനം തവ കൃതേ || 94 ||

പുരാരന്തേ-രന്തഃ പുരമസി തത-സ്ത്വചരണയോഃ
സപര്യാ-മര്യാദാ തരലകരണാനാ-മസുലഭാ |
തഥാ ഹ്യേതേ നീതാഃ ശതമഖമുഖാഃ സിദ്ധിമതുലാം
തവ ദ്വാരോപാന്തഃ സ്ഥിതിഭി-രണിമാദ്യാഭി-രമരാഃ || 95 ||

കലത്രം വൈധാത്രം കതികതി ഭജന്തേ ന കവയഃ
ശ്രിയോ ദേവ്യാഃ കോ വാ ന ഭവതി പതിഃ കൈരപി ധനൈഃ |
മഹാദേവം ഹിത്വാ തവ സതി സതീനാ-മചരമേ
കുചഭ്യാ-മാസങ്ഗഃ കുരവക-തരോ-രപ്യസുലഭഃ || 96 ||

ഗിരാമാഹു-ര്ദേവീം ദ്രുഹിണഗൃഹിണീ-മാഗമവിദോ
ഹരേഃ പത്നീം പദ്മാം ഹരസഹചരീ-മദ്രിതനയാമ് |
തുരീയാ കാപി ത്വം ദുരധിഗമ-നിസ്സീമ-മഹിമാ
മഹാമായാ വിശ്വം ഭ്രമയസി പരബ്രഹ്മമഹിഷി || 97 ||

കദാ കാലേ മാതഃ കഥയ കലിതാലക്തകരസം
പിബേയം വിദ്യാര്ഥീ തവ ചരണ-നിര്ണേജനജലമ് |
പ്രകൃത്യാ മൂകാനാമപി ച കവിതാ0കാരണതയാ
കദാ ധത്തേ വാണീമുഖകമല-താമ്ബൂല-രസതാമ് || 98 ||

സരസ്വത്യാ ലക്ഷ്മ്യാ വിധി ഹരി സപത്നോ വിഹരതേ
രതേഃ പതിവ്രത്യം ശിഥിലപതി രമ്യേണ വപുഷാ |
ചിരം ജീവന്നേവ ക്ഷപിത-പശുപാശ-വ്യതികരഃ
പരാനന്ദാഭിഖ്യം രസയതി രസം ത്വദ്ഭജനവാന് || 99 ||

പ്രദീപ ജ്വാലാഭി-ര്ദിവസകര-നീരാജനവിധിഃ
സുധാസൂതേ-ശ്ചന്ദ്രോപല-ജലലവൈ-രഘ്യരചനാ |
സ്വകീയൈരമ്ഭോഭിഃ സലില-നിധി-സൗഹിത്യകരണം
ത്വദീയാഭി-ര്വാഗ്ഭി-സ്തവ ജനനി വാചാം സ്തുതിരിയമ് || 100 ||

സൗന്ദയലഹരി മുഖ്യസ്തോത്രം സംവാര്തദായകമ് |
ഭഗവദ്പാദ സന്ക്ലുപ്തം പഠേന് മുക്തൗ ഭവേന്നരഃ ||
സൗന്ദര്യലഹരി സ്തോത്രം സംപൂര്ണം

.


ಭುಮೌಸ್ಖಲಿತ ಪಾದಾನಾಮ್ ಭೂಮಿರೇವಾ ವಲಂಬನಮ್ |
ತ್ವಯೀ ಜಾತಾ ಪರಾಧಾನಾಮ್ ತ್ವಮೇವ ಶರಣಮ್ ಶಿವೇ ||

ಶಿವಃ ಶಕ್ತ್ಯಾ ಯುಕ್ತೋ ಯದಿ ಭವತಿ ಶಕ್ತಃ ಪ್ರಭವಿತುಂ
ನ ಚೇದೇವಂ ದೇವೋ ನ ಖಲು ಕುಶಲಃ ಸ್ಪಂದಿತುಮಪಿ|
ಅತಸ್ತ್ವಾಮ್ ಆರಾಧ್ಯಾಂ ಹರಿ-ಹರ-ವಿರಿನ್ಚಾದಿಭಿ ರಪಿ
ಪ್ರಣಂತುಂ ಸ್ತೋತುಂ ವಾ ಕಥ-ಮಕ್ರ್ತ ಪುಣ್ಯಃ ಪ್ರಭವತಿ|| 1 ||

ತನೀಯಾಂಸುಂ ಪಾಂಸುಂ ತವ ಚರಣ ಪಂಕೇರುಹ-ಭವಂ
ವಿರಿಂಚಿಃ ಸಂಚಿನ್ವನ್ ವಿರಚಯತಿ ಲೋಕಾ-ನವಿಕಲಮ್ |
ವಹತ್ಯೇನಂ ಶೌರಿಃ ಕಥಮಪಿ ಸಹಸ್ರೇಣ ಶಿರಸಾಂ
ಹರಃ ಸಂಕ್ಷುದ್-ಯೈನಂ ಭಜತಿ ಭಸಿತೋದ್ಧೂಳ ನವಿಧಿಮ್|| 2 ||

ಅವಿದ್ಯಾನಾ-ಮಂತ-ಸ್ತಿಮಿರ-ಮಿಹಿರ ದ್ವೀಪನಗರೀ
ಜಡಾನಾಂ ಚೈತನ್ಯ-ಸ್ತಬಕ ಮಕರಂದ ಶ್ರುತಿಝರೀ |
ದರಿದ್ರಾಣಾಂ ಚಿಂತಾಮಣಿ ಗುಣನಿಕಾ ಜನ್ಮಜಲಧೌ
ನಿಮಗ್ನಾನಾಂ ದಂಷ್ಟ್ರಾ ಮುರರಿಪು ವರಾಹಸ್ಯ ಭವತಿ|| 3 ||

ತ್ವದನ್ಯಃ ಪಾಣಿಭಯಾ-ಮಭಯವರದೋ ದೈವತಗಣಃ
ತ್ವಮೇಕಾ ನೈವಾಸಿ ಪ್ರಕಟಿತ-ವರಭೀತ್ಯಭಿನಯಾ |
ಭಯಾತ್ ತ್ರಾತುಂ ದಾತುಂ ಫಲಮಪಿ ಚ ವಾಂಛಾಸಮಧಿಕಂ
ಶರಣ್ಯೇ ಲೋಕಾನಾಂ ತವ ಹಿ ಚರಣಾವೇವ ನಿಪುಣೌ || 4 ||

ಹರಿಸ್ತ್ವಾಮಾರಧ್ಯ ಪ್ರಣತ-ಜನ-ಸೌಭಾಗ್ಯ-ಜನನೀಂ
ಪುರಾ ನಾರೀ ಭೂತ್ವಾ ಪುರರಿಪುಮಪಿ ಕ್ಷೋಭ ಮನಯತ್ |
ಸ್ಮರೋ‌உಪಿ ತ್ವಾಂ ನತ್ವಾ ರತಿನಯನ-ಲೇಹ್ಯೇನ ವಪುಷಾ
ಮುನೀನಾಮಪ್ಯಂತಃ ಪ್ರಭವತಿ ಹಿ ಮೋಹಾಯ ಮಹತಾಮ್ || 5 ||

ಧನುಃ ಪೌಷ್ಪಂ ಮೌರ್ವೀ ಮಧುಕರಮಯೀ ಪಂಚ ವಿಶಿಖಾಃ
ವಸಂತಃ ಸಾಮಂತೋ ಮಲಯಮರು-ದಾಯೋಧನ-ರಥಃ |
ತಥಾಪ್ಯೇಕಃ ಸರ್ವಂ ಹಿಮಗಿರಿಸುತೇ ಕಾಮಪಿ ಕೃಪಾಂ
ಅಪಾಂಗಾತ್ತೇ ಲಬ್ಧ್ವಾ ಜಗದಿದ-ಮನಂಗೋ ವಿಜಯತೇ || 6 ||

ಕ್ವಣತ್ಕಾಂಚೀ-ದಾಮಾ ಕರಿ ಕಲಭ ಕುಂಭ-ಸ್ತನನತಾ
ಪರಿಕ್ಷೀಣಾ ಮಧ್ಯೇ ಪರಿಣತ ಶರಚ್ಚಂದ್ರ-ವದನಾ |
ಧನುರ್ಬಾಣಾನ್ ಪಾಶಂ ಸೃಣಿಮಪಿ ದಧಾನಾ ಕರತಲೈಃ
ಪುರಸ್ತಾ ದಾಸ್ತಾಂ ನಃ ಪುರಮಥಿತು ರಾಹೋ-ಪುರುಷಿಕಾ || 7 ||

ಸುಧಾಸಿಂಧೋರ್ಮಧ್ಯೇ ಸುರವಿಟ-ಪಿವಾಟೀ-ಪರಿವೃತೇ
ಮಣಿದ್ವೀಪೇ ನೀಪೋ-ಪವನವತಿ ಚಿಂತಾಮಣಿ ಗೃಹೇ |
ಶಿವಕಾರೇ ಮಂಚೇ ಪರಮಶಿವ-ಪರ್ಯಂಕ ನಿಲಯಾಮ್
ಭಜಂತಿ ತ್ವಾಂ ಧನ್ಯಾಃ ಕತಿಚನ ಚಿದಾನಂದ-ಲಹರೀಮ್ || 8 ||

ಮಹೀಂ ಮೂಲಾಧಾರೇ ಕಮಪಿ ಮಣಿಪೂರೇ ಹುತವಹಂ
ಸ್ಥಿತಂ ಸ್ವಧಿಷ್ಟಾನೇ ಹೃದಿ ಮರುತ-ಮಾಕಾಶ-ಮುಪರಿ |
ಮನೋ‌உಪಿ ಭ್ರೂಮಧ್ಯೇ ಸಕಲಮಪಿ ಭಿತ್ವಾ ಕುಲಪಥಂ
ಸಹಸ್ರಾರೇ ಪದ್ಮೇ ಸ ಹರಹಸಿ ಪತ್ಯಾ ವಿಹರಸೇ || 9 ||

ಸುಧಾಧಾರಾಸಾರೈ-ಶ್ಚರಣಯುಗಲಾಂತ-ರ್ವಿಗಲಿತೈಃ
ಪ್ರಪಂಚಂ ಸಿನ್ಞ್ಂತೀ ಪುನರಪಿ ರಸಾಮ್ನಾಯ-ಮಹಸಃ|
ಅವಾಪ್ಯ ಸ್ವಾಂ ಭೂಮಿಂ ಭುಜಗನಿಭ-ಮಧ್ಯುಷ್ಟ-ವಲಯಂ
ಸ್ವಮಾತ್ಮಾನಂ ಕೃತ್ವಾ ಸ್ವಪಿಷಿ ಕುಲಕುಂಡೇ ಕುಹರಿಣಿ || 10 ||

ಚತುರ್ಭಿಃ ಶ್ರೀಕಂಠೈಃ ಶಿವಯುವತಿಭಿಃ ಪಂಚಭಿಪಿ
ಪ್ರಭಿನ್ನಾಭಿಃ ಶಂಭೋರ್ನವಭಿರಪಿ ಮೂಲಪ್ರಕೃತಿಭಿಃ |
ಚತುಶ್ಚತ್ವಾರಿಂಶದ್-ವಸುದಲ-ಕಲಾಶ್ಚ್-ತ್ರಿವಲಯ-
ತ್ರಿರೇಖಭಿಃ ಸಾರ್ಧಂ ತವ ಶರಣಕೋಣಾಃ ಪರಿಣತಾಃ || 11 ||

ತ್ವದೀಯಂ ಸೌಂದರ್ಯಂ ತುಹಿನಗಿರಿಕನ್ಯೇ ತುಲಯಿತುಂ
ಕವೀಂದ್ರಾಃ ಕಲ್ಪಂತೇ ಕಥಮಪಿ ವಿರಿಂಚಿ-ಪ್ರಭೃತಯಃ |
ಯದಾಲೋಕೌತ್ಸುಕ್ಯಾ-ದಮರಲಲನಾ ಯಾಂತಿ ಮನಸಾ
ತಪೋಭಿರ್ದುಷ್ಪ್ರಾಪಾಮಪಿ ಗಿರಿಶ-ಸಾಯುಜ್ಯ-ಪದವೀಮ್ || 12 ||

ನರಂ ವರ್ಷೀಯಾಂಸಂ ನಯನವಿರಸಂ ನರ್ಮಸು ಜಡಂ
ತವಾಪಾಂಗಾಲೋಕೇ ಪತಿತ-ಮನುಧಾವಂತಿ ಶತಶಃ |
ಗಲದ್ವೇಣೀಬಂಧಾಃ ಕುಚಕಲಶ-ವಿಸ್ತ್ರಿಸ್ತ-ಸಿಚಯಾ
ಹಟಾತ್ ತ್ರುಟ್ಯತ್ಕಾಞ್ಯೋ ವಿಗಲಿತ-ದುಕೂಲಾ ಯುವತಯಃ || 13 ||

ಕ್ಷಿತೌ ಷಟ್ಪಂಚಾಶದ್-ದ್ವಿಸಮಧಿಕ-ಪಂಚಾಶ-ದುದಕೇ
ಹುತಶೇ ದ್ವಾಷಷ್ಟಿ-ಶ್ಚತುರಧಿಕ-ಪಂಚಾಶ-ದನಿಲೇ |
ದಿವಿ ದ್ವಿಃ ಷಟ್ ತ್ರಿಂಶನ್ ಮನಸಿ ಚ ಚತುಃಷಷ್ಟಿರಿತಿ ಯೇ
ಮಯೂಖಾ-ಸ್ತೇಷಾ-ಮಪ್ಯುಪರಿ ತವ ಪಾದಾಂಬುಜ-ಯುಗಮ್ || 14 ||

ಶರಜ್ಜ್ಯೋತ್ಸ್ನಾ ಶುದ್ಧಾಂ ಶಶಿಯುತ-ಜಟಾಜೂಟ-ಮಕುಟಾಂ
ವರ-ತ್ರಾಸ-ತ್ರಾಣ-ಸ್ಫಟಿಕಘುಟಿಕಾ-ಪುಸ್ತಕ-ಕರಾಮ್ |
ಸಕೃನ್ನ ತ್ವಾ ನತ್ವಾ ಕಥಮಿವ ಸತಾಂ ಸನ್ನಿದಧತೇ
ಮಧು-ಕ್ಷೀರ-ದ್ರಾಕ್ಷಾ-ಮಧುರಿಮ-ಧುರೀಣಾಃ ಫಣಿತಯಃ || 15 ||

ಕವೀಂದ್ರಾಣಾಂ ಚೇತಃ ಕಮಲವನ-ಬಾಲಾತಪ-ರುಚಿಂ
ಭಜಂತೇ ಯೇ ಸಂತಃ ಕತಿಚಿದರುಣಾಮೇವ ಭವತೀಮ್ |
ವಿರಿಂಚಿ-ಪ್ರೇಯಸ್ಯಾ-ಸ್ತರುಣತರ-ಶ್ರೃಂಗರ ಲಹರೀ-
ಗಭೀರಾಭಿ-ರ್ವಾಗ್ಭಿಃ ರ್ವಿದಧತಿ ಸತಾಂ ರಂಜನಮಮೀ || 16 ||

ಸವಿತ್ರೀಭಿ-ರ್ವಾಚಾಂ ಚಶಿ-ಮಣಿ ಶಿಲಾ-ಭಂಗ ರುಚಿಭಿ-
ರ್ವಶಿನ್ಯದ್ಯಾಭಿ-ಸ್ತ್ವಾಂ ಸಹ ಜನನಿ ಸಂಚಿಂತಯತಿ ಯಃ |
ಸ ಕರ್ತಾ ಕಾವ್ಯಾನಾಂ ಭವತಿ ಮಹತಾಂ ಭಂಗಿರುಚಿಭಿ-
ರ್ವಚೋಭಿ-ರ್ವಾಗ್ದೇವೀ-ವದನ-ಕಮಲಾಮೋದ ಮಧುರೈಃ || 17 ||

ತನುಚ್ಛಾಯಾಭಿಸ್ತೇ ತರುಣ-ತರಣಿ-ಶ್ರೀಸರಣಿಭಿ-
ರ್ದಿವಂ ಸರ್ವಾ-ಮುರ್ವೀ-ಮರುಣಿಮನಿ ಮಗ್ನಾಂ ಸ್ಮರತಿ ಯಃ |
ಭವಂತ್ಯಸ್ಯ ತ್ರಸ್ಯ-ದ್ವನಹರಿಣ-ಶಾಲೀನ-ನಯನಾಃ
ಸಹೋರ್ವಶ್ಯಾ ವಶ್ಯಾಃ ಕತಿ ಕತಿ ನ ಗೀರ್ವಾಣ-ಗಣಿಕಾಃ || 18 ||

ಮುಖಂ ಬಿಂದುಂ ಕೃತ್ವಾ ಕುಚಯುಗಮಧ-ಸ್ತಸ್ಯ ತದಧೋ
ಹರಾರ್ಧಂ ಧ್ಯಾಯೇದ್ಯೋ ಹರಮಹಿಷಿ ತೇ ಮನ್ಮಥಕಲಾಮ್ |
ಸ ಸದ್ಯಃ ಸಂಕ್ಷೋಭಂ ನಯತಿ ವನಿತಾ ಇತ್ಯತಿಲಘು
ತ್ರಿಲೋಕೀಮಪ್ಯಾಶು ಭ್ರಮಯತಿ ರವೀಂದು-ಸ್ತನಯುಗಾಮ್ || 19 ||

ಕಿರಂತೀ-ಮಂಗೇಭ್ಯಃ ಕಿರಣ-ನಿಕುರುಂಬಮೃತರಸಂ
ಹೃದಿ ತ್ವಾ ಮಾಧತ್ತೇ ಹಿಮಕರಶಿಲಾ-ಮೂರ್ತಿಮಿವ ಯಃ |
ಸ ಸರ್ಪಾಣಾಂ ದರ್ಪಂ ಶಮಯತಿ ಶಕುಂತಧಿಪ ಇವ
ಜ್ವರಪ್ಲುಷ್ಟಾನ್ ದೃಷ್ಟ್ಯಾ ಸುಖಯತಿ ಸುಧಾಧಾರಸಿರಯಾ || 20 ||

ತಟಿಲ್ಲೇಖಾ-ತನ್ವೀಂ ತಪನ ಶಶಿ ವೈಶ್ವಾನರ ಮಯೀಂ
ನಿಷ್ಣ್ಣಾಂ ಷಣ್ಣಾಮಪ್ಯುಪರಿ ಕಮಲಾನಾಂ ತವ ಕಲಾಮ್ |
ಮಹಾಪದ್ಮಾತವ್ಯಾಂ ಮೃದಿತ-ಮಲಮಾಯೇನ ಮನಸಾ
ಮಹಾಂತಃ ಪಶ್ಯಂತೋ ದಧತಿ ಪರಮಾಹ್ಲಾದ-ಲಹರೀಮ್ || 21 ||

ಭವಾನಿ ತ್ವಂ ದಾಸೇ ಮಯಿ ವಿತರ ದೃಷ್ಟಿಂ ಸಕರುಣಾಂ
ಇತಿ ಸ್ತೋತುಂ ವಾಞ್ಛನ್ ಕಥಯತಿ ಭವಾನಿ ತ್ವಮಿತಿ ಯಃ |
ತದೈವ ತ್ವಂ ತಸ್ಮೈ ದಿಶಸಿ ನಿಜಸಾಯುಜ್ಯ-ಪದವೀಂ
ಮುಕುಂದ-ಬ್ರಮ್ಹೇಂದ್ರ ಸ್ಫುಟ ಮಕುಟ ನೀರಾಜಿತಪದಾಮ್ || 22 ||

ತ್ವಯಾ ಹೃತ್ವಾ ವಾಮಂ ವಪು-ರಪರಿತೃಪ್ತೇನ ಮನಸಾ
ಶರೀರಾರ್ಧಂ ಶಂಭೋ-ರಪರಮಪಿ ಶಂಕೇ ಹೃತಮಭೂತ್ |
ಯದೇತತ್ ತ್ವದ್ರೂಪಂ ಸಕಲಮರುಣಾಭಂ ತ್ರಿನಯನಂ
ಕುಚಾಭ್ಯಾಮಾನಮ್ರಂ ಕುಟಿಲ-ಶಶಿಚೂಡಾಲ-ಮಕುಟಮ್ || 23 ||

ಜಗತ್ಸೂತೇ ಧಾತಾ ಹರಿರವತಿ ರುದ್ರಃ ಕ್ಷಪಯತೇ
ತಿರಸ್ಕುರ್ವ-ನ್ನೇತತ್ ಸ್ವಮಪಿ ವಪು-ರೀಶ-ಸ್ತಿರಯತಿ |
ಸದಾ ಪೂರ್ವಃ ಸರ್ವಂ ತದಿದ ಮನುಗೃಹ್ಣಾತಿ ಚ ಶಿವ-
ಸ್ತವಾಙ್ಞಾ ಮಲಂಬ್ಯ ಕ್ಷಣಚಲಿತಯೋ ರ್ಭ್ರೂಲತಿಕಯೋಃ || 24 ||

ತ್ರಯಾಣಾಂ ದೇವಾನಾಂ ತ್ರಿಗುಣ-ಜನಿತಾನಾಂ ತವ ಶಿವೇ
ಭವೇತ್ ಪೂಜಾ ಪೂಜಾ ತವ ಚರಣಯೋ-ರ್ಯಾ ವಿರಚಿತಾ |
ತಥಾ ಹಿ ತ್ವತ್ಪಾದೋದ್ವಹನ-ಮಣಿಪೀಠಸ್ಯ ನಿಕಟೇ
ಸ್ಥಿತಾ ಹ್ಯೇತೇ-ಶಶ್ವನ್ಮುಕುಲಿತ ಕರೋತ್ತಂಸ-ಮಕುಟಾಃ || 25 ||

ವಿರಿಂಚಿಃ ಪಂಚತ್ವಂ ವ್ರಜತಿ ಹರಿರಾಪ್ನೋತಿ ವಿರತಿಂ
ವಿನಾಶಂ ಕೀನಾಶೋ ಭಜತಿ ಧನದೋ ಯಾತಿ ನಿಧನಮ್ |
ವಿತಂದ್ರೀ ಮಾಹೇಂದ್ರೀ-ವಿತತಿರಪಿ ಸಂಮೀಲಿತ-ದೃಶಾ
ಮಹಾಸಂಹಾರೇ‌உಸ್ಮಿನ್ ವಿಹರತಿ ಸತಿ ತ್ವತ್ಪತಿ ರಸೌ || 26 ||

ಜಪೋ ಜಲ್ಪಃ ಶಿಲ್ಪಂ ಸಕಲಮಪಿ ಮುದ್ರಾವಿರಚನಾ
ಗತಿಃ ಪ್ರಾದಕ್ಷಿಣ್ಯ-ಕ್ರಮಣ-ಮಶನಾದ್ಯಾ ಹುತಿ-ವಿಧಿಃ |
ಪ್ರಣಾಮಃ ಸಂವೇಶಃ ಸುಖಮಖಿಲ-ಮಾತ್ಮಾರ್ಪಣ-ದೃಶಾ
ಸಪರ್ಯಾ ಪರ್ಯಾಯ-ಸ್ತವ ಭವತು ಯನ್ಮೇ ವಿಲಸಿತಮ್ || 27 ||

ಸುಧಾಮಪ್ಯಾಸ್ವಾದ್ಯ ಪ್ರತಿ-ಭಯ-ಜರಮೃತ್ಯು-ಹರಿಣೀಂ
ವಿಪದ್ಯಂತೇ ವಿಶ್ವೇ ವಿಧಿ-ಶತಮಖಾದ್ಯಾ ದಿವಿಷದಃ |
ಕರಾಲಂ ಯತ್ ಕ್ಷ್ವೇಲಂ ಕಬಲಿತವತಃ ಕಾಲಕಲನಾ
ನ ಶಂಭೋಸ್ತನ್ಮೂಲಂ ತವ ಜನನಿ ತಾಟಂಕ ಮಹಿಮಾ || 28 ||

ಕಿರೀಟಂ ವೈರಿಂಚಂ ಪರಿಹರ ಪುರಃ ಕೈಟಭಭಿದಃ
ಕಠೋರೇ ಕೋಠೀರೇ ಸ್ಕಲಸಿ ಜಹಿ ಜಂಭಾರಿ-ಮಕುಟಮ್ |
ಪ್ರಣಮ್ರೇಷ್ವೇತೇಷು ಪ್ರಸಭ-ಮುಪಯಾತಸ್ಯ ಭವನಂ
ಭವಸ್ಯಭ್ಯುತ್ಥಾನೇ ತವ ಪರಿಜನೋಕ್ತಿ-ರ್ವಿಜಯತೇ || 29 ||

ಸ್ವದೇಹೋದ್ಭೂತಾಭಿ-ರ್ಘೃಣಿಭಿ-ರಣಿಮಾದ್ಯಾಭಿ-ರಭಿತೋ
ನಿಷೇವ್ಯೇ ನಿತ್ಯೇ ತ್ವಾ ಮಹಮಿತಿ ಸದಾ ಭಾವಯತಿ ಯಃ |
ಕಿಮಾಶ್ಚರ್ಯಂ ತಸ್ಯ ತ್ರಿನಯನ-ಸಮೃದ್ಧಿಂ ತೃಣಯತೋ
ಮಹಾಸಂವರ್ತಾಗ್ನಿ-ರ್ವಿರಚಯತಿ ನೀರಾಜನವಿಧಿಮ್ || 30 ||

ಚತುಃ-ಷಷ್ಟಯಾ ತಂತ್ರೈಃ ಸಕಲ ಮತಿಸಂಧಾಯ ಭುವನಂ
ಸ್ಥಿತಸ್ತತ್ತ್ತ-ಸಿದ್ಧಿ ಪ್ರಸವ ಪರತಂತ್ರೈಃ ಪಶುಪತಿಃ |
ಪುನಸ್ತ್ವ-ನ್ನಿರ್ಬಂಧಾ ದಖಿಲ-ಪುರುಷಾರ್ಥೈಕ ಘಟನಾ-
ಸ್ವತಂತ್ರಂ ತೇ ತಂತ್ರಂ ಕ್ಷಿತಿತಲ ಮವಾತೀತರ-ದಿದಮ್ || 31 ||

ಶಿವಃ ಶಕ್ತಿಃ ಕಾಮಃ ಕ್ಷಿತಿ-ರಥ ರವಿಃ ಶೀತಕಿರಣಃ
ಸ್ಮರೋ ಹಂಸಃ ಶಕ್ರ-ಸ್ತದನು ಚ ಪರಾ-ಮಾರ-ಹರಯಃ |
ಅಮೀ ಹೃಲ್ಲೇಖಾಭಿ-ಸ್ತಿಸೃಭಿ-ರವಸಾನೇಷು ಘಟಿತಾ
ಭಜಂತೇ ವರ್ಣಾಸ್ತೇ ತವ ಜನನಿ ನಾಮಾವಯವತಾಮ್ || 32 ||

ಸ್ಮರಂ ಯೋನಿಂ ಲಕ್ಷ್ಮೀಂ ತ್ರಿತಯ-ಮಿದ-ಮಾದೌ ತವ ಮನೋ
ರ್ನಿಧಾಯೈಕೇ ನಿತ್ಯೇ ನಿರವಧಿ-ಮಹಾಭೋಗ-ರಸಿಕಾಃ |
ಭಜಂತಿ ತ್ವಾಂ ಚಿಂತಾಮಣಿ-ಗುಣನಿಬದ್ಧಾಕ್ಷ-ವಲಯಾಃ
ಶಿವಾಗ್ನೌ ಜುಹ್ವಂತಃ ಸುರಭಿಘೃತ-ಧಾರಾಹುತಿ-ಶತೈ || 33 ||

ಶರೀರಂ ತ್ವಂ ಶಂಭೋಃ ಶಶಿ-ಮಿಹಿರ-ವಕ್ಷೋರುಹ-ಯುಗಂ
ತವಾತ್ಮಾನಂ ಮನ್ಯೇ ಭಗವತಿ ನವಾತ್ಮಾನ-ಮನಘಮ್ |
ಅತಃ ಶೇಷಃ ಶೇಷೀತ್ಯಯ-ಮುಭಯ-ಸಾಧಾರಣತಯಾ
ಸ್ಥಿತಃ ಸಂಬಂಧೋ ವಾಂ ಸಮರಸ-ಪರಾನಂದ-ಪರಯೋಃ || 34 ||

ಮನಸ್ತ್ವಂ ವ್ಯೋಮ ತ್ವಂ ಮರುದಸಿ ಮರುತ್ಸಾರಥಿ-ರಸಿ
ತ್ವಮಾಪ-ಸ್ತ್ವಂ ಭೂಮಿ-ಸ್ತ್ವಯಿ ಪರಿಣತಾಯಾಂ ನ ಹಿ ಪರಮ್ |
ತ್ವಮೇವ ಸ್ವಾತ್ಮಾನಂ ಪರಿಣ್ಮಯಿತುಂ ವಿಶ್ವ ವಪುಷಾ
ಚಿದಾನಂದಾಕಾರಂ ಶಿವಯುವತಿ ಭಾವೇನ ಬಿಭೃಷೇ || 35 ||

ತವಾಙ್ಞಚಕ್ರಸ್ಥಂ ತಪನ-ಶಶಿ ಕೋಟಿ-ದ್ಯುತಿಧರಂ
ಪರಂ ಶಂಭು ವಂದೇ ಪರಿಮಿಲಿತ-ಪಾರ್ಶ್ವಂ ಪರಚಿತಾ |
ಯಮಾರಾಧ್ಯನ್ ಭಕ್ತ್ಯಾ ರವಿ ಶಶಿ ಶುಚೀನಾ-ಮವಿಷಯೇ
ನಿರಾಲೋಕೇ ‌உಲೋಕೇ ನಿವಸತಿ ಹಿ ಭಾಲೋಕ-ಭುವನೇ || 36 ||

ವಿಶುದ್ಧೌ ತೇ ಶುದ್ಧಸ್ಫತಿಕ ವಿಶದಂ ವ್ಯೋಮ-ಜನಕಂ
ಶಿವಂ ಸೇವೇ ದೇವೀಮಪಿ ಶಿವಸಮಾನ-ವ್ಯವಸಿತಾಮ್ |
ಯಯೋಃ ಕಾಂತ್ಯಾ ಯಾಂತ್ಯಾಃ ಶಶಿಕಿರಣ್-ಸಾರೂಪ್ಯಸರಣೇ
ವಿಧೂತಾಂತ-ರ್ಧ್ವಾಂತಾ ವಿಲಸತಿ ಚಕೋರೀವ ಜಗತೀ || 37 ||

ಸಮುನ್ಮೀಲತ್ ಸಂವಿತ್ಕಮಲ-ಮಕರಂದೈಕ-ರಸಿಕಂ
ಭಜೇ ಹಂಸದ್ವಂದ್ವಂ ಕಿಮಪಿ ಮಹತಾಂ ಮಾನಸಚರಮ್ |
ಯದಾಲಾಪಾ-ದಷ್ಟಾದಶ-ಗುಣಿತ-ವಿದ್ಯಾಪರಿಣತಿಃ
ಯದಾದತ್ತೇ ದೋಷಾದ್ ಗುಣ-ಮಖಿಲ-ಮದ್ಭ್ಯಃ ಪಯ ಇವ || 38 ||

ತವ ಸ್ವಾಧಿಷ್ಠಾನೇ ಹುತವಹ-ಮಧಿಷ್ಠಾಯ ನಿರತಂ
ತಮೀಡೇ ಸಂವರ್ತಂ ಜನನಿ ಮಹತೀಂ ತಾಂ ಚ ಸಮಯಾಮ್ |
ಯದಾಲೋಕೇ ಲೋಕಾನ್ ದಹತಿ ಮಹಸಿ ಕ್ರೋಧ-ಕಲಿತೇ
ದಯಾರ್ದ್ರಾ ಯಾ ದೃಷ್ಟಿಃ ಶಿಶಿರ-ಮುಪಚಾರಂ ರಚಯತಿ || 39 ||

ತಟಿತ್ವಂತಂ ಶಕ್ತ್ಯಾ ತಿಮಿರ-ಪರಿಪಂಥಿ-ಸ್ಫುರಣಯಾ
ಸ್ಫುರ-ನ್ನಾ ನರತ್ನಾಭರಣ-ಪರಿಣದ್ಧೇಂದ್ರ-ಧನುಷಮ್ |
ತವ ಶ್ಯಾಮಂ ಮೇಘಂ ಕಮಪಿ ಮಣಿಪೂರೈಕ-ಶರಣಂ
ನಿಷೇವೇ ವರ್ಷಂತಂ-ಹರಮಿಹಿರ-ತಪ್ತಂ ತ್ರಿಭುವನಮ್ || 40 ||

ತವಾಧಾರೇ ಮೂಲೇ ಸಹ ಸಮಯಯಾ ಲಾಸ್ಯಪರಯಾ
ನವಾತ್ಮಾನ ಮನ್ಯೇ ನವರಸ-ಮಹಾತಾಂಡವ-ನಟಮ್ |
ಉಭಾಭ್ಯಾ ಮೇತಾಭ್ಯಾ-ಮುದಯ-ವಿಧಿ ಮುದ್ದಿಶ್ಯ ದಯಯಾ
ಸನಾಥಾಭ್ಯಾಂ ಜಙ್ಞೇ ಜನಕ ಜನನೀಮತ್ ಜಗದಿದಮ್ || 41 ||

ದ್ವಿತೀಯ ಭಾಗಃ – ಸೌಂದರ್ಯ ಲಹರೀ

ಗತೈ-ರ್ಮಾಣಿಕ್ಯತ್ವಂ ಗಗನಮಣಿಭಿಃ ಸಾಂದ್ರಘಟಿತಂ
ಕಿರೀಟಂ ತೇ ಹೈಮಂ ಹಿಮಗಿರಿಸುತೇ ಕೀತಯತಿ ಯಃ ||
ಸ ನೀಡೇಯಚ್ಛಾಯಾ-ಚ್ಛುರಣ-ಶಕಲಂ ಚಂದ್ರ-ಶಕಲಂ
ಧನುಃ ಶೌನಾಸೀರಂ ಕಿಮಿತಿ ನ ನಿಬಧ್ನಾತಿ ಧಿಷಣಾಮ್ || 42 ||

ಧುನೋತು ಧ್ವಾಂತಂ ನ-ಸ್ತುಲಿತ-ದಲಿತೇಂದೀವರ-ವನಂ
ಘನಸ್ನಿಗ್ಧ-ಶ್ಲಕ್ಷ್ಣಂ ಚಿಕುರ ನಿಕುರುಂಬಂ ತವ ಶಿವೇ |
ಯದೀಯಂ ಸೌರಭ್ಯಂ ಸಹಜ-ಮುಪಲಬ್ಧುಂ ಸುಮನಸೋ
ವಸಂತ್ಯಸ್ಮಿನ್ ಮನ್ಯೇ ಬಲಮಥನ ವಾಟೀ-ವಿಟಪಿನಾಮ್ || 43 ||

ತನೋತು ಕ್ಷೇಮಂ ನ-ಸ್ತವ ವದನಸೌಂದರ್ಯಲಹರೀ
ಪರೀವಾಹಸ್ರೋತಃ-ಸರಣಿರಿವ ಸೀಮಂತಸರಣಿಃ|
ವಹಂತೀ- ಸಿಂದೂರಂ ಪ್ರಬಲಕಬರೀ-ಭಾರ-ತಿಮಿರ
ದ್ವಿಷಾಂ ಬೃಂದೈ-ರ್ವಂದೀಕೃತಮೇವ ನವೀನಾರ್ಕ ಕೇರಣಮ್ || 44 ||

ಅರಾಲೈ ಸ್ವಾಭಾವ್ಯಾ-ದಲಿಕಲಭ-ಸಶ್ರೀಭಿ ರಲಕೈಃ
ಪರೀತಂ ತೇ ವಕ್ತ್ರಂ ಪರಿಹಸತಿ ಪಂಕೇರುಹರುಚಿಮ್ |
ದರಸ್ಮೇರೇ ಯಸ್ಮಿನ್ ದಶನರುಚಿ ಕಿಂಜಲ್ಕ-ರುಚಿರೇ
ಸುಗಂಧೌ ಮಾದ್ಯಂತಿ ಸ್ಮರದಹನ ಚಕ್ಷು-ರ್ಮಧುಲಿಹಃ || 45 ||

ಲಲಾಟಂ ಲಾವಣ್ಯ ದ್ಯುತಿ ವಿಮಲ-ಮಾಭಾತಿ ತವ ಯತ್
ದ್ವಿತೀಯಂ ತನ್ಮನ್ಯೇ ಮಕುಟಘಟಿತಂ ಚಂದ್ರಶಕಲಮ್ |
ವಿಪರ್ಯಾಸ-ನ್ಯಾಸಾ ದುಭಯಮಪಿ ಸಂಭೂಯ ಚ ಮಿಥಃ
ಸುಧಾಲೇಪಸ್ಯೂತಿಃ ಪರಿಣಮತಿ ರಾಕಾ-ಹಿಮಕರಃ || 46 ||

ಭ್ರುವೌ ಭುಗ್ನೇ ಕಿಂಚಿದ್ಭುವನ-ಭಯ-ಭಂಗವ್ಯಸನಿನಿ
ತ್ವದೀಯೇ ನೇತ್ರಾಭ್ಯಾಂ ಮಧುಕರ-ರುಚಿಭ್ಯಾಂ ಧೃತಗುಣಮ್ |
ಧನು ರ್ಮನ್ಯೇ ಸವ್ಯೇತರಕರ ಗೃಹೀತಂ ರತಿಪತೇಃ
ಪ್ರಕೋಷ್ಟೇ ಮುಷ್ಟೌ ಚ ಸ್ಥಗಯತೇ ನಿಗೂಢಾಂತರ-ಮುಮೇ || 47 ||

ಅಹಃ ಸೂತೇ ಸವ್ಯ ತವ ನಯನ-ಮರ್ಕಾತ್ಮಕತಯಾ
ತ್ರಿಯಾಮಾಂ ವಾಮಂ ತೇ ಸೃಜತಿ ರಜನೀನಾಯಕತಯಾ |
ತೃತೀಯಾ ತೇ ದೃಷ್ಟಿ-ರ್ದರದಲಿತ-ಹೇಮಾಂಬುಜ-ರುಚಿಃ
ಸಮಾಧತ್ತೇ ಸಂಧ್ಯಾಂ ದಿವಸರ್-ನಿಶಯೋ-ರಂತರಚರೀಮ್ || 48 ||

ವಿಶಾಲಾ ಕಲ್ಯಾಣೀ ಸ್ಫುತರುಚಿ-ರಯೋಧ್ಯಾ ಕುವಲಯೈಃ
ಕೃಪಾಧಾರಾಧಾರಾ ಕಿಮಪಿ ಮಧುರಾ‌உಭೋಗವತಿಕಾ |
ಅವಂತೀ ದೃಷ್ಟಿಸ್ತೇ ಬಹುನಗರ-ವಿಸ್ತಾರ-ವಿಜಯಾ
ಧ್ರುವಂ ತತ್ತನ್ನಾಮ-ವ್ಯವಹರಣ-ಯೋಗ್ಯಾವಿಜಯತೇ || 49 ||

ಕವೀನಾಂ ಸಂದರ್ಭ-ಸ್ತಬಕ-ಮಕರಂದೈಕ-ರಸಿಕಂ
ಕಟಾಕ್ಷ-ವ್ಯಾಕ್ಷೇಪ-ಭ್ರಮರಕಲಭೌ ಕರ್ಣಯುಗಲಮ್ |
ಅಮುಂಚ್ಂತೌ ದೃಷ್ಟ್ವಾ ತವ ನವರಸಾಸ್ವಾದ-ತರಲೌ
ಅಸೂಯಾ-ಸಂಸರ್ಗಾ-ದಲಿಕನಯನಂ ಕಿಂಚಿದರುಣಮ್ || 50 ||

ಶಿವೇ ಶಂಗಾರಾರ್ದ್ರಾ ತದಿತರಜನೇ ಕುತ್ಸನಪರಾ
ಸರೋಷಾ ಗಂಗಾಯಾಂ ಗಿರಿಶಚರಿತೇ ವಿಸ್ಮಯವತೀ |
ಹರಾಹಿಭ್ಯೋ ಭೀತಾ ಸರಸಿರುಹ ಸೌಭಾಗ್ಯ-ಜನನೀ
ಸಖೀಷು ಸ್ಮೇರಾ ತೇ ಮಯಿ ಜನನಿ ದೃಷ್ಟಿಃ ಸಕರುಣಾ || 51 ||

ಗತೇ ಕರ್ಣಾಭ್ಯರ್ಣಂ ಗರುತ ಇವ ಪಕ್ಷ್ಮಾಣಿ ದಧತೀ
ಪುರಾಂ ಭೇತ್ತು-ಶ್ಚಿತ್ತಪ್ರಶಮ-ರಸ-ವಿದ್ರಾವಣ ಫಲೇ |
ಇಮೇ ನೇತ್ರೇ ಗೋತ್ರಾಧರಪತಿ-ಕುಲೋತ್ತಂಸ-ಕಲಿಕೇ
ತವಾಕರ್ಣಾಕೃಷ್ಟ ಸ್ಮರಶರ-ವಿಲಾಸಂ ಕಲಯತಃ|| 52 ||

ವಿಭಕ್ತ-ತ್ರೈವರ್ಣ್ಯಂ ವ್ಯತಿಕರಿತ-ಲೀಲಾಂಜನತಯಾ
ವಿಭಾತಿ ತ್ವನ್ನೇತ್ರ ತ್ರಿತಯ ಮಿದ-ಮೀಶಾನದಯಿತೇ |
ಪುನಃ ಸ್ರಷ್ಟುಂ ದೇವಾನ್ ದ್ರುಹಿಣ ಹರಿ-ರುದ್ರಾನುಪರತಾನ್
ರಜಃ ಸತ್ವಂ ವೇಭ್ರತ್ ತಮ ಇತಿ ಗುಣಾನಾಂ ತ್ರಯಮಿವ || 53 ||

ಪವಿತ್ರೀಕರ್ತುಂ ನಃ ಪಶುಪತಿ-ಪರಾಧೀನ-ಹೃದಯೇ
ದಯಾಮಿತ್ರೈ ರ್ನೇತ್ರೈ-ರರುಣ-ಧವಲ-ಶ್ಯಾಮ ರುಚಿಭಿಃ |
ನದಃ ಶೋಣೋ ಗಂಗಾ ತಪನತನಯೇತಿ ಧ್ರುವಮುಮ್
ತ್ರಯಾಣಾಂ ತೀರ್ಥಾನಾ-ಮುಪನಯಸಿ ಸಂಭೇದ-ಮನಘಮ್ || 54 ||

ನಿಮೇಷೋನ್ಮೇಷಾಭ್ಯಾಂ ಪ್ರಲಯಮುದಯಂ ಯಾತಿ ಜಗತಿ
ತವೇತ್ಯಾಹುಃ ಸಂತೋ ಧರಣಿಧರ-ರಾಜನ್ಯತನಯೇ |
ತ್ವದುನ್ಮೇಷಾಜ್ಜಾತಂ ಜಗದಿದ-ಮಶೇಷಂ ಪ್ರಲಯತಃ
ಪರೇತ್ರಾತುಂ ಶಂಂಕೇ ಪರಿಹೃತ-ನಿಮೇಷಾ-ಸ್ತವ ದೃಶಃ || 55 ||

ತವಾಪರ್ಣೇ ಕರ್ಣೇ ಜಪನಯನ ಪೈಶುನ್ಯ ಚಕಿತಾ
ನಿಲೀಯಂತೇ ತೋಯೇ ನಿಯತ ಮನಿಮೇಷಾಃ ಶಫರಿಕಾಃ |
ಇಯಂ ಚ ಶ್ರೀ-ರ್ಬದ್ಧಚ್ಛದಪುಟಕವಾಟಂ ಕುವಲಯಂ
ಜಹಾತಿ ಪ್ರತ್ಯೂಷೇ ನಿಶಿ ಚ ವಿಘತಯ್ಯ ಪ್ರವಿಶತಿ|| 56 ||

ದೃಶಾ ದ್ರಾಘೀಯಸ್ಯಾ ದರದಲಿತ ನೀಲೋತ್ಪಲ ರುಚಾ
ದವೀಯಾಂಸಂ ದೀನಂ ಸ್ನಪಾ ಕೃಪಯಾ ಮಾಮಪಿ ಶಿವೇ |
ಅನೇನಾಯಂ ಧನ್ಯೋ ಭವತಿ ನ ಚ ತೇ ಹಾನಿರಿಯತಾ
ವನೇ ವಾ ಹರ್ಮ್ಯೇ ವಾ ಸಮಕರ ನಿಪಾತೋ ಹಿಮಕರಃ || 57 ||

ಅರಾಲಂ ತೇ ಪಾಲೀಯುಗಲ-ಮಗರಾಜನ್ಯತನಯೇ
ನ ಕೇಷಾ-ಮಾಧತ್ತೇ ಕುಸುಮಶರ ಕೋದಂಡ-ಕುತುಕಮ್ |
ತಿರಶ್ಚೀನೋ ಯತ್ರ ಶ್ರವಣಪಥ-ಮುಲ್ಲ್ಙ್ಯ್ಯ ವಿಲಸನ್
ಅಪಾಂಗ ವ್ಯಾಸಂಗೋ ದಿಶತಿ ಶರಸಂಧಾನ ಧಿಷಣಾಮ್ || 58 ||

ಸ್ಫುರದ್ಗಂಡಾಭೋಗ-ಪ್ರತಿಫಲಿತ ತಾಟ್ಂಕ ಯುಗಲಂ
ಚತುಶ್ಚಕ್ರಂ ಮನ್ಯೇ ತವ ಮುಖಮಿದಂ ಮನ್ಮಥರಥಮ್ |
ಯಮಾರುಹ್ಯ ದ್ರುಹ್ಯ ತ್ಯವನಿರಥ ಮರ್ಕೇಂದುಚರಣಂ
ಮಹಾವೀರೋ ಮಾರಃ ಪ್ರಮಥಪತಯೇ ಸಜ್ಜಿತವತೇ || 59 ||

ಸರಸ್ವತ್ಯಾಃ ಸೂಕ್ತೀ-ರಮೃತಲಹರೀ ಕೌಶಲಹರೀಃ
ಪಿಬ್ನತ್ಯಾಃ ಶರ್ವಾಣಿ ಶ್ರವಣ-ಚುಲುಕಾಭ್ಯಾ-ಮವಿರಲಮ್ |
ಚಮತ್ಕಾರಃ-ಶ್ಲಾಘಾಚಲಿತ-ಶಿರಸಃ ಕುಂಡಲಗಣೋ
ಝಣತ್ಕರೈಸ್ತಾರೈಃ ಪ್ರತಿವಚನ-ಮಾಚಷ್ಟ ಇವ ತೇ || 60 ||

ಅಸೌ ನಾಸಾವಂಶ-ಸ್ತುಹಿನಗಿರಿವಣ್ಶ-ಧ್ವಜಪಟಿ
ತ್ವದೀಯೋ ನೇದೀಯಃ ಫಲತು ಫಲ-ಮಸ್ಮಾಕಮುಚಿತಮ್ |
ವಹತ್ಯಂತರ್ಮುಕ್ತಾಃ ಶಿಶಿರಕರ-ನಿಶ್ವಾಸ-ಗಲಿತಂ
ಸಮೃದ್ಧ್ಯಾ ಯತ್ತಾಸಾಂ ಬಹಿರಪಿ ಚ ಮುಕ್ತಾಮಣಿಧರಃ || 61 ||

ಪ್ರಕೃತ್ಯಾ‌உರಕ್ತಾಯಾ-ಸ್ತವ ಸುದತಿ ದಂದಚ್ಛದರುಚೇಃ
ಪ್ರವಕ್ಷ್ಯೇ ಸದೃಶ್ಯಂ ಜನಯತು ಫಲಂ ವಿದ್ರುಮಲತಾ |
ನ ಬಿಂಬಂ ತದ್ಬಿಂಬ-ಪ್ರತಿಫಲನ-ರಾಗಾ-ದರುಣಿತಂ
ತುಲಾಮಧ್ರಾರೋಢುಂ ಕಥಮಿವ ವಿಲಜ್ಜೇತ ಕಲಯಾ || 62 ||

ಸ್ಮಿತಜ್ಯೋತ್ಸ್ನಾಜಾಲಂ ತವ ವದನಚಂದ್ರಸ್ಯ ಪಿಬತಾಂ
ಚಕೋರಾಣಾ-ಮಾಸೀ-ದತಿರಸತಯಾ ಚಂಚು-ಜಡಿಮಾ |
ಅತಸ್ತೇ ಶೀತಾಂಶೋ-ರಮೃತಲಹರೀ ಮಾಮ್ಲರುಚಯಃ
ಪಿಬಂತೀ ಸ್ವಚ್ಛಂದಂ ನಿಶಿ ನಿಶಿ ಭೃಶಂ ಕಾಂಜಿ ಕಧಿಯಾ || 63 ||

ಅವಿಶ್ರಾಂತಂ ಪತ್ಯುರ್ಗುಣಗಣ ಕಥಾಮ್ರೇಡನಜಪಾ
ಜಪಾಪುಷ್ಪಚ್ಛಾಯಾ ತವ ಜನನಿ ಜಿಹ್ವಾ ಜಯತಿ ಸಾ |
ಯದಗ್ರಾಸೀನಾಯಾಃ ಸ್ಫಟಿಕದೃಷ-ದಚ್ಛಚ್ಛವಿಮಯಿ
ಸರಸ್ವತ್ಯಾ ಮೂರ್ತಿಃ ಪರಿಣಮತಿ ಮಾಣಿಕ್ಯವಪುಷಾ || 64 ||

ರಣೇ ಜಿತ್ವಾ ದೈತ್ಯಾ ನಪಹೃತ-ಶಿರಸ್ತ್ರೈಃ ಕವಚಿಭಿಃ
ನಿವೃತ್ತೈ-ಶ್ಚಂಡಾಂಶ-ತ್ರಿಪುರಹರ-ನಿರ್ಮಾಲ್ಯ-ವಿಮುಖೈಃ |
ವಿಶಾಖೇಂದ್ರೋಪೇಂದ್ರೈಃ ಶಶಿವಿಶದ-ಕರ್ಪೂರಶಕಲಾ
ವಿಲೀಯಂತೇ ಮಾತಸ್ತವ ವದನತಾಂಬೂಲ-ಕಬಲಾಃ || 65 ||

ವಿಪಂಚ್ಯಾ ಗಾಯಂತೀ ವಿವಿಧ-ಮಪದಾನಂ ಪಶುಪತೇ-
ಸ್ತ್ವಯಾರಬ್ಧೇ ವಕ್ತುಂ ಚಲಿತಶಿರಸಾ ಸಾಧುವಚನೇ |
ತದೀಯೈ-ರ್ಮಾಧುರ್ಯೈ-ರಪಲಪಿತ-ತಂತ್ರೀಕಲರವಾಂ
ನಿಜಾಂ ವೀಣಾಂ ವಾಣೀಂ ನಿಚುಲಯತಿ ಚೋಲೇನ ನಿಭೃತಮ್ || 66 ||

ಕರಗ್ರೇಣ ಸ್ಪೃಷ್ಟಂ ತುಹಿನಗಿರಿಣಾ ವತ್ಸಲತಯಾ
ಗಿರಿಶೇನೋ-ದಸ್ತಂ ಮುಹುರಧರಪಾನಾಕುಲತಯಾ |
ಕರಗ್ರಾಹ್ಯಂ ಶಂಭೋರ್ಮುಖಮುಕುರವೃಂತಂ ಗಿರಿಸುತೇ
ಕಥಂಕರಂ ಬ್ರೂಮ-ಸ್ತವ ಚುಬುಕಮೋಪಮ್ಯರಹಿತಮ್ || 67 ||

ಭುಜಾಶ್ಲೇಷಾನ್ನಿತ್ಯಂ ಪುರದಮಯಿತುಃ ಕನ್ಟಕವತೀ
ತವ ಗ್ರೀವಾ ಧತ್ತೇ ಮುಖಕಮಲನಾಲ-ಶ್ರಿಯಮಿಯಮ್ |
ಸ್ವತಃ ಶ್ವೇತಾ ಕಾಲಾ ಗರು ಬಹುಲ-ಜಂಬಾಲಮಲಿನಾ
ಮೃಣಾಲೀಲಾಲಿತ್ಯಂ ವಹತಿ ಯದಧೋ ಹಾರಲತಿಕಾ || 68 ||

ಗಲೇ ರೇಖಾಸ್ತಿಸ್ರೋ ಗತಿ ಗಮಕ ಗೀತೈಕ ನಿಪುಣೇ
ವಿವಾಹ-ವ್ಯಾನದ್ಧ-ಪ್ರಗುಣಗುಣ-ಸಂಖ್ಯಾ ಪ್ರತಿಭುವಃ |
ವಿರಾಜಂತೇ ನಾನಾವಿಧ-ಮಧುರ-ರಾಗಾಕರ-ಭುವಾಂ
ತ್ರಯಾಣಾಂ ಗ್ರಾಮಾಣಾಂ ಸ್ಥಿತಿ-ನಿಯಮ-ಸೀಮಾನ ಇವ ತೇ || 69 ||

ಮೃಣಾಲೀ-ಮೃದ್ವೀನಾಂ ತವ ಭುಜಲತಾನಾಂ ಚತಸೃಣಾಂ
ಚತುರ್ಭಿಃ ಸೌಂದ್ರಯಂ ಸರಸಿಜಭವಃ ಸ್ತೌತಿ ವದನೈಃ |
ನಖೇಭ್ಯಃ ಸಂತ್ರಸ್ಯನ್ ಪ್ರಥಮ-ಮಥನಾ ದಂತಕರಿಪೋಃ
ಚತುರ್ಣಾಂ ಶೀರ್ಷಾಣಾಂ ಸಮ-ಮಭಯಹಸ್ತಾರ್ಪಣ-ಧಿಯಾ || 70 ||

ನಖಾನಾ-ಮುದ್ಯೋತೈ-ರ್ನವನಲಿನರಾಗಂ ವಿಹಸತಾಂ
ಕರಾಣಾಂ ತೇ ಕಾಂತಿಂ ಕಥಯ ಕಥಯಾಮಃ ಕಥಮುಮೇ |
ಕಯಾಚಿದ್ವಾ ಸಾಮ್ಯಂ ಭಜತು ಕಲಯಾ ಹಂತ ಕಮಲಂ
ಯದಿ ಕ್ರೀಡಲ್ಲಕ್ಷ್ಮೀ-ಚರಣತಲ-ಲಾಕ್ಷಾರಸ-ಚಣಮ್ || 71 ||

ಸಮಂ ದೇವಿ ಸ್ಕಂದ ದ್ವಿಪಿವದನ ಪೀತಂ ಸ್ತನಯುಗಂ
ತವೇದಂ ನಃ ಖೇದಂ ಹರತು ಸತತಂ ಪ್ರಸ್ನುತ-ಮುಖಮ್ |
ಯದಾಲೋಕ್ಯಾಶಂಕಾಕುಲಿತ ಹೃದಯೋ ಹಾಸಜನಕಃ
ಸ್ವಕುಂಭೌ ಹೇರಂಬಃ ಪರಿಮೃಶತಿ ಹಸ್ತೇನ ಝಡಿತಿ || 72 ||

ಅಮೂ ತೇ ವಕ್ಷೋಜಾ-ವಮೃತರಸ-ಮಾಣಿಕ್ಯ ಕುತುಪೌ
ನ ಸಂದೇಹಸ್ಪಂದೋ ನಗಪತಿ ಪತಾಕೇ ಮನಸಿ ನಃ |
ಪಿಬಂತೌ ತೌ ಯಸ್ಮಾ ದವಿದಿತ ವಧೂಸಂಗ ರಸಿಕೌ
ಕುಮಾರಾವದ್ಯಾಪಿ ದ್ವಿರದವದನ-ಕ್ರೌಂಚ್ದಲನೌ || 73 ||

ವಹತ್ಯಂಬ ಸ್ತ್ಂಬೇರಮ-ದನುಜ-ಕುಂಭಪ್ರಕೃತಿಭಿಃ
ಸಮಾರಬ್ಧಾಂ ಮುಕ್ತಾಮಣಿಭಿರಮಲಾಂ ಹಾರಲತಿಕಾಮ್ |
ಕುಚಾಭೋಗೋ ಬಿಂಬಾಧರ-ರುಚಿಭಿ-ರಂತಃ ಶಬಲಿತಾಂ
ಪ್ರತಾಪ-ವ್ಯಾಮಿಶ್ರಾಂ ಪುರದಮಯಿತುಃ ಕೀರ್ತಿಮಿವ ತೇ || 74 ||

ತವ ಸ್ತನ್ಯಂ ಮನ್ಯೇ ಧರಣಿಧರಕನ್ಯೇ ಹೃದಯತಃ
ಪಯಃ ಪಾರಾವಾರಃ ಪರಿವಹತಿ ಸಾರಸ್ವತಮಿವ |
ದಯಾವತ್ಯಾ ದತ್ತಂ ದ್ರವಿಡಶಿಶು-ರಾಸ್ವಾದ್ಯ ತವ ಯತ್
ಕವೀನಾಂ ಪ್ರೌಢಾನಾ ಮಜನಿ ಕಮನೀಯಃ ಕವಯಿತಾ || 75 ||

ಹರಕ್ರೋಧ-ಜ್ವಾಲಾವಲಿಭಿ-ರವಲೀಢೇನ ವಪುಷಾ
ಗಭೀರೇ ತೇ ನಾಭೀಸರಸಿ ಕೃತಸಙೋ ಮನಸಿಜಃ |
ಸಮುತ್ತಸ್ಥೌ ತಸ್ಮಾ-ದಚಲತನಯೇ ಧೂಮಲತಿಕಾ
ಜನಸ್ತಾಂ ಜಾನೀತೇ ತವ ಜನನಿ ರೋಮಾವಲಿರಿತಿ || 76 ||

ಯದೇತತ್ಕಾಲಿಂದೀ-ತನುತರ-ತರಂಗಾಕೃತಿ ಶಿವೇ
ಕೃಶೇ ಮಧ್ಯೇ ಕಿಂಚಿಜ್ಜನನಿ ತವ ಯದ್ಭಾತಿ ಸುಧಿಯಾಮ್ |
ವಿಮರ್ದಾ-ದನ್ಯೋನ್ಯಂ ಕುಚಕಲಶಯೋ-ರಂತರಗತಂ
ತನೂಭೂತಂ ವ್ಯೋಮ ಪ್ರವಿಶದಿವ ನಾಭಿಂ ಕುಹರಿಣೀಮ್ || 77 ||

ಸ್ಥಿರೋ ಗಂಗಾ ವರ್ತಃ ಸ್ತನಮುಕುಲ-ರೋಮಾವಲಿ-ಲತಾ
ಕಲಾವಾಲಂ ಕುಂಡಂ ಕುಸುಮಶರ ತೇಜೋ-ಹುತಭುಜಃ |
ರತೇ-ರ್ಲೀಲಾಗಾರಂ ಕಿಮಪಿ ತವ ನಾಭಿರ್ಗಿರಿಸುತೇ
ಬೇಲದ್ವಾರಂ ಸಿದ್ಧೇ-ರ್ಗಿರಿಶನಯನಾನಾಂ ವಿಜಯತೇ || 78 ||

ನಿಸರ್ಗ-ಕ್ಷೀಣಸ್ಯ ಸ್ತನತಟ-ಭರೇಣ ಕ್ಲಮಜುಷೋ
ನಮನ್ಮೂರ್ತೇ ರ್ನಾರೀತಿಲಕ ಶನಕೈ-ಸ್ತ್ರುಟ್ಯತ ಇವ |
ಚಿರಂ ತೇ ಮಧ್ಯಸ್ಯ ತ್ರುಟಿತ ತಟಿನೀ-ತೀರ-ತರುಣಾ
ಸಮಾವಸ್ಥಾ-ಸ್ಥೇಮ್ನೋ ಭವತು ಕುಶಲಂ ಶೈಲತನಯೇ || 79 ||

ಕುಚೌ ಸದ್ಯಃ ಸ್ವಿದ್ಯ-ತ್ತಟಘಟಿತ-ಕೂರ್ಪಾಸಭಿದುರೌ
ಕಷಂತೌ-ದೌರ್ಮೂಲೇ ಕನಕಕಲಶಾಭೌ ಕಲಯತಾ |
ತವ ತ್ರಾತುಂ ಭಂಗಾದಲಮಿತಿ ವಲಗ್ನಂ ತನುಭುವಾ
ತ್ರಿಧಾ ನದ್ಧ್ಮ್ ದೇವೀ ತ್ರಿವಲಿ ಲವಲೀವಲ್ಲಿಭಿರಿವ || 80 ||

ಗುರುತ್ವಂ ವಿಸ್ತಾರಂ ಕ್ಷಿತಿಧರಪತಿಃ ಪಾರ್ವತಿ ನಿಜಾತ್
ನಿತಂಬಾ-ದಾಚ್ಛಿದ್ಯ ತ್ವಯಿ ಹರಣ ರೂಪೇಣ ನಿದಧೇ |
ಅತಸ್ತೇ ವಿಸ್ತೀರ್ಣೋ ಗುರುರಯಮಶೇಷಾಂ ವಸುಮತೀಂ
ನಿತಂಬ-ಪ್ರಾಗ್ಭಾರಃ ಸ್ಥಗಯತಿ ಸಘುತ್ವಂ ನಯತಿ ಚ || 81 ||

ಕರೀಂದ್ರಾಣಾಂ ಶುಂಡಾನ್-ಕನಕಕದಲೀ-ಕಾಂಡಪಟಲೀಂ
ಉಭಾಭ್ಯಾಮೂರುಭ್ಯಾ-ಮುಭಯಮಪಿ ನಿರ್ಜಿತ್ಯ ಭವತಿ |
ಸುವೃತ್ತಾಭ್ಯಾಂ ಪತ್ಯುಃ ಪ್ರಣತಿಕಠಿನಾಭ್ಯಾಂ ಗಿರಿಸುತೇ
ವಿಧಿಙ್ಞೇ ಜಾನುಭ್ಯಾಂ ವಿಬುಧ ಕರಿಕುಂಭ ದ್ವಯಮಸಿ || 82 ||

ಪರಾಜೇತುಂ ರುದ್ರಂ ದ್ವಿಗುಣಶರಗರ್ಭೌ ಗಿರಿಸುತೇ
ನಿಷಂಗೌ ಜಂಘೇ ತೇ ವಿಷಮವಿಶಿಖೋ ಬಾಢ-ಮಕೃತ |
ಯದಗ್ರೇ ದೃಸ್ಯಂತೇ ದಶಶರಫಲಾಃ ಪಾದಯುಗಲೀ
ನಖಾಗ್ರಚ್ಛನ್ಮಾನಃ ಸುರ ಮುಕುಟ-ಶಾಣೈಕ-ನಿಶಿತಾಃ || 83 ||

ಶ್ರುತೀನಾಂ ಮೂರ್ಧಾನೋ ದಧತಿ ತವ ಯೌ ಶೇಖರತಯಾ
ಮಮಾಪ್ಯೇತೌ ಮಾತಃ ಶೇರಸಿ ದಯಯಾ ದೇಹಿ ಚರಣೌ |
ಯಯ‌ಓಃ ಪಾದ್ಯಂ ಪಾಥಃ ಪಶುಪತಿ ಜಟಾಜೂಟ ತಟಿನೀ
ಯಯೋ-ರ್ಲಾಕ್ಷಾ-ಲಕ್ಷ್ಮೀ-ರರುಣ ಹರಿಚೂಡಾಮಣಿ ರುಚಿಃ || 84 ||

ನಮೋ ವಾಕಂ ಬ್ರೂಮೋ ನಯನ-ರಮಣೀಯಾಯ ಪದಯೋಃ
ತವಾಸ್ಮೈ ದ್ವಂದ್ವಾಯ ಸ್ಫುಟ-ರುಚಿ ರಸಾಲಕ್ತಕವತೇ |
ಅಸೂಯತ್ಯತ್ಯಂತಂ ಯದಭಿಹನನಾಯ ಸ್ಪೃಹಯತೇ
ಪಶೂನಾ-ಮೀಶಾನಃ ಪ್ರಮದವನ-ಕಂಕೇಲಿತರವೇ || 85 ||

ಮೃಷಾ ಕೃತ್ವಾ ಗೋತ್ರಸ್ಖಲನ-ಮಥ ವೈಲಕ್ಷ್ಯನಮಿತಂ
ಲಲಾಟೇ ಭರ್ತಾರಂ ಚರಣಕಮಲೇ ತಾಡಯತಿ ತೇ |
ಚಿರಾದಂತಃ ಶಲ್ಯಂ ದಹನಕೃತ ಮುನ್ಮೂಲಿತವತಾ
ತುಲಾಕೋಟಿಕ್ವಾಣೈಃ ಕಿಲಿಕಿಲಿತ ಮೀಶಾನ ರಿಪುಣಾ || 86 ||

ಹಿಮಾನೀ ಹಂತವ್ಯಂ ಹಿಮಗಿರಿನಿವಾಸೈಕ-ಚತುರೌ
ನಿಶಾಯಾಂ ನಿದ್ರಾಣಂ ನಿಶಿ-ಚರಮಭಾಗೇ ಚ ವಿಶದೌ |
ವರಂ ಲಕ್ಷ್ಮೀಪಾತ್ರಂ ಶ್ರಿಯ-ಮತಿಸೃಹಂತೋ ಸಮಯಿನಾಂ
ಸರೋಜಂ ತ್ವತ್ಪಾದೌ ಜನನಿ ಜಯತ-ಶ್ಚಿತ್ರಮಿಹ ಕಿಮ್ || 87 ||

ಪದಂ ತೇ ಕೀರ್ತೀನಾಂ ಪ್ರಪದಮಪದಂ ದೇವಿ ವಿಪದಾಂ
ಕಥಂ ನೀತಂ ಸದ್ಭಿಃ ಕಠಿನ-ಕಮಠೀ-ಕರ್ಪರ-ತುಲಾಮ್ |
ಕಥಂ ವಾ ಬಾಹುಭ್ಯಾ-ಮುಪಯಮನಕಾಲೇ ಪುರಭಿದಾ
ಯದಾದಾಯ ನ್ಯಸ್ತಂ ದೃಷದಿ ದಯಮಾನೇನ ಮನಸಾ || 88 ||

ನಖೈ-ರ್ನಾಕಸ್ತ್ರೀಣಾಂ ಕರಕಮಲ-ಸಂಕೋಚ-ಶಶಿಭಿಃ
ತರೂಣಾಂ ದಿವ್ಯಾನಾಂ ಹಸತ ಇವ ತೇ ಚಂಡಿ ಚರಣೌ |
ಫಲಾನಿ ಸ್ವಃಸ್ಥೇಭ್ಯಃ ಕಿಸಲಯ-ಕರಾಗ್ರೇಣ ದದತಾಂ
ದರಿದ್ರೇಭ್ಯೋ ಭದ್ರಾಂ ಶ್ರಿಯಮನಿಶ-ಮಹ್ನಾಯ ದದತೌ || 89 ||

ದದಾನೇ ದೀನೇಭ್ಯಃ ಶ್ರಿಯಮನಿಶ-ಮಾಶಾನುಸದೃಶೀಂ
ಅಮಂದಂ ಸೌಂದರ್ಯಂ ಪ್ರಕರ-ಮಕರಂದಂ ವಿಕಿರತಿ |
ತವಾಸ್ಮಿನ್ ಮಂದಾರ-ಸ್ತಬಕ-ಸುಭಗೇ ಯಾತು ಚರಣೇ
ನಿಮಜ್ಜನ್ ಮಜ್ಜೀವಃ ಕರಣಚರಣಃ ಷ್ಟ್ಚರಣತಾಮ್ || 90 ||

ಪದನ್ಯಾಸ-ಕ್ರೀಡಾ ಪರಿಚಯ-ಮಿವಾರಬ್ಧು-ಮನಸಃ
ಸ್ಖಲಂತಸ್ತೇ ಖೇಲಂ ಭವನಕಲಹಂಸಾ ನ ಜಹತಿ |
ಅತಸ್ತೇಷಾಂ ಶಿಕ್ಷಾಂ ಸುಭಗಮಣಿ-ಮಂಜೀರ-ರಣಿತ-
ಚ್ಛಲಾದಾಚಕ್ಷಾಣಂ ಚರಣಕಮಲಂ ಚಾರುಚರಿತೇ || 91 ||

ಗತಾಸ್ತೇ ಮಂಚತ್ವಂ ದ್ರುಹಿಣ ಹರಿ ರುದ್ರೇಶ್ವರ ಭೃತಃ
ಶಿವಃ ಸ್ವಚ್ಛ-ಚ್ಛಾಯಾ-ಘಟಿತ-ಕಪಟ-ಪ್ರಚ್ಛದಪಟಃ |
ತ್ವದೀಯಾನಾಂ ಭಾಸಾಂ ಪ್ರತಿಫಲನ ರಾಗಾರುಣತಯಾ
ಶರೀರೀ ಶೃಂಗಾರೋ ರಸ ಇವ ದೃಶಾಂ ದೋಗ್ಧಿ ಕುತುಕಮ್ || 92 ||

ಅರಾಲಾ ಕೇಶೇಷು ಪ್ರಕೃತಿ ಸರಲಾ ಮಂದಹಸಿತೇ
ಶಿರೀಷಾಭಾ ಚಿತ್ತೇ ದೃಷದುಪಲಶೋಭಾ ಕುಚತಟೇ |
ಭೃಶಂ ತನ್ವೀ ಮಧ್ಯೇ ಪೃಥು-ರುರಸಿಜಾರೋಹ ವಿಷಯೇ
ಜಗತ್ತ್ರತುಂ ಶಂಭೋ-ರ್ಜಯತಿ ಕರುಣಾ ಕಾಚಿದರುಣಾ || 93 ||

ಕಲಂಕಃ ಕಸ್ತೂರೀ ರಜನಿಕರ ಬಿಂಬಂ ಜಲಮಯಂ
ಕಲಾಭಿಃ ಕರ್ಪೂರೈ-ರ್ಮರಕತಕರಂಡಂ ನಿಬಿಡಿತಮ್ |
ಅತಸ್ತ್ವದ್ಭೋಗೇನ ಪ್ರತಿದಿನಮಿದಂ ರಿಕ್ತಕುಹರಂ
ವಿಧಿ-ರ್ಭೂಯೋ ಭೂಯೋ ನಿಬಿಡಯತಿ ನೂನಂ ತವ ಕೃತೇ || 94 ||

ಪುರಾರಂತೇ-ರಂತಃ ಪುರಮಸಿ ತತ-ಸ್ತ್ವಚರಣಯೋಃ
ಸಪರ್ಯಾ-ಮರ್ಯಾದಾ ತರಲಕರಣಾನಾ-ಮಸುಲಭಾ |
ತಥಾ ಹ್ಯೇತೇ ನೀತಾಃ ಶತಮಖಮುಖಾಃ ಸಿದ್ಧಿಮತುಲಾಂ
ತವ ದ್ವಾರೋಪಾಂತಃ ಸ್ಥಿತಿಭಿ-ರಣಿಮಾದ್ಯಾಭಿ-ರಮರಾಃ || 95 ||

ಕಲತ್ರಂ ವೈಧಾತ್ರಂ ಕತಿಕತಿ ಭಜಂತೇ ನ ಕವಯಃ
ಶ್ರಿಯೋ ದೇವ್ಯಾಃ ಕೋ ವಾ ನ ಭವತಿ ಪತಿಃ ಕೈರಪಿ ಧನೈಃ |
ಮಹಾದೇವಂ ಹಿತ್ವಾ ತವ ಸತಿ ಸತೀನಾ-ಮಚರಮೇ
ಕುಚಭ್ಯಾ-ಮಾಸಂಗಃ ಕುರವಕ-ತರೋ-ರಪ್ಯಸುಲಭಃ || 96 ||

ಗಿರಾಮಾಹು-ರ್ದೇವೀಂ ದ್ರುಹಿಣಗೃಹಿಣೀ-ಮಾಗಮವಿದೋ
ಹರೇಃ ಪತ್ನೀಂ ಪದ್ಮಾಂ ಹರಸಹಚರೀ-ಮದ್ರಿತನಯಾಮ್ |
ತುರೀಯಾ ಕಾಪಿ ತ್ವಂ ದುರಧಿಗಮ-ನಿಸ್ಸೀಮ-ಮಹಿಮಾ
ಮಹಾಮಾಯಾ ವಿಶ್ವಂ ಭ್ರಮಯಸಿ ಪರಬ್ರಹ್ಮಮಹಿಷಿ || 97 ||

ಕದಾ ಕಾಲೇ ಮಾತಃ ಕಥಯ ಕಲಿತಾಲಕ್ತಕರಸಂ
ಪಿಬೇಯಂ ವಿದ್ಯಾರ್ಥೀ ತವ ಚರಣ-ನಿರ್ಣೇಜನಜಲಮ್ |
ಪ್ರಕೃತ್ಯಾ ಮೂಕಾನಾಮಪಿ ಚ ಕವಿತಾ0ಕಾರಣತಯಾ
ಕದಾ ಧತ್ತೇ ವಾಣೀಮುಖಕಮಲ-ತಾಂಬೂಲ-ರಸತಾಮ್ || 98 ||

ಸರಸ್ವತ್ಯಾ ಲಕ್ಷ್ಮ್ಯಾ ವಿಧಿ ಹರಿ ಸಪತ್ನೋ ವಿಹರತೇ
ರತೇಃ ಪತಿವ್ರತ್ಯಂ ಶಿಥಿಲಪತಿ ರಮ್ಯೇಣ ವಪುಷಾ |
ಚಿರಂ ಜೀವನ್ನೇವ ಕ್ಷಪಿತ-ಪಶುಪಾಶ-ವ್ಯತಿಕರಃ
ಪರಾನಂದಾಭಿಖ್ಯಂ ರಸಯತಿ ರಸಂ ತ್ವದ್ಭಜನವಾನ್ || 99 ||

ಪ್ರದೀಪ ಜ್ವಾಲಾಭಿ-ರ್ದಿವಸಕರ-ನೀರಾಜನವಿಧಿಃ
ಸುಧಾಸೂತೇ-ಶ್ಚಂದ್ರೋಪಲ-ಜಲಲವೈ-ರಘ್ಯರಚನಾ |
ಸ್ವಕೀಯೈರಂಭೋಭಿಃ ಸಲಿಲ-ನಿಧಿ-ಸೌಹಿತ್ಯಕರಣಂ
ತ್ವದೀಯಾಭಿ-ರ್ವಾಗ್ಭಿ-ಸ್ತವ ಜನನಿ ವಾಚಾಂ ಸ್ತುತಿರಿಯಮ್ || 100 ||

ಸೌಂದಯಲಹರಿ ಮುಖ್ಯಸ್ತೋತ್ರಂ ಸಂವಾರ್ತದಾಯಕಮ್ |
ಭಗವದ್ಪಾದ ಸನ್ಕ್ಲುಪ್ತಂ ಪಠೇನ್ ಮುಕ್ತೌ ಭವೇನ್ನರಃ ||
ಸೌಂದರ್ಯಲಹರಿ ಸ್ತೋತ್ರಂ ಸಂಪೂರ್ಣಂ

.


bhumauskhalita pādānām bhūmirevā valambanam |
tvayī jātā parādhānām tvameva śaraṇam śive ||

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na cedevaṃ devo na khalu kuśalaḥ spanditumapi|
atastvām ārādhyāṃ hari-hara-virincādibhi rapi
praṇantuṃ stotuṃ vā katha-makrta puṇyaḥ prabhavati|| 1 ||

tanīyāṃsuṃ pāṃsuṃ tava caraṇa paṅkeruha-bhavaṃ
viriñciḥ sañcinvan viracayati lokā-navikalam |
vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ
haraḥ saṅkṣud-yainaṃ bhajati bhasitoddhūḷa navidhim|| 2 ||

avidyānā-manta-stimira-mihira dvīpanagarī
jaḍānāṃ caitanya-stabaka makaranda śrutijharī |
daridrāṇāṃ cintāmaṇi guṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripu varāhasya bhavati|| 3 ||

tvadanyaḥ pāṇibhayā-mabhayavarado daivatagaṇaḥ
tvamekā naivāsi prakaṭita-varabhītyabhinayā |
bhayāt trātuṃ dātuṃ phalamapi ca vāṃchāsamadhikaṃ
śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau || 4 ||

haristvāmāradhya praṇata-jana-saubhāgya-jananīṃ
purā nārī bhūtvā puraripumapi kṣobha manayat |
smaropi tvāṃ natvā ratinayana-lehyena vapuṣā
munīnāmapyantaḥ prabhavati hi mohāya mahatām || 5 ||

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhāḥ
vasantaḥ sāmanto malayamaru-dāyodhana-rathaḥ |
tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpāṃ
apāṅgātte labdhvā jagadida-manaṅgo vijayate || 6 ||

kvaṇatkāñcī-dāmā kari kalabha kumbha-stananatā
parikṣīṇā madhye pariṇata śaraccandra-vadanā |
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ
purastā dāstāṃ naḥ puramathitu rāho-puruṣikā || 7 ||

sudhāsindhormadhye suraviṭa-pivāṭī-parivṛte
maṇidvīpe nīpo-pavanavati cintāmaṇi gṛhe |
śivakāre mañce paramaśiva-paryaṅka nilayām
bhajanti tvāṃ dhanyāḥ katicana cidānanda-laharīm || 8 ||

mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ
sthitaṃ svadhiṣṭāne hṛdi maruta-mākāśa-mupari |
manopi bhrūmadhye sakalamapi bhitvā kulapathaṃ
sahasrāre padme sa harahasi patyā viharase || 9 ||

sudhādhārāsārai-ścaraṇayugalānta-rvigalitaiḥ
prapañcaṃ sinñntī punarapi rasāmnāya-mahasaḥ|
avāpya svāṃ bhūmiṃ bhujaganibha-madhyuṣṭa-valayaṃ
svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi || 10 ||

caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhipi
prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ |
catuścatvāriṃśad-vasudala-kalāśc-trivalaya-
trirekhabhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ || 11 ||

tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
kavīndrāḥ kalpante kathamapi viriñci-prabhṛtayaḥ |
yadālokautsukyā-damaralalanā yānti manasā
tapobhirduṣprāpāmapi giriśa-sāyujya-padavīm || 12 ||

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patita-manudhāvanti śataśaḥ |
galadveṇībandhāḥ kucakalaśa-vistrista-sicayā
haṭāt truṭyatkāñyo vigalita-dukūlā yuvatayaḥ || 13 ||

kṣitau ṣaṭpañcāśad-dvisamadhika-pañcāśa-dudake
hutaśe dvāṣaṣṭi-ścaturadhika-pañcāśa-danile |
divi dviḥ ṣaṭ triṃśan manasi ca catuḥṣaṣṭiriti ye
mayūkhā-steṣā-mapyupari tava pādāmbuja-yugam || 14 ||

śarajjyotsnā śuddhāṃ śaśiyuta-jaṭājūṭa-makuṭāṃ
vara-trāsa-trāṇa-sphaṭikaghuṭikā-pustaka-karām |
sakṛnna tvā natvā kathamiva satāṃ sannidadhate
madhu-kṣīra-drākṣā-madhurima-dhurīṇāḥ phaṇitayaḥ || 15 ||

kavīndrāṇāṃ cetaḥ kamalavana-bālātapa-ruciṃ
bhajante ye santaḥ katicidaruṇāmeva bhavatīm |
viriñci-preyasyā-staruṇatara-śrṛṅgara laharī-
gabhīrābhi-rvāgbhiḥ rvidadhati satāṃ rañjanamamī || 16 ||

savitrībhi-rvācāṃ caśi-maṇi śilā-bhaṅga rucibhi-
rvaśinyadyābhi-stvāṃ saha janani sañcintayati yaḥ |
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhi-
rvacobhi-rvāgdevī-vadana-kamalāmoda madhuraiḥ || 17 ||

tanucchāyābhiste taruṇa-taraṇi-śrīsaraṇibhi-
rdivaṃ sarvā-murvī-maruṇimani magnāṃ smarati yaḥ |
bhavantyasya trasya-dvanahariṇa-śālīna-nayanāḥ
sahorvaśyā vaśyāḥ kati kati na gīrvāṇa-gaṇikāḥ || 18 ||

mukhaṃ binduṃ kṛtvā kucayugamadha-stasya tadadho
harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām |
sa sadyaḥ saṅkṣobhaṃ nayati vanitā ityatilaghu
trilokīmapyāśu bhramayati ravīndu-stanayugām || 19 ||

kirantī-maṅgebhyaḥ kiraṇa-nikurumbamṛtarasaṃ
hṛdi tvā mādhatte himakaraśilā-mūrtimiva yaḥ |
sa sarpāṇāṃ darpaṃ śamayati śakuntadhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā || 20 ||

taṭillekhā-tanvīṃ tapana śaśi vaiśvānara mayīṃ
niṣṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām |
mahāpadmātavyāṃ mṛdita-malamāyena manasā
mahāntaḥ paśyanto dadhati paramāhlāda-laharīm || 21 ||

bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇāṃ
iti stotuṃ vāñchan kathayati bhavāni tvamiti yaḥ |
tadaiva tvaṃ tasmai diśasi nijasāyujya-padavīṃ
mukunda-bramhendra sphuṭa makuṭa nīrājitapadām || 22 ||

tvayā hṛtvā vāmaṃ vapu-raparitṛptena manasā
śarīrārdhaṃ śambho-raparamapi śaṅke hṛtamabhūt |
yadetat tvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kucābhyāmānamraṃ kuṭila-śaśicūḍāla-makuṭam || 23 ||

jagatsūte dhātā hariravati rudraḥ kṣapayate
tiraskurva-nnetat svamapi vapu-rīśa-stirayati |
sadā pūrvaḥ sarvaṃ tadida manugṛhṇāti ca śiva-
stavāṅñā malambya kṣaṇacalitayo rbhrūlatikayoḥ || 24 ||

trayāṇāṃ devānāṃ triguṇa-janitānāṃ tava śive
bhavet pūjā pūjā tava caraṇayo-ryā viracitā |
tathā hi tvatpādodvahana-maṇipīṭhasya nikaṭe
sthitā hyete-śaśvanmukulita karottaṃsa-makuṭāḥ || 25 ||

viriñciḥ pañcatvaṃ vrajati harirāpnoti viratiṃ
vināśaṃ kīnāśo bhajati dhanado yāti nidhanam |
vitandrī māhendrī-vitatirapi saṃmīlita-dṛśā
mahāsaṃhāresmin viharati sati tvatpati rasau || 26 ||

japo jalpaḥ śilpaṃ sakalamapi mudrāviracanā
gatiḥ prādakṣiṇya-kramaṇa-maśanādyā huti-vidhiḥ |
praṇāmaḥ saṃveśaḥ sukhamakhila-mātmārpaṇa-dṛśā
saparyā paryāya-stava bhavatu yanme vilasitam || 27 ||

sudhāmapyāsvādya prati-bhaya-jaramṛtyu-hariṇīṃ
vipadyante viśve vidhi-śatamakhādyā diviṣadaḥ |
karālaṃ yat kṣvelaṃ kabalitavataḥ kālakalanā
na śambhostanmūlaṃ tava janani tāṭaṅka mahimā || 28 ||

kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ
kaṭhore koṭhīre skalasi jahi jambhāri-makuṭam |
praṇamreṣveteṣu prasabha-mupayātasya bhavanaṃ
bhavasyabhyutthāne tava parijanokti-rvijayate || 29 ||

svadehodbhūtābhi-rghṛṇibhi-raṇimādyābhi-rabhito
niṣevye nitye tvā mahamiti sadā bhāvayati yaḥ |
kimāścaryaṃ tasya trinayana-samṛddhiṃ tṛṇayato
mahāsaṃvartāgni-rviracayati nīrājanavidhim || 30 ||

catuḥ-ṣaṣṭayā tantraiḥ sakala matisandhāya bhuvanaṃ
sthitastattta-siddhi prasava paratantraiḥ paśupatiḥ |
punastva-nnirbandhā dakhila-puruṣārthaika ghaṭanā-
svatantraṃ te tantraṃ kṣititala mavātītara-didam || 31 ||

śivaḥ śaktiḥ kāmaḥ kṣiti-ratha raviḥ śītakiraṇaḥ
smaro haṃsaḥ śakra-stadanu ca parā-māra-harayaḥ |
amī hṛllekhābhi-stisṛbhi-ravasāneṣu ghaṭitā
bhajante varṇāste tava janani nāmāvayavatām || 32 ||

smaraṃ yoniṃ lakṣmīṃ tritaya-mida-mādau tava mano
rnidhāyaike nitye niravadhi-mahābhoga-rasikāḥ |
bhajanti tvāṃ cintāmaṇi-guṇanibaddhākṣa-valayāḥ
śivāgnau juhvantaḥ surabhighṛta-dhārāhuti-śatai || 33 ||

śarīraṃ tvaṃ śambhoḥ śaśi-mihira-vakṣoruha-yugaṃ
tavātmānaṃ manye bhagavati navātmāna-managham |
ataḥ śeṣaḥ śeṣītyaya-mubhaya-sādhāraṇatayā
sthitaḥ sambandho vāṃ samarasa-parānanda-parayoḥ || 34 ||

manastvaṃ vyoma tvaṃ marudasi marutsārathi-rasi
tvamāpa-stvaṃ bhūmi-stvayi pariṇatāyāṃ na hi param |
tvameva svātmānaṃ pariṇmayituṃ viśva vapuṣā
cidānandākāraṃ śivayuvati bhāvena bibhṛṣe || 35 ||

tavāṅñacakrasthaṃ tapana-śaśi koṭi-dyutidharaṃ
paraṃ śambhu vande parimilita-pārśvaṃ paracitā |
yamārādhyan bhaktyā ravi śaśi śucīnā-maviṣaye
nirāloke loke nivasati hi bhāloka-bhuvane || 36 ||

viśuddhau te śuddhasphatika viśadaṃ vyoma-janakaṃ
śivaṃ seve devīmapi śivasamāna-vyavasitām |
yayoḥ kāntyā yāntyāḥ śaśikiraṇ-sārūpyasaraṇe
vidhūtānta-rdhvāntā vilasati cakorīva jagatī || 37 ||

samunmīlat saṃvitkamala-makarandaika-rasikaṃ
bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacaram |
yadālāpā-daṣṭādaśa-guṇita-vidyāpariṇatiḥ
yadādatte doṣād guṇa-makhila-madbhyaḥ paya iva || 38 ||

tava svādhiṣṭhāne hutavaha-madhiṣṭhāya nirataṃ
tamīḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām |
yadāloke lokān dahati mahasi krodha-kalite
dayārdrā yā dṛṣṭiḥ śiśira-mupacāraṃ racayati || 39 ||

taṭitvantaṃ śaktyā timira-paripanthi-sphuraṇayā
sphura-nnā naratnābharaṇa-pariṇaddhendra-dhanuṣam |
tava śyāmaṃ meghaṃ kamapi maṇipūraika-śaraṇaṃ
niṣeve varṣantaṃ-haramihira-taptaṃ tribhuvanam || 40 ||

tavādhāre mūle saha samayayā lāsyaparayā
navātmāna manye navarasa-mahātāṇḍava-naṭam |
ubhābhyā metābhyā-mudaya-vidhi muddiśya dayayā
sanāthābhyāṃ jaṅñe janaka jananīmat jagadidam || 41 ||

dvitīya bhāgaḥ – saundarya laharī

gatai-rmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ
kirīṭaṃ te haimaṃ himagirisute kītayati yaḥ ||
sa nīḍeyacchāyā-cchuraṇa-śakalaṃ candra-śakalaṃ
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām || 42 ||

dhunotu dhvāntaṃ na-stulita-dalitendīvara-vanaṃ
ghanasnigdha-ślakṣṇaṃ cikura nikurumbaṃ tava śive |
yadīyaṃ saurabhyaṃ sahaja-mupalabdhuṃ sumanaso
vasantyasmin manye balamathana vāṭī-viṭapinām || 43 ||

tanotu kṣemaṃ na-stava vadanasaundaryalaharī
parīvāhasrotaḥ-saraṇiriva sīmantasaraṇiḥ|
vahantī- sindūraṃ prabalakabarī-bhāra-timira
dviṣāṃ bṛndai-rvandīkṛtameva navīnārka keraṇam || 44 ||

arālai svābhāvyā-dalikalabha-saśrībhi ralakaiḥ
parītaṃ te vaktraṃ parihasati paṅkeruharucim |
darasmere yasmin daśanaruci kiñjalka-rucire
sugandhau mādyanti smaradahana cakṣu-rmadhulihaḥ || 45 ||

lalāṭaṃ lāvaṇya dyuti vimala-mābhāti tava yat
dvitīyaṃ tanmanye makuṭaghaṭitaṃ candraśakalam |
viparyāsa-nyāsā dubhayamapi sambhūya ca mithaḥ
sudhālepasyūtiḥ pariṇamati rākā-himakaraḥ || 46 ||

bhruvau bhugne kiñcidbhuvana-bhaya-bhaṅgavyasanini
tvadīye netrābhyāṃ madhukara-rucibhyāṃ dhṛtaguṇam |
dhanu rmanye savyetarakara gṛhītaṃ ratipateḥ
prakoṣṭe muṣṭau ca sthagayate nigūḍhāntara-mume || 47 ||

ahaḥ sūte savya tava nayana-markātmakatayā
triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā |
tṛtīyā te dṛṣṭi-rdaradalita-hemāmbuja-ruciḥ
samādhatte sandhyāṃ divasar-niśayo-rantaracarīm || 48 ||

viśālā kalyāṇī sphutaruci-rayodhyā kuvalayaiḥ
kṛpādhārādhārā kimapi madhurābhogavatikā |
avantī dṛṣṭiste bahunagara-vistāra-vijayā
dhruvaṃ tattannāma-vyavaharaṇa-yogyāvijayate || 49 ||

kavīnāṃ sandarbha-stabaka-makarandaika-rasikaṃ
kaṭākṣa-vyākṣepa-bhramarakalabhau karṇayugalam |
amuñcntau dṛṣṭvā tava navarasāsvāda-taralau
asūyā-saṃsargā-dalikanayanaṃ kiñcidaruṇam || 50 ||

śive śaṅgārārdrā taditarajane kutsanaparā
saroṣā gaṅgāyāṃ giriśacarite vismayavatī |
harāhibhyo bhītā sarasiruha saubhāgya-jananī
sakhīṣu smerā te mayi janani dṛṣṭiḥ sakaruṇā || 51 ||

gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī
purāṃ bhettu-ścittapraśama-rasa-vidrāvaṇa phale |
ime netre gotrādharapati-kulottaṃsa-kalike
tavākarṇākṛṣṭa smaraśara-vilāsaṃ kalayataḥ|| 52 ||

vibhakta-traivarṇyaṃ vyatikarita-līlāñjanatayā
vibhāti tvannetra tritaya mida-mīśānadayite |
punaḥ sraṣṭuṃ devān druhiṇa hari-rudrānuparatān
rajaḥ satvaṃ vebhrat tama iti guṇānāṃ trayamiva || 53 ||

pavitrīkartuṃ naḥ paśupati-parādhīna-hṛdaye
dayāmitrai rnetrai-raruṇa-dhavala-śyāma rucibhiḥ |
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamum
trayāṇāṃ tīrthānā-mupanayasi sambheda-managham || 54 ||

nimeṣonmeṣābhyāṃ pralayamudayaṃ yāti jagati
tavetyāhuḥ santo dharaṇidhara-rājanyatanaye |
tvadunmeṣājjātaṃ jagadida-maśeṣaṃ pralayataḥ
paretrātuṃ śaṃṅke parihṛta-nimeṣā-stava dṛśaḥ || 55 ||

tavāparṇe karṇe japanayana paiśunya cakitā
nilīyante toye niyata manimeṣāḥ śapharikāḥ |
iyaṃ ca śrī-rbaddhacchadapuṭakavāṭaṃ kuvalayaṃ
jahāti pratyūṣe niśi ca vighatayya praviśati|| 56 ||

dṛśā drāghīyasyā daradalita nīlotpala rucā
davīyāṃsaṃ dīnaṃ snapā kṛpayā māmapi śive |
anenāyaṃ dhanyo bhavati na ca te hāniriyatā
vane vā harmye vā samakara nipāto himakaraḥ || 57 ||

arālaṃ te pālīyugala-magarājanyatanaye
na keṣā-mādhatte kusumaśara kodaṇḍa-kutukam |
tiraścīno yatra śravaṇapatha-mullṅyya vilasan
apāṅga vyāsaṅgo diśati śarasandhāna dhiṣaṇām || 58 ||

sphuradgaṇḍābhoga-pratiphalita tāṭṅka yugalaṃ
catuścakraṃ manye tava mukhamidaṃ manmatharatham |
yamāruhya druhya tyavaniratha markenducaraṇaṃ
mahāvīro māraḥ pramathapataye sajjitavate || 59 ||

sarasvatyāḥ sūktī-ramṛtalaharī kauśalaharīḥ
pibnatyāḥ śarvāṇi śravaṇa-culukābhyā-maviralam |
camatkāraḥ-ślāghācalita-śirasaḥ kuṇḍalagaṇo
jhaṇatkaraistāraiḥ prativacana-mācaṣṭa iva te || 60 ||

asau nāsāvaṃśa-stuhinagirivaṇśa-dhvajapaṭi
tvadīyo nedīyaḥ phalatu phala-masmākamucitam |
vahatyantarmuktāḥ śiśirakara-niśvāsa-galitaṃ
samṛddhyā yattāsāṃ bahirapi ca muktāmaṇidharaḥ || 61 ||

prakṛtyāraktāyā-stava sudati dandacchadaruceḥ
pravakṣye sadṛśyaṃ janayatu phalaṃ vidrumalatā |
na bimbaṃ tadbimba-pratiphalana-rāgā-daruṇitaṃ
tulāmadhrāroḍhuṃ kathamiva vilajjeta kalayā || 62 ||

smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ
cakorāṇā-māsī-datirasatayā cañcu-jaḍimā |
ataste śītāṃśo-ramṛtalaharī māmlarucayaḥ
pibantī svacchandaṃ niśi niśi bhṛśaṃ kāñji kadhiyā || 63 ||

aviśrāntaṃ patyurguṇagaṇa kathāmreḍanajapā
japāpuṣpacchāyā tava janani jihvā jayati sā |
yadagrāsīnāyāḥ sphaṭikadṛṣa-dacchacchavimayi
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā || 64 ||

raṇe jitvā daityā napahṛta-śirastraiḥ kavacibhiḥ
nivṛttai-ścaṇḍāṃśa-tripurahara-nirmālya-vimukhaiḥ |
viśākhendropendraiḥ śaśiviśada-karpūraśakalā
vilīyante mātastava vadanatāmbūla-kabalāḥ || 65 ||

vipañcyā gāyantī vividha-mapadānaṃ paśupate-
stvayārabdhe vaktuṃ calitaśirasā sādhuvacane |
tadīyai-rmādhuryai-rapalapita-tantrīkalaravāṃ
nijāṃ vīṇāṃ vāṇīṃ niculayati colena nibhṛtam || 66 ||

karagreṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā
giriśeno-dastaṃ muhuradharapānākulatayā |
karagrāhyaṃ śambhormukhamukuravṛntaṃ girisute
kathaṅkaraṃ brūma-stava cubukamopamyarahitam || 67 ||

bhujāśleṣānnityaṃ puradamayituḥ kanṭakavatī
tava grīvā dhatte mukhakamalanāla-śriyamiyam |
svataḥ śvetā kālā garu bahula-jambālamalinā
mṛṇālīlālityaṃ vahati yadadho hāralatikā || 68 ||

gale rekhāstisro gati gamaka gītaika nipuṇe
vivāha-vyānaddha-praguṇaguṇa-saṅkhyā pratibhuvaḥ |
virājante nānāvidha-madhura-rāgākara-bhuvāṃ
trayāṇāṃ grāmāṇāṃ sthiti-niyama-sīmāna iva te || 69 ||

mṛṇālī-mṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ
caturbhiḥ saundrayaṃ sarasijabhavaḥ stauti vadanaiḥ |
nakhebhyaḥ santrasyan prathama-mathanā dantakaripoḥ
caturṇāṃ śīrṣāṇāṃ sama-mabhayahastārpaṇa-dhiyā || 70 ||

nakhānā-mudyotai-rnavanalinarāgaṃ vihasatāṃ
karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume |
kayācidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ
yadi krīḍallakṣmī-caraṇatala-lākṣārasa-caṇam || 71 ||

samaṃ devi skanda dvipivadana pītaṃ stanayugaṃ
tavedaṃ naḥ khedaṃ haratu satataṃ prasnuta-mukham |
yadālokyāśaṅkākulita hṛdayo hāsajanakaḥ
svakumbhau herambaḥ parimṛśati hastena jhaḍiti || 72 ||

amū te vakṣojā-vamṛtarasa-māṇikya kutupau
na sandehaspando nagapati patāke manasi naḥ |
pibantau tau yasmā davidita vadhūsaṅga rasikau
kumārāvadyāpi dviradavadana-krauñcdalanau || 73 ||

vahatyamba stmberama-danuja-kumbhaprakṛtibhiḥ
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām |
kucābhogo bimbādhara-rucibhi-rantaḥ śabalitāṃ
pratāpa-vyāmiśrāṃ puradamayituḥ kīrtimiva te || 74 ||

tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ
payaḥ pārāvāraḥ parivahati sārasvatamiva |
dayāvatyā dattaṃ draviḍaśiśu-rāsvādya tava yat
kavīnāṃ prauḍhānā majani kamanīyaḥ kavayitā || 75 ||

harakrodha-jvālāvalibhi-ravalīḍhena vapuṣā
gabhīre te nābhīsarasi kṛtasaṅo manasijaḥ |
samuttasthau tasmā-dacalatanaye dhūmalatikā
janastāṃ jānīte tava janani romāvaliriti || 76 ||

yadetatkālindī-tanutara-taraṅgākṛti śive
kṛśe madhye kiñcijjanani tava yadbhāti sudhiyām |
vimardā-danyonyaṃ kucakalaśayo-rantaragataṃ
tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm || 77 ||

sthiro gaṅgā vartaḥ stanamukula-romāvali-latā
kalāvālaṃ kuṇḍaṃ kusumaśara tejo-hutabhujaḥ |
rate-rlīlāgāraṃ kimapi tava nābhirgirisute
beladvāraṃ siddhe-rgiriśanayanānāṃ vijayate || 78 ||

nisarga-kṣīṇasya stanataṭa-bhareṇa klamajuṣo
namanmūrte rnārītilaka śanakai-struṭyata iva |
ciraṃ te madhyasya truṭita taṭinī-tīra-taruṇā
samāvasthā-sthemno bhavatu kuśalaṃ śailatanaye || 79 ||

kucau sadyaḥ svidya-ttaṭaghaṭita-kūrpāsabhidurau
kaṣantau-daurmūle kanakakalaśābhau kalayatā |
tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā
tridhā naddhm devī trivali lavalīvallibhiriva || 80 ||

gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijāt
nitambā-dācchidya tvayi haraṇa rūpeṇa nidadhe |
ataste vistīrṇo gururayamaśeṣāṃ vasumatīṃ
nitamba-prāgbhāraḥ sthagayati saghutvaṃ nayati ca || 81 ||

karīndrāṇāṃ śuṇḍān-kanakakadalī-kāṇḍapaṭalīṃ
ubhābhyāmūrubhyā-mubhayamapi nirjitya bhavati |
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute
vidhiṅñe jānubhyāṃ vibudha karikumbha dvayamasi || 82 ||

parājetuṃ rudraṃ dviguṇaśaragarbhau girisute
niṣaṅgau jaṅghe te viṣamaviśikho bāḍha-makṛta |
yadagre dṛsyante daśaśaraphalāḥ pādayugalī
nakhāgracchanmānaḥ sura mukuṭa-śāṇaika-niśitāḥ || 83 ||

śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā
mamāpyetau mātaḥ śerasi dayayā dehi caraṇau |
yaya–oḥ pādyaṃ pāthaḥ paśupati jaṭājūṭa taṭinī
yayo-rlākṣā-lakṣmī-raruṇa haricūḍāmaṇi ruciḥ || 84 ||

namo vākaṃ brūmo nayana-ramaṇīyāya padayoḥ
tavāsmai dvandvāya sphuṭa-ruci rasālaktakavate |
asūyatyatyantaṃ yadabhihananāya spṛhayate
paśūnā-mīśānaḥ pramadavana-kaṅkelitarave || 85 ||

mṛṣā kṛtvā gotraskhalana-matha vailakṣyanamitaṃ
lalāṭe bhartāraṃ caraṇakamale tāḍayati te |
cirādantaḥ śalyaṃ dahanakṛta munmūlitavatā
tulākoṭikvāṇaiḥ kilikilita mīśāna ripuṇā || 86 ||

himānī hantavyaṃ himagirinivāsaika-caturau
niśāyāṃ nidrāṇaṃ niśi-caramabhāge ca viśadau |
varaṃ lakṣmīpātraṃ śriya-matisṛhanto samayināṃ
sarojaṃ tvatpādau janani jayata-ścitramiha kim || 87 ||

padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ
kathaṃ nītaṃ sadbhiḥ kaṭhina-kamaṭhī-karpara-tulām |
kathaṃ vā bāhubhyā-mupayamanakāle purabhidā
yadādāya nyastaṃ dṛṣadi dayamānena manasā || 88 ||

nakhai-rnākastrīṇāṃ karakamala-saṅkoca-śaśibhiḥ
tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau |
phalāni svaḥsthebhyaḥ kisalaya-karāgreṇa dadatāṃ
daridrebhyo bhadrāṃ śriyamaniśa-mahnāya dadatau || 89 ||

dadāne dīnebhyaḥ śriyamaniśa-māśānusadṛśīṃ
amandaṃ saundaryaṃ prakara-makarandaṃ vikirati |
tavāsmin mandāra-stabaka-subhage yātu caraṇe
nimajjan majjīvaḥ karaṇacaraṇaḥ ṣṭcaraṇatām || 90 ||

padanyāsa-krīḍā paricaya-mivārabdhu-manasaḥ
skhalantaste khelaṃ bhavanakalahaṃsā na jahati |
atasteṣāṃ śikṣāṃ subhagamaṇi-mañjīra-raṇita-
cchalādācakṣāṇaṃ caraṇakamalaṃ cārucarite || 91 ||

gatāste mañcatvaṃ druhiṇa hari rudreśvara bhṛtaḥ
śivaḥ svaccha-cchāyā-ghaṭita-kapaṭa-pracchadapaṭaḥ |
tvadīyānāṃ bhāsāṃ pratiphalana rāgāruṇatayā
śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam || 92 ||

arālā keśeṣu prakṛti saralā mandahasite
śirīṣābhā citte dṛṣadupalaśobhā kucataṭe |
bhṛśaṃ tanvī madhye pṛthu-rurasijāroha viṣaye
jagattratuṃ śambho-rjayati karuṇā kācidaruṇā || 93 ||

kalaṅkaḥ kastūrī rajanikara bimbaṃ jalamayaṃ
kalābhiḥ karpūrai-rmarakatakaraṇḍaṃ nibiḍitam |
atastvadbhogena pratidinamidaṃ riktakuharaṃ
vidhi-rbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte || 94 ||

purārante-rantaḥ puramasi tata-stvacaraṇayoḥ
saparyā-maryādā taralakaraṇānā-masulabhā |
tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ
tava dvāropāntaḥ sthitibhi-raṇimādyābhi-ramarāḥ || 95 ||

kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ
śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ |
mahādevaṃ hitvā tava sati satīnā-macarame
kucabhyā-māsaṅgaḥ kuravaka-taro-rapyasulabhaḥ || 96 ||

girāmāhu-rdevīṃ druhiṇagṛhiṇī-māgamavido
hareḥ patnīṃ padmāṃ harasahacarī-madritanayām |
turīyā kāpi tvaṃ duradhigama-nissīma-mahimā
mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi || 97 ||

kadā kāle mātaḥ kathaya kalitālaktakarasaṃ
pibeyaṃ vidyārthī tava caraṇa-nirṇejanajalam |
prakṛtyā mūkānāmapi ca kavitā0kāraṇatayā
kadā dhatte vāṇīmukhakamala-tāmbūla-rasatām || 98 ||

sarasvatyā lakṣmyā vidhi hari sapatno viharate
rateḥ pativratyaṃ śithilapati ramyeṇa vapuṣā |
ciraṃ jīvanneva kṣapita-paśupāśa-vyatikaraḥ
parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān || 99 ||

pradīpa jvālābhi-rdivasakara-nīrājanavidhiḥ
sudhāsūte-ścandropala-jalalavai-raghyaracanā |
svakīyairambhobhiḥ salila-nidhi-sauhityakaraṇaṃ
tvadīyābhi-rvāgbhi-stava janani vācāṃ stutiriyam || 100 ||

saundayalahari mukhyastotraṃ saṃvārtadāyakam |
bhagavadpāda sankluptaṃ paṭhen muktau bhavennaraḥ ||
saundaryalahari stotraṃ sampūrṇaṃ

.


We will update this page, once we find comprehensive meaning. Feel free to contribute if you know.

.

, ,

No comments yet.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.